Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 656
________________ अध्ययनं-३६,[ नि, ५५९] . ऊर्ध्व 'भवेत्' स्यात् ईषत्प्रारभारेति नाम यस्याः सा ईपत्प्राग्भारनामा, 'अनो बहुव्रीहे' रिति निषेधानान्तत्वेऽपि डाप् न भवति, ईषदादिनामोपलक्षणं चैतत्, अनेकनामधेयाभिधेयत्वातस्याः, उक्तं हि-"ईसोति वाईसीपब्भारा इ वा तनुइ वा तनुतगुतीति वा सिद्धीति वा सिद्धालएति वा मुती ति वा मुत्तालएति वा लोयग्गेइ वा लोयग्गथूभियाईइ वा लोयपरिवुज्झणाति वा सव्वपाणभूयजीवसत्तसुहावहाति वे"त्यादि, 'पृथ्वी' भूमिश्छत्रम्-आतपत्रं तत्संस्थितमिव संस्थितं-संस्थानमस्या इति छत्रसंस्थिता, इह च विशेषानभिधानेऽप्युत्तानमेवेदं गृह्यते, आह यतो भगवान् भद्रबाहुः-"उत्तानयछत्तयसंठियाउ भणियाउ जिनवरेहिति" । पञ्चत्तत्वारिंशच्छतसहस्रान् योजनानां 'तुः' पूरणे 'आयता' दीर्घा तावइयं चेव'त्ति तावतश्चैव प्रक्रमाच्छतसहस्रान् 'विस्तीर्णा' विस्तरतोऽपि, पञ्चचत्वारिंशच्छतसहस्रप्रमाणेति भाव: त्रिगण: 'तस्सेव'त्ति प्राग्वत् 'तस्माद्' उक्तरूपादायामात् 'परिरयः' परिधिः, इह च त्रिगुण इत्यभिधानेऽपि विशेषाधिक्यं दृष्टव्यं “सव्वं वटुंतिगुणं सविसेस'मिति वचनात्, अन्यथा हि पञ्चत्रिशल्लक्षाधिकयोजनकोटिरेवैतत्परिमानं स्यात्, तथा च सूत्रान्तरविरोधो, यतस्तत्रोक्तम् "एगा जोयणकोडी बायालीसं भवे सयसहस्सं। तीसं चेव सहस्सा दो चेव सया अउणपन्ना।" इति, पठन्ति च-'तिउणसाहियपडिरयं'ति। अष्टौ-अष्टङ्ख्यानि योजनानि बाहल्यं-स्थौल्यमस्या इत्यष्टयोजनबाहल्या 'से' तीषत्प्रारभारा, किं सर्वत्राप्येवम् ? इत्याह-'मध्ये' मध्यप्रदेशे व्याख्याता, किमित्येवम् ? अत आह-परि-समन्ताद्धीयमाना परिहीयमाना 'चरमंते'त्ति चरमान्तेषु' सकलदिग्भावर्तिषु पर्यन्तप्रदेशेषुमक्षिकाया: पत्रं-पक्षो मक्षिकापत्रम्, अपिशब्दस्य गम्यमानत्वात्तस्मादपि तनुतरी अतिपरिकृशेतियावत्, हानिश्चात्र विशेपानभिधानेऽपिप्रतियोजनमङ्गलपृथक्त्वं दृष्टव्या, तथा चान्यत्रावाचि “गतूण जोयणं तु परिहायइ अंगुलपहुत्तं"ति । (केचित्पठन्ति-) "अज्जुनसुक्नगमई सा पुढवी निम्मला सहावेनं । उत्ताणगछत्तगसंठिया य भनिया जिनवरेहिं ।" तत्र चार्जुनं-शुक्लं तच्च तत्सुवर्णकं चार्जुनसुवर्णकं तेन निर्वृत्ताऽर्जुनसुवर्णकमयी 'सा' इतीषत्प्रारभारा 'निर्मला' स्वच्छा, किमुपाधिवशतः? इत्याह-'स्वभावेन' स्वरूपेण उत्तानकम्-उद्धर्वमुखं यच्छत्रमेव छत्रकं तत्संस्थिता च भणिता' उक्ता जिनवरैः, प्राक् सामान्यतश्छत्रसंस्थितेत्युक्तमिह तूत्तानत्वं तद्विशेष उच्यत इति न पौनरुक्त्यम्। शङ्खाङ्ककुन्दानि-प्रतीतानि तत्सङ्काशा-वर्णतस्तादृशी अत एव 'पंडुरे'ति 'पाण्डुरा' श्वेता 'निर्मला' निष्कलङ्का 'शुभा' अत्यन्तकल्याणावहा 'सुखा वा' सुखहेतुत्वेनेति सार्द्धसूत्रत्रयार्थः ।। म.(१५२५/२) सीआए जोअने तत्तो, लोयंतो उवियाहिओ। वृ. 'सीतायाः' सीताभिधानायाः पृथिव्या उपरीति शेषः, योजने 'ततः' इति तस्या उक्तरूपायाः 'लोकान्तः' लोकषर्यन्तः 'तुः' पूरणे व्याख्यात इति सूत्रार्द्धार्थः ॥ ननु यदि योजने लोकान्तस्तत्कि तत्र सर्वत्र सिद्धास्तिष्ठन्त्युतान्यथा? इत्याहमू.(१५२६) जोअणस्स उ जो तत्थ, कोसो उवरिमो भवे। तस्स कोसस्स छब्भाए, सिद्धानोगाहणा भवे॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org


Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704