Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययन-३६,[नि.५५९]
२६७ "सिद्धस्स सुहा रासी सव्वापिंडितो जइ हवेज्जा।
सोऽनंतवग्गभइतो सव्वागासे न भाइज्जा ।।" इति, मुख -शर्म समित्येकीभावेन दुःखले साकलङ्कितत्वलक्षणेन प्राप्ताः, सुखमेव पुनर्विशिनष्टि- उयमा यस्य 'नास्ति तु' न विद्यत एव, यदुक्तम्
"लोके तत्सदृशो ह्यर्थः, कृत्स्रेऽप्यन्यो न विद्यते।
उपमीयेत तयेन, तस्मानिरुपमं स्मृतम् ॥" न च विपयाभावतस्तत्र सुखशब्दाभिधेयाभाव एवेत्याशङ्कनीयं, चतुरर्थत्वात्तस्य,
लोके चतुविहार्थेषु, सुखशब्दः प्रयुज्यते । विपये वेदनाऽभावे, विपाके मोक्ष एव च ।।१।।
सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते। .दुःखोभावे च पुरुषः, सुखितोऽस्मीति मन्यते ।।२।।
पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम्।
कर्मक्लेशविमोक्षाच्च, मोक्षे सुखमनुत्तमम् ॥३॥" ततश्च मोक्षस्यैव तत्र सुखशब्दाभिधेयत्वादसम्भव एवाशङ्कायाः, इह च जीवधना इत्यनेन सौमताभिमतमभावरूपत्वं मुक्तेः उत्तरविशेषणद्वयेन च 'सुखदुःखबुद्धीच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नवात्मगुणास्तेषामत्यन्तोच्छित्तिनिःश्रेयस'मिति वचनादचेतनत्वासुखिचत्वे च सिद्धस्य नैयायिकाधभिमते निराकुरुते, अभावरूपत्वे हि मुक्तेरर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनोऽन्त्यक्षणस्य क्षणान्तराजननादवस्तुत्वं, तदवस्तुत्वे चावस्तुनो जन्यत्वायोगात्तत्पूर्वस्यापि क्षणस्य एवं पूर्वपूर्वक्षणानामपि सौगतस्याभावरूपतैव प्राप्तेति पूर्वसन्तानमिच्छतो मुक्तेरपि भावरूपता बलादायाति, तथा सर्वथाऽऽत्मगुणोच्छित्तिरूपतायां निःश्रेयसस्यात्मनोऽप्यभावप्रसक्तिः, सर्वथा गुणाभावे हिगुणिनोऽप्यभाव एव, अशेषरूपाद्यभाव इवघटादेरिति सूक्ष्मधिया भावनीयमिति। उक्तग्रन्थेनावगतमपि विप्रतिपत्तिनिराकरणार्थं पुनः क्षेत्रं स्वरूपं च तेषामाहमू.(१५३१) लोएगदेसे ते सव्वे, नाणदंसणसन्निया।
संसारपारनिच्छिना, सिद्धिं वरगइंगया।। वृ.लोकैकदेशे पाठान्तरतो लोकाग्रदेशे वोक्तरूपे 'ते' इति सिद्धाः, अनेन 'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापर्जिताः' इत्यपास्तं भवति, सर्वगतत्वे ह्यात्मनामेतद् भवेत्, तथात्वे च सर्वत्र सर्वदा वेदनादिप्रसङ्गः, तथा सर्वेनिरवशेषा ज्ञानदर्शनसञ्जिताः संसारस्य पार:-पर्यन्तस्तं निस्तीर्णाः-पुनरागमनाभावलक्षणेनाधिक्येनातिकान्ता: सिद्धि वरगतिं गताः इति प्राग्वतइह चाद्येन विशेषणेन मा भूत्केपाञ्चिज्ज्ञानसञ्ज्ञा परेषां दर्शनस व केवला, किन्तूभे अपि सर्वेषामिति, द्वितीयेन
"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम्।।
गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ।।" इति मते तेषामनिष्ठितार्थदोषप्रसङ्गेन पुनरावृत्तिरिति, तृतीयेन तु क्षीणकर्मत्वेन स्ववशत्वादिविशेषणवत्त्वेऽप्येषा स्ववशस्यानभिसन्धिः कृतकृत्यस्य च यथास्वभावेनास्योपयोग इष्टः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704