________________
२६९
अध्ययनं-३६,[ नि. ५५९] सवाङ्मनोऽभिनिर्वृत्तिहेतुस्तथाविधदलिकं पर्याप्तिः, यत उक्तम्
"आहारसरीरेंदियउस्सासवओमनोऽभिनिवत्ती।
होइ जओ दलियाओ करणं पइसा उ पज्जत्ती ।।" साऽस्त्येषामित्यर्शआदेराकृतिगणत्वादचि पर्याप्तास्तद्विपरीताश्चापर्याप्ताः, एवं' इत्यनेन पर्याप्तापर्याप्तभेदेन 'एते' सूक्ष्मा बादराश्च, पठन्ति च-'एगमेगे'त्ति एकैके द्विविधाः पुनः प्रत्येकमिति भावः । पुनरेषामेवोत्तरभेदानेवाह..'बायरा जे'त्ति बादरा ये पुनः पर्याप्ता द्विविधास्ते व्याख्याताः, कथम्? इत्याह-'श्लक्षणा' इह चूर्णितलोष्टकल्या मृदुः पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, 'खरा:' कठिना: 'च' समुच्चये 'बोद्धव्याः' अवगन्तव्याः, श्लक्ष्णाः सप्तविधाः 'तस्मिन् इत्युक्तरूपभेदद्वये। यथा चामी सप्तविधास्तथाऽऽह-कृष्णा नीलाश्च 'रुधिराश्च' इति लोहिता रक्ता इतियावत् 'हारिद्राः' पीताः शक्लाः 'तथे ति समुच्चये 'पंडु'त्ति पाण्डव:--आपाण्डु:
आ-ईषच्छुभ्रत्वभाज इतियावत्, इत्थं वर्णभेदेन षड्विधत्वम्, इहच पाण्डुरग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदेन भेदाभेदान्तरसम्भवसूचकं, पनक:अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्तमानस्य लोके पृथिवीत्वेनारूढत्वात्पूर्वभेदसगृहेऽपि भेदेनोपादानं, तत एव च मृत्तिकेति पृथ्वीपर्यायाभिधानमपि, अन्ये त्वाहुः-पनकमृत्तिका मरुषु पर्पटिकेति रूढा, यस्याश्चरणाभिधाते झगित्युज्जृम्भणं, खरपृथिवीभेददर्शनोपक्रममाह'खराः' प्रक्रमाद्वादरपृथिवीजीवाः षट्त्रिंशद्विधाः' षट्त्रिंशभेदाः ।
तानेवाह-'पृथिवी'तिभामा सत्य भामावच्छुद्धपृथिवी शर्करादिरूपा या न भवति, चशब्द उत्तरभेदापेक्षया समुच्चये, 'शर्करा' लघूपलसकलरूपा, वालुका च' प्रतीता, 'उपलः' गण्डशैलादिः, शिला च' दृषत् ‘लोणूसे अयतंबतउयसीसयरूप्पसुवन्ने यत्ति लवणं च-समुद्रलवणादि ऊपश्च-क्षारमृत्तिका लवणोषौ अयस्तानत्रपुकसीसकरूप्यसुवर्णानि च प्रतीतानि, नवरमेषा सम्बन्धनो धातव एवैवमुक्ताः, सदा तेषु तत्सत्तादर्शनार्थं चैवमभिधानं, तेषु ामूनि प्रागपि सन्त्येव, केवलं मलविगमादाविर्भवन्ति, 'वज्रश्च' हीरकः।
हरितालो हिङ्गलको मनःशिलेति च प्रतीता एव, 'सासगंजणपवाले'त्ति, सासकश्चधातुविशेषोऽञ्जनं-समीरकं प्रवालकं च-विद्रुमः सासकाञ्जनप्रवालानि, 'अब्भपडलऽभवालुय'त्ति अभ्रपटलंप्रसिद्धम् अभ्रवालुका-अभ्रपटलमिश्रा वालुका 'बादरकाये' इति बादरपृथ्वीकायेऽमी भेदा इति शेषः 'मणिविहाने'त्ति चस्य गम्यमानत्वात् 'मनिविधानानि च' मनिभेदाः कानि पुनस्तानि? इत्याह-गोमेज्जकश्च रुचकोऽङ्कः स्फटिकश्च लोहिताक्षश्च 'मरगय'त्ति मरकतो मसारगल्ल: 'भुयमोयग'त्ति भुजमोचक इन्द्रीनीलच ६।
चंदनगेरुयहंसगब्भ'त्ति चन्दनो गेरुगो हंसगर्भः पुलक: सौगन्धिकश्च बोद्धव्यः 'चंदप्पह'त्ति चन्द्रप्रभो वैडूर्यो जलकान्तः सूरकान्तश्च । इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेज्जकादयश्च क्वचित्कस्यचित्कथञ्चिदन्तर्भावाच्चतुर्दशेत्यमी मीलिता: षट्त्रिंदश् भवन्तीति सूत्रसप्तकार्थः । सम्प्रति प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथिवीकायप्ररूपणामाह
मू. (१५४१) एए खरपुढवीए, भेया छत्तीसमाहिया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org