Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 651
________________ २६० उत्तराध्ययन-मूलसूत्रम्-२-३६/१५१४ पुरुषतुल्यसामर्थ्याभादादूर्ध्वगतावपि तासां तदभावोऽनुमीयते ततस्तासां पुरुपेभ्योऽ-- पकृष्माणतेति, तदप्ययुक्तं, यतो येषामधोगतौ तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि "समुच्छिमभुयगखगचउप्पयसप्पित्थिजलचरेहितो। सनरेहितो सत्तसु कमोववजंति नरएसु॥" इति वचनाद्भुजगचतुष्पत्सर्पखगजलचरनराणामदोगतावतुल्यं सामर्थ्यमूर्द्धगतौ तु "सन्नितिरिक्खेहितो सहस्सारंतिएसु देवेसु । उप्पज्जंति परेसुवि सव्वेसुवि माणुसेहितो॥" इति वचनादेषामासह स्रारान्तोपपातात्तुल्यमेव सामर्थ्यम्, उक्तं च "विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम्। गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥" । अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्ट सामर्थ्यासत्त्वम्, अथवावादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्य व्याप्तमुपलब्धं भवेत्ततस्तन्निवृत्ती तस्य निवृत्तिः स्यात्, न चैवम्, अनयोाप्यव्यापकभावस्य क्वचिनिश्चयात्, अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिष्टसामर्थ्यौषतुषादिभिरनैकान्तिकमित्युद्धोष्यमेव, यदप्यनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तं, यतो न तनिषेधाद्विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्र: शास्त्रे विशुद्ध्यपदेशः, यदुक्तम्- ... - "संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविदिरिव कस्यापि कथञ्चिदुपकारी।" यच्च पुरुषानभिवन्द्यत्वं हेतुरुक्तः तदपि सामान्येन गुणाधिकपुरुषापेक्षवा?, यदि सामान्येन तदाऽसिद्धतादोपः, तीर्थकरजनन्यादयो हि शक्रादिभिरपि प्रणताः किमङ्ग शेषपुरुषैः ?, गुणादिकपुरुषापेक्षं चेद्गणधरा अपि तीर्थकृद्भिर्नाभिवन्द्यत इति तेषामप्यपकृष्यमाणत्वम्, अथ तीर्थशब्दस्याद्यगणधराभिधायित्वात्तीर्थप्रणामपूर्वकत्वाच्चाहद्देशनाया असिद्धमेव तदनभिवन्धत्वं गणधराणाम्, एवं तहि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात्तदन्तर्भावाच्च स्त्रीणामहभिरपि वन्द्यत्वे कथं पुरुषानभिवन्द्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् ?, अथ स्मारणाद्यकर्तृत्वेन, एवं सति समानेऽपि रत्नत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्यात्र शिष्यस्य, स्मारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात्, न चैतदागमिकं, चण्डरुद्राधाचार्यशिष्याणामागमे निःश्रेयसश्रवणात्, अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वं, तथा सति प्रष्टव्योऽसि-किमाध्यात्मिकीमृद्धिमाश्रित्य बाह्यांवा?, तत्र न तावदाध्यात्मिकीमुक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात्, नापि बाह्यम्, एवं हि महत्या तीर्थकरादिलक्ष्म्याश्चेतरक्ष(रेऽक्ष)त्रियादयो न भाजनमिति तेषामप्यमहद्धिकत्वेनापकृष्यमाणत्वान्मुक्तिकारणवैकल्यप्रसङ्गः, यदपि मायादिप्रकर्षवत्वेनेत्युच्यते, तदप्यसत्, तस्योभयोरपितुल्यत्त्वेन दर्शनादागमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम्, अतो न तासां पुरुषेभ्योऽपकृष्यमाणत्वेन कारणावैकल्यस्य हेतोरसिद्धता, यदपि निर्वाण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704