________________
२६८ उत्तराध्ययन- मूलसूत्रम् - २-३६ / १५३१ 'तथागतिः स्यात्स्वभावेने' ति वचनादुत्पत्तिसमये सत्क्रियत्वमप्यस्तीति ख्याप्यते, इदं च सूत्रं यत्र दृश्यते तत्रेत्थं नेयं, प्रत्यन्तरेषु च न दृश्यत एवेत्ति सूत्रार्थः । इत्थं यदुक्तं "संसारत्था स सिद्धा य, दुविहा जीवा वियाहिय"त्ति तत्र सिद्धा उक्ताः, साम्प्रतं संसारिण आहसंसारत्था उ जे जीवा, दुविहा ते वियाहिया । तसां य थावरा चेव, थावरा तिविहा तहिं ॥
पू. (१५३२ )
वृ. संसारस्था इति प्राग्वत्तुशब्दः सिद्धेभ्यः सङ्ख्याकृतविशेषद्योतको ये जीवा द्विविधास्ते व्याख्याताः, द्वेविध्यमेवाह - त्रसाश्च स्थावराश्चैव, स्थावराः 'त्रिविधा: ' त्रिप्रिकारा: 'तस्मिन् ' इति द्वैविध्ये सति, अल्पवक्तव्यत्वाच्च पञ्चानिर्देशेऽपि प्रथमतः स्थावराभिधानमिति सूत्रार्थः ॥ मू. ( १५३३ ) पुढवी आउजीवा य, तहेव य वणस्सई । इच्चेए थावरा तिविहा, तेर्सि भए सुनेह मे ॥
वृ. 'पुढवीआउजीवा य'त्ति जीवशब्दः प्रत्येकमभिसंबध्यते ततः पृथिव्येव जीवाः पृथिवोजीवाः आपो-जलं ता एव जीवा अब्जीवाश्च तथैव च 'वणस्सइ'त्ति प्रक्रमाद्वनस्पतिजीवाः ननु पृथिव्यादीनि जीवशरीराणि न त्वेतान्येव जीवाः, काठिन्यादिलक्षणानि ह्यमूनि जीवाः पुनरुपयोगलक्षणास्तत्कथं पृथिव्यादीन्येव जीवा इत्युक्तम् ?, उच्यते, जीवशरीरयोरन्योऽन्यानुगत्वेन विभागाभावादेवमुक्तं, न चैतदनार्षं, यत उक्तम्- "अन्नोऽन्नानुगयाणं इमं च तं चत्ति विभयणमजुत्तं" इत्यादि 'इति' इत्युक्तप्रकारेण 'एते' पृथिव्यादयः स्थावरास्त्रिविधाः । उत्तरग्रन्थसम्बन्धनार्थमाह- 'तेषाम्' इति पृथिव्यादीनां 'भेदान्' विकल्पान् 'श्रृणुत' आकर्णयत 'मे' मम कथयत इति शेष इति सूत्रार्थः ॥
मू. ( १५३४ )
दुविहा पुढविजीवा उ, सुहुमा बायरा तहा।
मू. (१५३५ )
पज्जत्तमाप्पज्जत्ता, एवमेव दुहा पुनो ॥ बायरा जे उपज्जत्ता, दुविहा ते वियाहिया । सहा स्वरा य बोद्धव्वा, सण्हा सत्तविहा तहिं ॥ किण्हा नीला य रुहिरा य, हालिद्दा सुक्किला तहा। पंडुपणगमट्टिया, खला छत्तीसईविहा ॥
मू. ( १५३६ )
मू. (१५३७) पुढवी य सक्करा वालुया य उवले सला य लोणूसे । अयतउयतबंसीसगरुप्पसुवन्ने य वइरे य ॥
मू. (१५३८ )
हरियाले हिंगुलुए मणोसिलासासगंजनपवाले । अब्भपडलऽब्भवालय बायरकाए मनिविहाणा ॥
मू. (१५३९) गोमिज्जए य रुथगे अंके फलिहे य लोहियक्खे य। मरयमसारगल्ले भुयमोयग इंदनीले य ॥
मू. ( १५४० )
चंदनगेरुयहंसगब्धं पुलए सोगंधिए य बोद्धव्वे ।
चंदप्पभवेरुलिए जलकंते सूरकंते य ॥
वृ. 'द्विविधाः ' द्विभेदाः पृथिवीजीवा: 'तुः ' प्राग्वत् 'सूक्ष्मा: ' सूक्ष्मनामकर्मोदयाद् 'बादरा: ' बादरनामकर्मोदयात्, तथा 'पज्जत्तमपज्जत्त 'त्ति तत्र 'पर्याप्ताः ' आहारशरीरेन्द्रियोच्छा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org