Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२३२
उत्तराध्ययन-मूलसूत्रम्-२-३४/१३९४ वृ. यथा तरुणम्-अपरिपक्वं तच्च तदाम्रकं च-आम्रफलं तद्रसः, तुवरं-सकषायं पाठान्तरतः, आर्द्रत्वाद्, उभयत्र चार्थादपक्वं तच्च तत्कपित्थं च-कपित्थफलं तस्य 'वा' विकल्पे 'अपि' पूरणे यादृशको रस इति प्रक्रमः अतोऽप्यनन्तगुणो रसस्तु 'काऊए'त्ति कापोताया ज्ञातव्योऽतिशयकषाय इत्याशयः। मू. (१३९५) जह परियणंबगरसो पक्षकवित्थस्स वावि जारिसओ।
इत्तोवि अनंतगुणो रसो उतेऊइ नायव्यो। वृ.यथा परिणतं-परिपक्वं यदाम्रकं तद्रस: पक्वकपित्थस्य वाऽपि यादृशको रसोऽतोऽप्यनन्तगुणो रसस्तु 'तेऊए'त्ति तेजोलेश्याया ज्ञातव्यः आम्लः किञ्चिन्मधुरश्चेत्यैदम्पर्य । मू.(१३९६) वरवारुणीइ व रसो विविहाण व आसवाण जारिसओ।
महुमेरगस्स व रसो इत्तो पम्हाइ परएणं॥ वृ.वरवारुणी-प्रधानसुरा तस्या वा रसो यादृशक इति योगः 'विविधानां वा' नानाप्रकाराणाम् 'आसवानां' पुष्पप्रसवमद्यानां वा यादृशको रस इति सम्बन्धः, 'महमेरयस्सव रसो'त्ति मधुमद्यविशेषो मैरेयं-सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो यादृशकोऽतो वरवारुण्यादिरसात्पद्मायाः प्रक्रमाद्रसः 'परकेणं ति अनन्तानन्तगुणत्वात्तदतिक्रमेण वर्तक इति गम्यते, अयं च किञ्चिदम्लकषायो माधुर्यवांश्चेति भावनीयं, पाठान्तरतोऽप्यनन्तगुणो रसस्तु पद्माया ज्ञातव्यः। मू.(१३९७) खज्यूरमुदियरसो खीररसो खंडसक्कररसो वा।
इत्तो उअनंतगुणो रसो उसुकाइ नायव्वो।। वृ. खरं च-पिण्डखजूरादि मृद्वीका च-द्राक्षा एतद्रसः तथा 'क्षीरसः' प्रतीतः खण्ड 'च-इक्षुविकार: शर्करा च-काशादिप्रभवा तद्रसो वा यादृश इति शेषः, अतोऽप्यनन्तगुणो रसस्तु शुक्लाया ज्ञातव्योऽत्यन्तरमधुर इति गर्भ इति सूत्रषट्कार्थः॥ उक्तो रसः, सम्प्रति गन्धमाहमू. (१३९८) जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स।
इत्तो वि अनंतगुणो लेसाणं अप्पसत्थाणं॥ ७. यथा गवां मृतकं-मृतकशरीरं तस्य गन्धः श्वमतकस्य वा तथा यथाऽहि:-सर्पस्तमृतकस्य गन्ध इति सम्बन्धः, सूत्रत्वान्मृतकशब्दे कलोप: 'अतोऽपि एतत्प्रकारादपि गन्धादनन्तगुणोऽतिदुर्गन्धतया लेश्यानाम् 'अप्रशस्तानाम' अशुभानां कोऽर्थः ?-कृष्णनीलकापोतानां, गन्ध इति प्रक्रमः, इह चलेश्यानामप्रशस्तत्वं गन्धस्याशुभत्वे हेतुरिति तद्विशेषादनुक्तोऽप्यस्य विशेषोऽवगम्यत इति नोक्तः। मू.(१३९९) जह सुरहिकुसुमगंधो गंधवासाण पिस्समाणाणं।
इत्तोवि अनंतगुणो पसत्थलेसाण तिण्हंपि॥ वृ. यथा सुरभिकुसुमानां-जातिकेतक्यादिसम्बन्धिनां सुगन्धपुष्पाणां गन्धः-परिमल: सुरभिकुसुमगन्धः, तथा गन्धाश्च-कोष्टपुटपाकनिष्पन्ना वासाश्च-इतरेगन्धवासाः, इह चैतदङ्गान्येवोपचारादेवमुक्तानि, तेषां, पाठान्तरतश्च गन्धानां च, 'पिष्यमाणानां' संचूर्ण्यमानानां यथा गन्ध इति प्रक्रमः, तथा चातिप्रबलतरोऽसौ प्रादुर्भवतीत्येवमभिधानम्, 'अतोऽपि' एतत्प्रका
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704