Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 637
________________ २४६ उत्तराध्ययन-मूलसूत्रम्-२-३५/१४६४ समम्' अग्नितुल्यं शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इति शस्त्र -प्रहरणमन्यदिति गम्यते तस्याविसर्पत्वादसर्वतोधारत्वादल्पजन्तृपघातकत्वाच्चेति भावः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यस्मादेवं तस्मात् 'ज्योतिः' वैश्वानरं 'न दीपयेत्' न ज्वालयेत्, अनेन च पचनस्याग्निज्वलनाविनावावित्वात्तत्परिहार एव समर्थितः, इत्थं च विशेषप्रक्रमे च सामान्याभिधानं प्रसङ्गतः शीतापनोदादिप्रयोजनेऽपि तदारम्भनिषेधार्थम्, आधाकर्मादिका वा विशुद्धकोटिरनेनैवार्थतः परिहार्योक्ता, तदपरिहारे ावश्यम्भावी पचनानुमत्यादिप्रसङ्ग इति। नन्वेवं जीववधनिमित्तत्वमेव पचनादेनिषेधनिबन्धनं, तच्च नास्ति क्रयविक्रययोरित युक्तमेवाभ्यां निर्वहण(मेव)मपिकस्यचिदाशङ्का स्यादतस्तदपनोदाय हिरण्यादिपरिग्रहपूर्वकत्वातयोस्तन्निषेधपूर्वकं सूत्रत्रयेण तत्परिहारमाह-'हिरण्यं' कनकं 'जातरूपं रूप्यं चकारोऽ-- नुक्ताशेषधनधान्यादिसमुच्चये 'मनसाऽपि' चित्तेनाप्यास्तां वाचा 'न प्रार्थयेत्' ममामुकं स्यादिति, अपेर्गम्यमानत्वात्प्रार्थयेदपि न, किं पुनः परिगृह्णीयात्?, कीदृशः सन्? -समे-प्रतिबन्धाभावतस्तुल्ये लेष्टुकाञ्चने-मृत्पिण्डखण्डकनके अस्येति समलेष्टुकाञ्चनः,एवंविधश्च सन् भिक्षुः 'विरत: निवृत्तः स्यादिति शेषः, कुतः?-क्रयो-मूल्येनान्यसम्बन्धिनस्तथाविधवस्तुनः स्वीकारो विक्रयश्च-तस्यैवात्मीयस्य तथाविधवस्तुजातेनान्यस्यदानं, क्रयश्च विक्रयश्च क्रयविक्रयमिति समाहार स्तस्मात्, पञ्चम्यर्थे सप्तमी, विषयसप्तमी वा, तत्र च-क्रयविक्रयविषये, 'विरत:' इति विरतिमानित्यर्थः । किमित्येवम् ? अत आह- . कोणानः-परकीयं वस्तु मूल्येनाददान: क्रयोऽस्यास्तीति क्रयिको भवति-तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च-स्वकीयं वस्तु तथैव परस्य ददद्वणिगू भवति, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव च 'क्रयविक्रये' उक्तरूपे 'वर्तमानः' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो, गम्यमानत्वाद्यादशः सूत्राभिहितो भावभिक्षरिति भावः। ततः किमित्याह-'भिक्षितव्यं' याचितव्यं तथाविधं वस्त्विति गम्यते, 'न' नैव'क्रेतव्यं' मूल्येन ग्रहीतव्यं, केन?-भिक्षुणा, कीदृशा?-भिक्षयैव वृत्तिः-वर्तनं निर्वहणं यस्यासौ भिक्षावृत्तिस्तेन, उक्तं हि-"सव्वं से जाइयं होइनस्थि किंचि अजाइयं"ति, क्रयविक्रयवद्भिक्षाऽपि सदोषैव भविष्यतीति मन्तधीर्मन्यते, तत आह-क्रयश्च विक्रयश्च क्रयविक्रयं व्यवच्छेदफलत्वादस्य तदेव महादोषमुक्तन्यायतः, लिङ्गव्यत्ययश्च प्राग्वत्, भिक्षयावृत्तिभिक्षावृत्तिः शुभं-इहलोकपरलोकयो: कल्याणं सुखं वा तदावहति-समन्तात्प्रापयतीति शुभावहा सुखावहा वा, अनेन क्रीतदोषपरिहार उक्तः, स चाशेषविशुद्धकोटिगतदोषपरिहारोपलक्षणम्। मिक्षितव्यमित्युक्तं, तच्च दानश्राद्धादिवेश्मनि क्वचिदेकत्रैव स्यादत आह-'समुदान' मैक्षं न त्वेकभिक्षामेव तच्चोञ्छमिव उञ्छम्-अन्यान्यवेश्मतः स्वल्पं स्वल्पमामीलनात्, मधुकरवृत्त्या हि भ्रमत ईदगेव भवतीत्येवमुक्तम्, 'एषयेत्' गवेषवेत्, एतच्चोत्सूत्रमषि . स्यादित्याह-सूत्रम्-आगमस्तदनतिक्रमेण यथासूत्रम्-आगमाभिहितोद्गमैषणाद्यबाधात इत्युक्तं भवति, तत एव 'अनिन्दितं' शिष्टनिन्द्येन स्वपरप्रशंसादिहेतुनाऽनुत्पादित जात्यादिजुगुप्सितजनसम्बन्धि वा न भवति, तथा लाभश्चालाभश्च लाभालाभं तस्मिन् संतुष्टःओदनादेः प्राप्तावप्राप्तौ च सन्तोषवान् न तु वाञ्छाविधुरितचित्त इति भावः, इह च लाभेऽपि For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704