________________
२६०
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५१४ पुरुषतुल्यसामर्थ्याभादादूर्ध्वगतावपि तासां तदभावोऽनुमीयते ततस्तासां पुरुपेभ्योऽ-- पकृष्माणतेति, तदप्ययुक्तं, यतो येषामधोगतौ तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि
"समुच्छिमभुयगखगचउप्पयसप्पित्थिजलचरेहितो।
सनरेहितो सत्तसु कमोववजंति नरएसु॥" इति वचनाद्भुजगचतुष्पत्सर्पखगजलचरनराणामदोगतावतुल्यं सामर्थ्यमूर्द्धगतौ तु
"सन्नितिरिक्खेहितो सहस्सारंतिएसु देवेसु ।
उप्पज्जंति परेसुवि सव्वेसुवि माणुसेहितो॥" इति वचनादेषामासह स्रारान्तोपपातात्तुल्यमेव सामर्थ्यम्, उक्तं च
"विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम्।
गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥" । अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्ट सामर्थ्यासत्त्वम्, अथवावादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्य व्याप्तमुपलब्धं भवेत्ततस्तन्निवृत्ती तस्य निवृत्तिः स्यात्, न चैवम्, अनयोाप्यव्यापकभावस्य क्वचिनिश्चयात्, अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिष्टसामर्थ्यौषतुषादिभिरनैकान्तिकमित्युद्धोष्यमेव, यदप्यनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तं, यतो न तनिषेधाद्विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्र: शास्त्रे विशुद्ध्यपदेशः, यदुक्तम्- ... - "संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे ।
रोगचिकित्साविदिरिव कस्यापि कथञ्चिदुपकारी।" यच्च पुरुषानभिवन्द्यत्वं हेतुरुक्तः तदपि सामान्येन गुणाधिकपुरुषापेक्षवा?, यदि सामान्येन तदाऽसिद्धतादोपः, तीर्थकरजनन्यादयो हि शक्रादिभिरपि प्रणताः किमङ्ग शेषपुरुषैः ?, गुणादिकपुरुषापेक्षं चेद्गणधरा अपि तीर्थकृद्भिर्नाभिवन्द्यत इति तेषामप्यपकृष्यमाणत्वम्, अथ तीर्थशब्दस्याद्यगणधराभिधायित्वात्तीर्थप्रणामपूर्वकत्वाच्चाहद्देशनाया असिद्धमेव तदनभिवन्धत्वं गणधराणाम्, एवं तहि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात्तदन्तर्भावाच्च स्त्रीणामहभिरपि वन्द्यत्वे कथं पुरुषानभिवन्द्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् ?, अथ स्मारणाद्यकर्तृत्वेन, एवं सति समानेऽपि रत्नत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्यात्र शिष्यस्य, स्मारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात्, न चैतदागमिकं, चण्डरुद्राधाचार्यशिष्याणामागमे निःश्रेयसश्रवणात्, अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वं, तथा सति प्रष्टव्योऽसि-किमाध्यात्मिकीमृद्धिमाश्रित्य बाह्यांवा?, तत्र न तावदाध्यात्मिकीमुक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात्, नापि बाह्यम्, एवं हि महत्या तीर्थकरादिलक्ष्म्याश्चेतरक्ष(रेऽक्ष)त्रियादयो न भाजनमिति तेषामप्यमहद्धिकत्वेनापकृष्यमाणत्वान्मुक्तिकारणवैकल्यप्रसङ्गः, यदपि मायादिप्रकर्षवत्वेनेत्युच्यते, तदप्यसत्, तस्योभयोरपितुल्यत्त्वेन दर्शनादागमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम्,
अतो न तासां पुरुषेभ्योऽपकृष्यमाणत्वेन कारणावैकल्यस्य हेतोरसिद्धता, यदपि निर्वाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org