________________
अध्ययनं-३६,[ नि, ५५९] . ऊर्ध्व 'भवेत्' स्यात् ईषत्प्रारभारेति नाम यस्याः सा ईपत्प्राग्भारनामा, 'अनो बहुव्रीहे' रिति निषेधानान्तत्वेऽपि डाप् न भवति, ईषदादिनामोपलक्षणं चैतत्, अनेकनामधेयाभिधेयत्वातस्याः, उक्तं हि-"ईसोति वाईसीपब्भारा इ वा तनुइ वा तनुतगुतीति वा सिद्धीति वा सिद्धालएति वा मुती ति वा मुत्तालएति वा लोयग्गेइ वा लोयग्गथूभियाईइ वा लोयपरिवुज्झणाति वा सव्वपाणभूयजीवसत्तसुहावहाति वे"त्यादि, 'पृथ्वी' भूमिश्छत्रम्-आतपत्रं तत्संस्थितमिव संस्थितं-संस्थानमस्या इति छत्रसंस्थिता, इह च विशेषानभिधानेऽप्युत्तानमेवेदं गृह्यते, आह यतो भगवान् भद्रबाहुः-"उत्तानयछत्तयसंठियाउ भणियाउ जिनवरेहिति" ।
पञ्चत्तत्वारिंशच्छतसहस्रान् योजनानां 'तुः' पूरणे 'आयता' दीर्घा तावइयं चेव'त्ति तावतश्चैव प्रक्रमाच्छतसहस्रान् 'विस्तीर्णा' विस्तरतोऽपि, पञ्चचत्वारिंशच्छतसहस्रप्रमाणेति भाव: त्रिगण: 'तस्सेव'त्ति प्राग्वत् 'तस्माद्' उक्तरूपादायामात् 'परिरयः' परिधिः, इह च त्रिगुण इत्यभिधानेऽपि विशेषाधिक्यं दृष्टव्यं “सव्वं वटुंतिगुणं सविसेस'मिति वचनात्, अन्यथा हि पञ्चत्रिशल्लक्षाधिकयोजनकोटिरेवैतत्परिमानं स्यात्, तथा च सूत्रान्तरविरोधो, यतस्तत्रोक्तम्
"एगा जोयणकोडी बायालीसं भवे सयसहस्सं।
तीसं चेव सहस्सा दो चेव सया अउणपन्ना।" इति, पठन्ति च-'तिउणसाहियपडिरयं'ति। अष्टौ-अष्टङ्ख्यानि योजनानि बाहल्यं-स्थौल्यमस्या इत्यष्टयोजनबाहल्या 'से' तीषत्प्रारभारा, किं सर्वत्राप्येवम् ? इत्याह-'मध्ये' मध्यप्रदेशे व्याख्याता, किमित्येवम् ? अत आह-परि-समन्ताद्धीयमाना परिहीयमाना 'चरमंते'त्ति चरमान्तेषु' सकलदिग्भावर्तिषु पर्यन्तप्रदेशेषुमक्षिकाया: पत्रं-पक्षो मक्षिकापत्रम्, अपिशब्दस्य गम्यमानत्वात्तस्मादपि तनुतरी अतिपरिकृशेतियावत्, हानिश्चात्र विशेपानभिधानेऽपिप्रतियोजनमङ्गलपृथक्त्वं दृष्टव्या, तथा चान्यत्रावाचि “गतूण जोयणं तु परिहायइ अंगुलपहुत्तं"ति । (केचित्पठन्ति-) "अज्जुनसुक्नगमई सा पुढवी निम्मला सहावेनं ।
उत्ताणगछत्तगसंठिया य भनिया जिनवरेहिं ।" तत्र चार्जुनं-शुक्लं तच्च तत्सुवर्णकं चार्जुनसुवर्णकं तेन निर्वृत्ताऽर्जुनसुवर्णकमयी 'सा' इतीषत्प्रारभारा 'निर्मला' स्वच्छा, किमुपाधिवशतः? इत्याह-'स्वभावेन' स्वरूपेण उत्तानकम्-उद्धर्वमुखं यच्छत्रमेव छत्रकं तत्संस्थिता च भणिता' उक्ता जिनवरैः, प्राक् सामान्यतश्छत्रसंस्थितेत्युक्तमिह तूत्तानत्वं तद्विशेष उच्यत इति न पौनरुक्त्यम्।
शङ्खाङ्ककुन्दानि-प्रतीतानि तत्सङ्काशा-वर्णतस्तादृशी अत एव 'पंडुरे'ति 'पाण्डुरा' श्वेता 'निर्मला' निष्कलङ्का 'शुभा' अत्यन्तकल्याणावहा 'सुखा वा' सुखहेतुत्वेनेति सार्द्धसूत्रत्रयार्थः ।।
म.(१५२५/२) सीआए जोअने तत्तो, लोयंतो उवियाहिओ।
वृ. 'सीतायाः' सीताभिधानायाः पृथिव्या उपरीति शेषः, योजने 'ततः' इति तस्या उक्तरूपायाः 'लोकान्तः' लोकषर्यन्तः 'तुः' पूरणे व्याख्यात इति सूत्रार्द्धार्थः ॥ ननु यदि योजने लोकान्तस्तत्कि तत्र सर्वत्र सिद्धास्तिष्ठन्त्युतान्यथा? इत्याहमू.(१५२६) जोअणस्स उ जो तत्थ, कोसो उवरिमो भवे।
तस्स कोसस्स छब्भाए, सिद्धानोगाहणा भवे॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org