Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 660
________________ २६९ अध्ययनं-३६,[ नि. ५५९] सवाङ्मनोऽभिनिर्वृत्तिहेतुस्तथाविधदलिकं पर्याप्तिः, यत उक्तम् "आहारसरीरेंदियउस्सासवओमनोऽभिनिवत्ती। होइ जओ दलियाओ करणं पइसा उ पज्जत्ती ।।" साऽस्त्येषामित्यर्शआदेराकृतिगणत्वादचि पर्याप्तास्तद्विपरीताश्चापर्याप्ताः, एवं' इत्यनेन पर्याप्तापर्याप्तभेदेन 'एते' सूक्ष्मा बादराश्च, पठन्ति च-'एगमेगे'त्ति एकैके द्विविधाः पुनः प्रत्येकमिति भावः । पुनरेषामेवोत्तरभेदानेवाह..'बायरा जे'त्ति बादरा ये पुनः पर्याप्ता द्विविधास्ते व्याख्याताः, कथम्? इत्याह-'श्लक्षणा' इह चूर्णितलोष्टकल्या मृदुः पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, 'खरा:' कठिना: 'च' समुच्चये 'बोद्धव्याः' अवगन्तव्याः, श्लक्ष्णाः सप्तविधाः 'तस्मिन् इत्युक्तरूपभेदद्वये। यथा चामी सप्तविधास्तथाऽऽह-कृष्णा नीलाश्च 'रुधिराश्च' इति लोहिता रक्ता इतियावत् 'हारिद्राः' पीताः शक्लाः 'तथे ति समुच्चये 'पंडु'त्ति पाण्डव:--आपाण्डु: आ-ईषच्छुभ्रत्वभाज इतियावत्, इत्थं वर्णभेदेन षड्विधत्वम्, इहच पाण्डुरग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदेन भेदाभेदान्तरसम्भवसूचकं, पनक:अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्तमानस्य लोके पृथिवीत्वेनारूढत्वात्पूर्वभेदसगृहेऽपि भेदेनोपादानं, तत एव च मृत्तिकेति पृथ्वीपर्यायाभिधानमपि, अन्ये त्वाहुः-पनकमृत्तिका मरुषु पर्पटिकेति रूढा, यस्याश्चरणाभिधाते झगित्युज्जृम्भणं, खरपृथिवीभेददर्शनोपक्रममाह'खराः' प्रक्रमाद्वादरपृथिवीजीवाः षट्त्रिंशद्विधाः' षट्त्रिंशभेदाः । तानेवाह-'पृथिवी'तिभामा सत्य भामावच्छुद्धपृथिवी शर्करादिरूपा या न भवति, चशब्द उत्तरभेदापेक्षया समुच्चये, 'शर्करा' लघूपलसकलरूपा, वालुका च' प्रतीता, 'उपलः' गण्डशैलादिः, शिला च' दृषत् ‘लोणूसे अयतंबतउयसीसयरूप्पसुवन्ने यत्ति लवणं च-समुद्रलवणादि ऊपश्च-क्षारमृत्तिका लवणोषौ अयस्तानत्रपुकसीसकरूप्यसुवर्णानि च प्रतीतानि, नवरमेषा सम्बन्धनो धातव एवैवमुक्ताः, सदा तेषु तत्सत्तादर्शनार्थं चैवमभिधानं, तेषु ामूनि प्रागपि सन्त्येव, केवलं मलविगमादाविर्भवन्ति, 'वज्रश्च' हीरकः। हरितालो हिङ्गलको मनःशिलेति च प्रतीता एव, 'सासगंजणपवाले'त्ति, सासकश्चधातुविशेषोऽञ्जनं-समीरकं प्रवालकं च-विद्रुमः सासकाञ्जनप्रवालानि, 'अब्भपडलऽभवालुय'त्ति अभ्रपटलंप्रसिद्धम् अभ्रवालुका-अभ्रपटलमिश्रा वालुका 'बादरकाये' इति बादरपृथ्वीकायेऽमी भेदा इति शेषः 'मणिविहाने'त्ति चस्य गम्यमानत्वात् 'मनिविधानानि च' मनिभेदाः कानि पुनस्तानि? इत्याह-गोमेज्जकश्च रुचकोऽङ्कः स्फटिकश्च लोहिताक्षश्च 'मरगय'त्ति मरकतो मसारगल्ल: 'भुयमोयग'त्ति भुजमोचक इन्द्रीनीलच ६। चंदनगेरुयहंसगब्भ'त्ति चन्दनो गेरुगो हंसगर्भः पुलक: सौगन्धिकश्च बोद्धव्यः 'चंदप्पह'त्ति चन्द्रप्रभो वैडूर्यो जलकान्तः सूरकान्तश्च । इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेज्जकादयश्च क्वचित्कस्यचित्कथञ्चिदन्तर्भावाच्चतुर्दशेत्यमी मीलिता: षट्त्रिंदश् भवन्तीति सूत्रसप्तकार्थः । सम्प्रति प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथिवीकायप्ररूपणामाह मू. (१५४१) एए खरपुढवीए, भेया छत्तीसमाहिया। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704