Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
an-
-
-
२५८
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५११
इत्तो जीववित्ति, वुच्छामि अनुपुव्वसो॥ । वृ. 'एषा' अनन्तरोक्ताऽजीवविभक्तिर्व्याख्याताऽनन्तरं जीवविभक्ति वक्ष्यामि 'अनुपुचसो'त्ति आनुपूव्यति सूत्रार्थः ।। यथाप्रतिज्ञातमाहमू.(.१५१२) संसारत्था य सिद्धा य. दुविहा जीवा वियाहिया।
सिद्धा नेगविहा वुत्ता, तं मे कित्तयओ सुण। वृ. संसरन्त्युपलक्षणत्वादवतिष्ठन्ते च जन्तवोऽस्मिन्निति संसारो... गतिचतुष्टयात्मकस्तत्र तिष्ठन्तीति संसारस्था:-नरकादिगतिवत्तिनस्ते च सिद्धाश्च प्रागुक्तव्युत्पत्तयः, 'द्विविधाः' उपदर्शितभेदत्तो द्विभेदा जीवा व्याख्याताः, तत्र सिद्धा: अनेकविधाः' अनेकप्रकारा उक्तास्तमिति सूत्रत्वात्तान्, पठन्ति च-'दुविहा जीवा भवन्ति तत्थाणेगविहा सिद्धि तेत्ति, 'मे' मम कीर्तयत: 'सुण'त्ति शृणुत, अल्पवक्तव्यत्वाच्च पश्चानिर्देशेऽपि प्रथमतः सिद्धभेदाभिधानप्रतिज्ञानमदुष्टमिति सूत्रार्थः ॥ अनेकविधत्वमेवैषामुपाधिभेदत आहमू. (१५१३) इत्थीपुरिससिद्धा य, तहेव य नपुंसगा।
सलिंगो अन्नलिंगो य, गिहिलिंगो तहेव य॥ मू.(१५१४) उक्कोसोगाहणाए य, जहन्नमज्झिमाइ य।
उड़ अहे य तिरियं च, समुदंमि जलंमि य॥ वृ. 'इत्थीपुरिससिद्ध'त्ति सिद्धशब्द: प्रत्येकमभिसम्बध्यते ततः स्त्रियश्च ते पूर्वपर्यायापेक्षया सिद्धाश्च स्त्रीसिद्धा एवं पुरुपसिद्धाश्च, तथैव च 'नपुंसग'त्ति, इहोत्तरत्र च प्रक्रमेण सिद्धशब्दयोगानपुसंकसिद्धाः स्वलिङ्गसिद्धाः स्वलिङ्गं च मुक्तिपथप्रस्थितानां भावतोऽनगारत्वादनगारलिङ्गमेव रजोहरणमुखवस्त्रिकादिरूपम्, अन्यद्-एतदपेक्षया भिन्नं तच्च तल्लिङ्ग चान्यलिङ्ग तस्मिश्च शाक्यादिसम्बन्धिनि सिद्धाः, 'गृहिलिङ्गे गृहस्थवेधे सिद्धा मरुदेवीस्वामिनीवत्, 'तथैवे' त्युक्तसमुच्चये चकारस्तु तीर्थातीर्थसिद्धाद्यनुक्तभेदसंसूचकः, इह च ये स्त्रीनिर्वाणं प्रति विप्रतिपद्यन्ते त एवं वाच्या:___ इह खलु यस्य यत्रासम्भवो न तस्य तत्र कारणावैकल्यं, यथा सिद्धशिलायां शाल्यङ्करस्य, अस्ति च तथाविधस्त्रीषु मुक्तेः कारणावैकल्यं, न चायमसिद्धो हेतुर्यतोऽस्यासिद्धत्वं किं स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वेनाहोस्विनिर्वाणस्थानाद्यप्रसिद्धत्वेन निर्वाणसाधकप्रमाणाभावेन वा?, तत्र यदि तावत् पुरुषेभ्योऽपकृष्यमाणत्वेन तदा तत् किं सम्यग्दर्शनादिरत्नत्रयाभावेन विशिष्टसामर्थ्यासत्त्वेन पुरुषानभिवन्द्यत्वेन स्मारणाद्यकर्तृत्वेनामहर्द्धिकत्वेन मायादिप्रकर्षवत्त्वेन वेति विकल्पाः, तत्र न तावत्सम्यग्दर्शनादिरत्नत्रयस्याभावेन यतस्तस्यासौ किमिविशिष्टस्य प्रकर्षपर्यन्तप्राप्तस्य वा?, यद्यविशिष्टस्य तदा किमियं चारित्रस्यासम्भवेनोत ज्ञानदर्शननयोस्त्रयाणां वा?, यदि चारित्रस्यासम्भवेन तदा सोऽपिकि सचेलत्वेन स्त्रीत्वस्य चारित्रविरोधित्वेन मन्दत्वेन मन्दसत्त्वतय वा ?, यदि सचेलत्वेन तदा चेलस्यापि चारित्राभावहेतत्वं परिभोगमात्रेण परिग्रहरूपत्वेन वा?, यदि परिभोगमात्रेण तदा तत्परिभोगोऽपि तासां तत्परित्यागाशक्तत्वेन गुरूपदिष्टत्वेन वा?, न तावत्तत्परित्यागाशक्तत्वेन यतः-"प्राणेभ्यो नापरं प्रियम्" अथ च तानपि त्यजन्त्य एता दृश्यन्ते, अथ गुरूपदिष्टत्वेन तथा सति गुरूणामपि चारित्रोपकारित्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704