Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२६४
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५१८ सिद्धानभिधाय सम्प्रति प्रत्युत्पन्नभावप्रज्ञापनीयनयापेक्षया तेषामेव प्रतिधातादिप्रतिपादनायाहमू.(१५१९) कहिं पडिहया सिद्धा?, कर्हि सिद्धा पइडिया?/
कहि बुदि चइत्ता णं, कत्थ गंतूण सिज्झई? ॥ मू. ( १५२०) अलोए पडिहया सिद्धा, लोयगे य पइट्ठिया।
इहं बुदि चइत्ता णं, तत्थ गंतण सिज्झई। व. 'क्वेति कस्मिन् 'प्रतिहताः' स्खलिताः, कोऽर्थः? -निरुद्धगतयः, सिद्धाः, तथा 'क्व' कस्मिन् सिद्धाः 'प्रतिष्ठिताः' साद्यपर्यवसितं कालं स्थिताः, अन्यच्च-क्व बंदि' शरीरं त्यक्त्वा कुत्र गत्वा 'सिज्झइ'त्ति वचनव्यत्ययात् 'सिद्धन्ति' निष्ठितार्था भवन्ति । एतत्प्रतिवचनमाह-'अलोके केवलाकाशलक्षणे 'प्रतिहताः' स्खलितास्तत्र धर्मास्तिकायस्याभावेन तेषां गतेरसम्भवात्, उक्तं च- "ततोऽप्यूर्ध्वं गतिस्तेषां, कस्मानीस्तीति चेन्मतिः ।
धर्मास्तिकायस्याभावात्, स हि हेतुर्गतेः परः ॥" तथा 'लोकाग्रे च' लोकस्योपरि विभागे 'प्रतिष्ठिताः' सदाऽवस्थिताः, आह-ऊर्वंगमनाभावेऽप्यधस्तिर्यग्वा गमनसम्भवेन कथं तेषां तत्र प्रतिस्थानम्?, उच्यते, क्षीणकर्मत्वात्तेषां, कर्माधीनत्वाच्चाधस्तिर्यग्गमनयोः, तदुक्तम्
"अवस्तिर्यगथोर्वं च, जीवानां कर्मजागतिः।
ऊर्वमेव तु ताद्धाद्, भवति क्षीणकर्मणाम्।।" . 'इहे' त्यनन्तरप्ररूपिते तिर्गगूलोकादौ 'बुन्दि' शरीरं त्यक्त्वा तत्र' इति लोकाग्रे गत्वा 'सिज्झति'त्ति सिध्यति, गत्वेति च मुखं व्यादाय स्वपितीत्यादिवत्क्त्वाप्रत्ययः, पूर्वापरकालविभागस्येहासम्भवात्, यत्रैव हि समये भवक्षयस्तस्मिन्नेव मोक्षस्तत्र गतिश्चेति, आहच वाचक:
"द्रव्यस्य कर्मणो यद्वदुत्पत्त्यारम्भवीतयः ।
समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः॥" इति सूत्रद्वयार्थः । लोकाग्रे गत्वा सिद्धन्तीत्युक्तं, लोकाग्रं चेषत्प्राग्भाराया उपरीति यावति प्रेदेशेऽसौ यत्संस्थाना यत्प्रमाणा यद्वर्णा च तदभिधानायाहमू.(१५२१) बारसहि जोयणेहि, सव्वट्ठस्सुवरि भवे ।
ईसीपब्भारनामा 3, पुढवी छत्तसंठिया ।। मू.(१५२२) पणयाल सयसहस्सा, जोअनाणं तु आयया।
तावइयं चेव विच्छिन्ना, तिगुणो साहिय (तस्सेव) परिरओ। मू.(१५२३) अट्ठजोयणबाहला, सा मज्झमि वियाहिया।
परिहायंती चरिमते, मच्छीपत्ताउ तनुययरी।। मू.(१५२४) . अज्जुनसुवामगई, सा पुढवी निम्मला सहावेणं।
उत्ताणयछत्तयसंठिया य भणिया जिनवरेहि। मू.(१५२५/१) संखंककुंदसंकासा, पंडरा निम्मला सुभा। वृ. द्वादशभिर्योजनैः प्रकृत्यादित्वात्तृतीया 'सर्वार्थस्य' सर्वार्थनाम्नो विमानस्य 'उपरि'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704