Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 664
________________ अध्ययनं - ३६, [ नि. ५५९] प्रसिद्धा: 'एवमादयः' इत्येवंप्रकारा येषामिदं साधारणशरीरलक्षणमस्ति, तद्यथा "चक्कागं भज्जमाणरस, गंठी चुन्नघनो भवे । पुढवीसरिसेण भेएण, अनंतजीवं वियाणाहि ॥ १ ॥ गूढच्छिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जंपि य पणट्ठसंधि, अनंतजीवं वियाणाहि ॥२॥" इत्यादि पनका - उल्लिजीवाः, इह च तदुपलक्षिताः सामान्येन वनस्पतयो गृह्यन्ते, तथा चान्ये पठन्ति'वणप्फईण आउंतु 'त्ति, प्रत्येकशरीरापेक्षया चोत्कृष्टं दशवर्षसहस्रमानमायुरुक्तं, साधारणानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्तायुष्कमानं, उक्तं च- "निओयस्स णं भंते! केवइयं कालं ठिइपन्नत्ता ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं" कायस्थितः पनकानाम्, इहापि सामान्येन वनस्पतिजीवानाम, अत एवासौ सामान्येन वनस्पतिजीवान्निगोदान् वाऽपेक्ष्योत्कृष्टतोऽनन्तकालमुच्यते, विशेषापेक्षायां हि प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां चासङ्ख्येयकालोऽवस्थितिः, यदुक्तम्- "पत्तेयसरीरबादरवनप्फईकाइयाणं भंते! केवइयं कालं कायठिई पन्नत्ता ?, जहन्त्रेणं अंतोमुहुत्तं उक्कोसेण सत्तरि सागरोवमकोडाकोडीओ निओए णं भंते! निओदेत्ति कालओ केच्चिरं होइ ?, जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं अनंतकालं अनंताओ ओसप्पिणीओ खेत्तओ अड्डाइज्जा मोग्गलपरियद्वा वा । बायरनि ओयपुच्छा, जहत्रेणं अंतोमुहुत्तं उक्कोसेणं सत्तरिसागरोवमको डाकोडीओ । २७३ सुहुमनिगोयपुच्छा, जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं "ति । तथाऽसङ्ख्यकालमुत्कृष्टं पनकजीवानामन्तरं, तत उद्धृत्य हि पृथिव्यादिषूत्पत्तव्यं, तेषु चासङ्ख्येयकालै कार्यस्थितिरिहापि तथाऽभिधानादिति चतुर्दशसूत्रार्थः ॥ प्रकृतमुपसंहरनुत्तरग्रन्थं च सम्बन्धयितुमिदमाह--- मू. ( १५७० ) इच्चेए थावरा तिविहा, समासेन वियाहिया । इत्तो उतसे तिविहे, वृच्छामि अनुपुव्वसो ॥ वृ. 'इति' इत्येवंप्रकारा: 'एते' पृथिव्यादयः स्थानशीला: स्थावरा: 'त्रिविधा: ' त्रिप्रकाराः, त्रयाणामप्यमीषां स्वयमवस्थितिस्वभावत्वात्, 'समासेन' सङ्क्षेपेण व्याख्याताः, विस्तरतो ह्यमीषां बहुतरा भेदा: । 'अतः ' स्थावरविभक्तेरनन्तरं 'तुः ' पुनरर्थः त्रसांस्त्रिविदान् वक्ष्यामि 'अनुपुव्वसो'त्ति आनुपर्येति सूत्रार्थः ॥ मू. ( १५७१ ) तेऊ वाऊ य बोद्धव्वा, ओराला य तसा तहा । तच्चेए तसा तिविहा, तेसिं भेए सुणेह मे ॥ वृ. 'तेउ' त्ति तेजोयोगात्तेजांसि - अ [त्रा ] ग्नयस्तद्वर्त्तिनो जीवा अपि तथोक्ताः, एवं 'वाऊ'त्ति वान्तीति वायवो वातास्ते च बोद्धव्याः, 'ओराल 'त्ति 'उदारा: ' एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियादय इतियावत् 'च: ' समुच्चये त्रसाः 'तथे 'ति तेनागमोक्तेन प्रकारेण, उपसंहारमाह'इती' त्यनन्तरोक्तास्त्रस्यन्ति - चलन्ति देशाद्देशान्तरं संक्रामन्तीति त्रसा: 'त्रिविधा: ' त्रिप्रकाराः, तेजोवाय्वोश्च स्थावरनामकर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति त्रसत्वं द्विधा हि तत्-गतितो 29/18 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704