Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं-३६, [ नि. ५५१] । मू.(१७०४)
तीस तु सागराई. उको सेन टिई भवे।
अट्ठमंमि जहन्नेणं, सागरा अउणतीसई। मू. (१७०५) सागरा इकतीसंतु, उक्कोसेन ठिई भवे।
नवमंमि जहन्नेणं, तीसई सागरोवमा। मू.(१७०६) तित्तीससागरा ऊ, उक्कोसेन ठिई भवे।
चउसुंपि विजयाईसुं, जहन्ना इक्कतीसई।। मू.(१७०७) अजहन्नमनुक्कोसं, तित्तीसं सागरोवमा।
महाविमानसबढे, ठिई एसा वियाहिया। मू. ( १७०८) जा चेव उ आउठिई, देवाणं तु वियाहिया।
सा तेसि काठिई, जहनमुक्कोसिया भवे ।। वृ. क्षेत्रकालाभिधायि सूत्रद्वयं प्राग्वत्, सादिसपर्यवसितत्वभावनार्थं साहीयमित्यादि सप्तविंशतिः सूत्राणि प्रायो निगदसिद्धान्येव, नवरं साहीय'ति प्राकृतत्वात्साधिकं 'सागर'मित्ति सागरोपममेकमुत्कृष्टेन स्थितिर्भवेद् 'भौमेयकानां' भवनवासिनाम्, इयं च सामान्योक्तावप्युत्तरनिकायाधिपस्य बलेरेवावगन्तव्या, दक्षिणनिकाये त्विन्द्रस्यापि सागरोपममेव, उक्तं हि-"चमरबलि सारंमहियं" 'सेसाणं'ति, जघन्येन दशवर्षसहस्राणि प्रमाणमस्या दशवर्षसहस्रिका, इयमपि सामान्योक्तावपि किल्विपिकाणामेव स्थितिः, स्थितिप्रभावादीनां देवेषु सहैव हासादिति, उत्तरत्रापि भावनीयम्।
तथा पल्योपमं वर्षलक्षाधिकमिति ज्योतिषामुत्कृष्टस्थित्यभिधानं चन्द्रोपेक्षं, सूर्यस्य तु वर्षसहस्राधिकं पल्योपममायुः, ग्रहाणां तदेव अ(न)तरिक्तं, नक्षत्राणां तस्यैवा, तारकाणां तच्चतुर्भागः तथा पल्योपमाष्टभागो ज्योतिष्षु जघन्यस्थितिरित्यपि तारकापेक्षमेव, शेषाणां पल्योपमचतुर्भागस्यैव जघन्यस्थितित्वात्, यत उक्तं 'चतुर्भागः शेषाणा'मिति ! इह च सर्वत्रोक्तरूपयोरुत्कृष्टजघन्यस्थित्योरपान्तरालवत्तिनी मध्यमां स्थितिरिति द्रष्टव्यम्।
तथा 'प्रथमे' इदि प्रक्रमाद् ग्रैवेयकेऽधस्तनाधतने, एवं द्वितीयादिष्वपि ग्रैवेयक इति सम्बन्धनीयम्। अविद्यमानं जघन्यमिति-जधन्यत्वमस्यामित्यजधन्या तथा अविद्यमानमुत्कृष्टमित्युत्कृष्टत्वमस्यामित्यनुत्कृष्टा जधन्या चासावनुत्कृष्टा चाजघन्यानुत्कृष्टा, मकारोऽलाक्षणिकः, महच्च तदायुःस्थित्याद्यपेक्षया विमानं च महाविमानं तच्च तत्सर्वे-निरवशेषा अर्थ्यमानत्वादा:-अनुत्तरसुखादयो यस्मिस्त (त्तथा तच्च त)त्सर्वार्थं च महाविमानसर्वार्थं तस्मिन्, स्थितिरिति सर्वत्रायुःस्थितिरेव, कायस्थितित्वाभिधाने तत्रानन्तरमनुत्पत्तिरेवेत्यभिप्राय इति सप्तविंशतिसूत्रार्थः॥ मू.(१७०९) अनंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं।
विजढंमि सए काए, देवाणं हुज्ज अंतरं ।। मू.(१७१०) एएसिं वन्नओ चेव, गंधओ रसफासओ।
संठाणादेसओ वावि, विहाणाई सहस्ससो॥ वृ.अन्तरविधानाभिधायि च सूत्रद्वयंपूर्ववद्याख्येयम्। इत्थं जीवानजीवांश्च सविस्तरमुपदर्थ्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704