Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 648
________________ अध्ययन-३६,[ नि.५५९] २५७ पाषाणादिवत् मृदवः हंसरूतादिवत् गुरवः हीरकादिवत् लघवः अर्कतूलादिवत् शीता: मृणालादिवत् उष्णाः वल्यादिवत् स्निग्धाः घृतादिवत् रूक्षाः भूत्यादिवत्, उपसंहारमाह-'इती' त्यमुना प्रकारेण स्पर्शपरिणताः एते' स्कन्धादयः पूरणगलनधर्माण: पुदगलाः ‘समुदाहृताः' सम्यक्प्रतिपादितास्तीकृदादिभिः । संतिष्ठन्त एभिः स्कन्धादय इति संस्थानानि तद्रूपेण परिणताः परिमण्डलादयः प्राग्वव्यावर्णितस्वरूपा एव ७। सम्प्रत्येपामेव परस्परसंवेधमाह-वर्णतः 'यः' स्कन्धादिर्भवेत्कृष्णः 'भइए'त्ति भाज्य: 'से उत्ति स पुनः 'गन्धतः' गन्धमाश्रित्य सुरभिगन्धी दुर्गन्धो वा स्यात् न तु नियतगन्ध एवेति भावः, एवं रसतः स्पर्शतश्चैव भाज्य: संस्थानतोऽपि च, अन्यतररसादियोग्य एवासौ भवेदिति हृदयम्, अत्र च गन्धौ द्वौ रसाः पञ्च स्पर्शा अष्टौ संस्थानानि पञ्च, एते च मीलिता विंशतिरित्येक एव कृष्णवर्ण एतावतो भङ्गान् लभते २०, एवं नीलोऽपि २०, लोहितोऽपि २०, पीतक इतिहारिद्रः सोऽपि २०, सुक्किल'त्ति शुक्लोऽप्येतावत एव भङ्गान् लभत इति २०, एवं पञ्चभिरपि वर्णैर्लब्दं शतम् १००। गन्धतो यः स्कन्धादिर्भवेत् 'सुब्भि'त्ति सुरभिर्भाज्यः स तु वर्णतोऽन्यतरकृष्णादिवर्णवान् स्यादितिभावः, एवं रसतः स्पर्शतश्चैव भाज्य: संस्थानतोऽपि च, इह च रसादयोऽष्टादश ते च पञ्चभिर्वर्णैर्मीलितैस्त्रयोविंशतिर्भवन्ति २३, एवं च दुर्गन्धविषय अप्येतावन्त एव २३, ततश्च गन्धद्वयेन लब्धा भङ्गानां षट्चत्वारिंशत् ४६ । १४ । सतस्तिक्तको यस्तु स्कन्धादिर्भाज्य: स तुवर्णतो गन्धतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च, इह चोक्तन्यायतो विंशतिर्भङ्गास्तिक्तेनावाप्यन्ते २०, एवं कटुकेन २० कषायेण २० आम्लेन २० मधुरेण २० चैतावन्त एवावाप्यन्ते, एवं च रसपञ्चकसंयोगे लब्धं शतम् १००। स्पर्शतः कर्कशो यस्तु स्कन्धादिर्भाज्यः स तु वर्णतो गन्धतो रसतश्चैव भाज्य: संस्थानतोऽपि च, इह चोक्तन्यायतो वर्णादयः सप्तदशेति तद्योगतस्तावत एव भङ्गानवाप्नोति १७ । एवं मृदुः १७ गुरु: १७ लघुः १७ स्निग्धः १७ रूक्षः १७ शीत १७ उष्णश्च १७ एतावत एव भङ्गानवाप्नोति, एवन्मीलने च जातं षत्रिशं शतम १३६।१७। . परिमण्डलसंस्थाने यो वर्तत इति शेषः, भाज्य: स तु सामान्यप्रक्रमेऽपिस्कन्धः, परमाणना संस्थानासम्भवात्, वर्णतो गन्धतो रसतश्चैव भाज्यः स्पर्शतोऽपि च, अत्र च वर्णादय उक्तनीत्या विंशतिस्ततस्तद्योगात्परिमण्डलेन विशतिरेव भङ्गा लभ्यन्ते २०, एवं वृत्तेन २० त्र्यस्त्रेण २० चतुरस्त्रेण २० आयतेनच २० प्रत्येकमेतावन्त एव भङ्गा प्राप्यन्त इति संस्थानपञ्चककभङ्गसंयोगे लब्धं शत्म् १००, एवं वर्णरसगन्धस्पर्शसंस्थानानां सकलभङ्गसङ्कलनातो जातानि द्यशीत्यधिकानि चत्वारि शतानि, अङ्कतोऽपि ४८२, सर्वत्र च जातोवेकवचनं। ३२ । __ परिस्थूरन्यायतश्चैतदुच्यते, अन्यथा प्रत्येकमप्येषां तारतम्यतोऽनन्तत्वादनन्ता एव भङ्गा संभवन्ति, इत्थं चैतत्परिणामवैचित्र्यं केवलागमप्रमाणावसेयमेवेति न स्वमतिकल्पितहेतुभिश्चित्तमाकुलकर्त्तव्यमिति द्वात्रिंशत्सूत्रावयवार्थः॥ मू.(१५११) एसा अजीवविभत्ती, समासेन वियाहिया। 129/17 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704