________________
२६६
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५२६ वृ. योजनस्य 'तुः' वाक्यालङ्कारोपन्यासे यः "तंत्र' त्येवं व्यवस्थिते सुव्यत्ययेन वा 'तत्थ'त्ति 'तस्य' इषत्प्राग्भारोपरिवर्तिनः पठन्ति च-'तस्स'त्ति, क्रोश:' गव्यूतम् ‘उवरिम'त्ति उपरिवर्ती भवेत् 'तस्ये'ति प्रक्रान्तस्य क्रोशस्य ‘पङ्भागे' सत्रिभागत्रयस्त्रिंशदधिकधनु:शतत्रितयरूपे सिद्धानाम् 'अवगाहना' अवस्थितिर्भवेदिति सूत्रार्थः । अवगाहना च ततश्चलनसम्भवेऽपि परमाण्वादीनामिवैकादिप्रदेशेषु भवेदत आह-तत्थ सूत्रम्। केचिदनन्तरसूत्रोत्तराद्धमधीयते-'कोसस्सवि य जो तत्थ, छब्भागो उवरिमो भवेति स्पष्टं । तत्र च किम्? इत्याहमू.(१५२७) तत्थ सिद्धा महाभागा, लोगार्गमि पइडिया।
भवप्पवंचउम्मुक्का, सिद्धि वरगइंगया। वृ. 'तो' त्यनन्तरमुपदर्शितरूपे 'सिद्धाः' उक्तरूपाः 'महाभागाः' अतिशयाचिन्त्यशक्तयो लोकाग्रे 'प्रतिष्ठिताः' सदावस्थिताः, एतच्च कुतः? इत्याह-भवा-नरकादयस्तेषां प्रपञ्चोविस्तरस्तेनोन्मुक्ताः-त्यक्ताः सन्तः 'सिद्धि सिद्धिनाम्नी वरा चेतरगत्यपेक्षया गतिश्च गम्यमानतया वरगतिस्तां गताः-- प्राप्ताः, अयमाशयः-भवप्रपञ्च एव-चलने हेतुः स च सिद्धानां नास्तीति कुतस्तेषां तत्सम्भवः ? इति सूत्रार्थः ।। तत्र गतीनो कस्य कियत्यवगाहना? इत्याहमू.(१५२८) उस्सेहो जस्स जो होइ, भवंमि चरमंमि उ।
तिभागहीना तत्तो य, सिद्धानोगाहणा भवे।। वृ. उत्सेध:' उच्छ्रयः प्रक्रमाच्छरीरस्य जस्स'त्ति 'येषां' सिद्धानां यः' इति यत्परिमानो भवति भवे' जन्मनि चरमे' पर्यन्तवत्तिनि 'तु'विशेषणे इदमपि प्राम्भावप्रज्ञापनीयनयापेक्षयेति विशेषयति, 'त्रिभागहीना' विभागोना ततश्चेति ततः पुनश्चरमभवोत्सेधात्सिद्धानां यत्तदोनित्याभिसम्बन्धात्तेषामवगाहन्तेऽस्यामिति अवगाहना-स्वप्रदेशसन्निचितः, निश्चयाभिप्रायेण सर्वस्य स्वनिष्ठत्वात्, इयं च शरीरविवरापूरणत एतावतीत्यवगन्तव्यम्, उक्तं हि-"देहतिभागो झुसिरं तत्पूरणतो तिभागहीण"त्ति, इति सूत्रार्थः ।। एतानेव कालतः प्ररूपयितुमाहमू. (१५२९) एगत्तेण साइया, अपज्जवसियावि थे।
पुहुत्तेन अनाइया, अपज्जवसियाविय।। वृ. 'एकत्वेन' असहायत्वेन विवक्षिताः सादिका अपर्यवसिता अपि च, यत्र हि काले ते सिद्धन्ति स तेषामादिरस्ति न तु कदाचिन्मुक्तेर्धस्यन्तीति न पर्यवसानसम्भवः 'पृथक्त्वेन' महत्त्वेन बहुत्त्वेन सामस्त्यापेक्षयेतियावत्, किमित्याह- अनादिका अपर्यवसिता अपि च, न हि कदाचिते नाभूवन् न भविष्यन्ति चेति सूत्रार्थः ।। सम्प्रत्येषामेवोपाधिनिरपेक्षं स्वरूपमाहमू.(१५३०) अरूविणो जीवघना, नाणदसणसनिया।
अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ।। वृ.रूपिणः-उक्तन्यायेन रूपरसगधस्पर्शवन्तः तद्विपरीता अरूपिणस्तेषां रूपाद्यभावात्, उक्तं ह्यागमे-"से न किण्हे न नीले" इत्यादि, जीवाश्च ते सततोप्युक्ततया घनाश्च-शुषिरपूरणतो निरन्तरनिचितप्रदेशतया जीवघना गमक त्वादिशेपणस्य परनिपातः ज्ञानदर्शने उक्तरूपे ते एव सञ्जा-सम्यग्बोधरूपा सञ्जातैषामिति तारकादेराकृतिगणत्वादितचि ज्ञानदर्शनसज्ञिता:ज्ञानदर्शनोपयोगवन्तो न विद्यते तुलेव तुला-इयत्ता परिच्छेदहेतुरस्येति अतुलम्, अपरिमितत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org