Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
+
-
२९०
उत्तराध्ययन-मूलसूत्रम्-२-३६/१७१८ त्यागेन, पाठान्तर तश्च क्षपमेन 'तपः' इति प्रस्तावाद्भक्तपरिज्ञानादिकमनशनं 'चरेत्' अनुतिष्ठेत्, निशीथचूर्णिसम्प्रदायश्चात्र___ "अन्नेवि दोवि वरिसे चउत्थं काउं आयंबिलेण पारेइ, एक्कारसमे य वरिसे पढमं छम्मासं अविगिटुं तवं काउं कजिएण पारेइ, बितिए छम्मासे विगिटुं तवं काउं आयंबिलेन पारेइ, दुवालसमं वरिसं निरंतरं हीयमाणं उसिणोदएण आयंबिलं करेति, तं कोडीसहियं भणंति जेणायंबिलस्स कोडी कोडीए मिलइ, जहा य दीवस्स बत्ती तेल्लं च समं निट्ठाइ तहा बारसमे वरिसे आहारंपरिहावेइजहा आहारसंलेखना आउयं च समं निवति, इत्थं बारसगस्स वासस्स पच्छिमा जे चत्तारिमासा तेसु तेल्लगंडूसे निसढे धरित्तु खेल्लमल्लगे निट्ठहइ मा अतिरुक्खत्तणओ मुहर्जतविसंवाओ भविस्सइ, तस्स य विसंवादे नो संमं नमोक्कार सोहेति" इति सूत्रपञ्चकार्थः !
इत्थं प्रतिपत्रानशनस्याप्यशुभभावनानां मिथ्यादर्शनानुरागादीनां च परिहार्यतां तद्विपर्ययाणामासेव्यतां च ज्ञापयितुं यथाक्रममनर्थहेतुतामर्थहेतुतां च दर्शयन्नाहमू.(१७१९) कंदप्पमाभिओगं किब्बिसियं मोहमासुरत च।
एयाओ दुग्गईओ मरणमि विराहया हुँति ।। मू.(१७२०) मिच्छादसणरत्ता, सनियाणा हु हिंसगा।
इय जे मरंति जीवा, तेसिं पुन दुलहा बोही। मू.(१७२१) सम्मदसणरत्ता अनियाणा सुक्कलेसमोगाढा।
इय जे मरंति जीवा सुलभा तेसिं भवे बोही ।। मू.(१७२२) मिच्छादसणरत्ता सनियाणा कण्हलेसमोगाढा।
इय जे मरति जीवा तेसिं पुण दुलहा बोही। वृ. कंदप्प'त्ति कन्दर्पभावना प्राग्वत्, पदेऽपि पदैकदेशस्य दर्शनात्, एवमभियोग्यभावना किल्बिषभावना मोहभावना आसुरतंच'त्ति आसुरत्वभावना च, एताः कन्दर्पादिभावना दुर्गतिहेतुततया दुर्गतयो 'नड्वलोदकं पादरोग' इति न्यायात्, दुर्गतिश्चेहार्थाद्देवदुर्गतिः, तद्वशतो हि संव्यवहारतश्चारित्रसत्तायामप्येतद्विधनिकायोत्पत्तिरेव, चरणविकलतायां तु नानागतिभा-जनतैव,
"जो संजओवि एयासु अप्पसत्थासु भावनं कुणइ।
सो तबिहेसु गच्छति सुरेसु भइओ चरणहीनो॥" "कदा? इत्याह-'मरणे' मरणसमये, कीदृश्य: सत्यः ? इत्याह-विराधिकाः सम्यग्दर्शनादीनामिति गम्यते भवन्ति' जायन्ते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामप्युत्तरकालं शुभभावे सुगतेरपि सम्भवात् ।
मिथ्यादर्शनम्-अतत्त्वे तत्त्वाभिनिवेशरूपं तस्मिन् रक्ताः-आसक्ता मिथ्यादर्शनरक्ताः, सम्यक्त्वादिविराधनायां ह्येतदासक्तिरेव भवति, सह निदानेन-साभिष्वङ्गप्रार्थनारूपेण वर्तन्त इति सनिदानाः 'हुः' पूरणे 'हिंसका:' प्राम्युपमर्दकारिणः 'इति' इत्येवंरूपा ये 'म्रियन्ते' प्राणांस्त्यजन्ति जीवास्तेषां पुनर्दुर्लभा 'बोधिः' प्रेत्य जिनधर्मावाप्तिः । __ सम्यग्दर्शनम्-उक्तस्वरूपं तस्मिन् रक्ताः सम्यग्दर्शनरक्ताः अनिदाना: 'शुक्ललेश्याम्' उक्तलक्षणाम् ‘अवगाढाः' प्रविष्टा इति, ये म्रियन्ते जीवाः सुलभा तेषां भवेद्बोधिः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704