________________
२४६
उत्तराध्ययन-मूलसूत्रम्-२-३५/१४६४ समम्' अग्नितुल्यं शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इति शस्त्र -प्रहरणमन्यदिति गम्यते तस्याविसर्पत्वादसर्वतोधारत्वादल्पजन्तृपघातकत्वाच्चेति भावः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यस्मादेवं तस्मात् 'ज्योतिः' वैश्वानरं 'न दीपयेत्' न ज्वालयेत्, अनेन च पचनस्याग्निज्वलनाविनावावित्वात्तत्परिहार एव समर्थितः, इत्थं च विशेषप्रक्रमे च सामान्याभिधानं प्रसङ्गतः शीतापनोदादिप्रयोजनेऽपि तदारम्भनिषेधार्थम्, आधाकर्मादिका वा विशुद्धकोटिरनेनैवार्थतः परिहार्योक्ता, तदपरिहारे ावश्यम्भावी पचनानुमत्यादिप्रसङ्ग इति।
नन्वेवं जीववधनिमित्तत्वमेव पचनादेनिषेधनिबन्धनं, तच्च नास्ति क्रयविक्रययोरित युक्तमेवाभ्यां निर्वहण(मेव)मपिकस्यचिदाशङ्का स्यादतस्तदपनोदाय हिरण्यादिपरिग्रहपूर्वकत्वातयोस्तन्निषेधपूर्वकं सूत्रत्रयेण तत्परिहारमाह-'हिरण्यं' कनकं 'जातरूपं रूप्यं चकारोऽ-- नुक्ताशेषधनधान्यादिसमुच्चये 'मनसाऽपि' चित्तेनाप्यास्तां वाचा 'न प्रार्थयेत्' ममामुकं स्यादिति, अपेर्गम्यमानत्वात्प्रार्थयेदपि न, किं पुनः परिगृह्णीयात्?, कीदृशः सन्? -समे-प्रतिबन्धाभावतस्तुल्ये लेष्टुकाञ्चने-मृत्पिण्डखण्डकनके अस्येति समलेष्टुकाञ्चनः,एवंविधश्च सन् भिक्षुः 'विरत: निवृत्तः स्यादिति शेषः, कुतः?-क्रयो-मूल्येनान्यसम्बन्धिनस्तथाविधवस्तुनः स्वीकारो विक्रयश्च-तस्यैवात्मीयस्य तथाविधवस्तुजातेनान्यस्यदानं, क्रयश्च विक्रयश्च क्रयविक्रयमिति समाहार स्तस्मात्, पञ्चम्यर्थे सप्तमी, विषयसप्तमी वा, तत्र च-क्रयविक्रयविषये, 'विरत:' इति विरतिमानित्यर्थः । किमित्येवम् ? अत आह- .
कोणानः-परकीयं वस्तु मूल्येनाददान: क्रयोऽस्यास्तीति क्रयिको भवति-तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च-स्वकीयं वस्तु तथैव परस्य ददद्वणिगू भवति, वाणिज्यप्रवृत्तत्वादिति भावः, अत एव च 'क्रयविक्रये' उक्तरूपे 'वर्तमानः' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो, गम्यमानत्वाद्यादशः सूत्राभिहितो भावभिक्षरिति भावः।
ततः किमित्याह-'भिक्षितव्यं' याचितव्यं तथाविधं वस्त्विति गम्यते, 'न' नैव'क्रेतव्यं' मूल्येन ग्रहीतव्यं, केन?-भिक्षुणा, कीदृशा?-भिक्षयैव वृत्तिः-वर्तनं निर्वहणं यस्यासौ भिक्षावृत्तिस्तेन, उक्तं हि-"सव्वं से जाइयं होइनस्थि किंचि अजाइयं"ति, क्रयविक्रयवद्भिक्षाऽपि सदोषैव भविष्यतीति मन्तधीर्मन्यते, तत आह-क्रयश्च विक्रयश्च क्रयविक्रयं व्यवच्छेदफलत्वादस्य तदेव महादोषमुक्तन्यायतः, लिङ्गव्यत्ययश्च प्राग्वत्, भिक्षयावृत्तिभिक्षावृत्तिः शुभं-इहलोकपरलोकयो: कल्याणं सुखं वा तदावहति-समन्तात्प्रापयतीति शुभावहा सुखावहा वा, अनेन क्रीतदोषपरिहार उक्तः, स चाशेषविशुद्धकोटिगतदोषपरिहारोपलक्षणम्।
मिक्षितव्यमित्युक्तं, तच्च दानश्राद्धादिवेश्मनि क्वचिदेकत्रैव स्यादत आह-'समुदान' मैक्षं न त्वेकभिक्षामेव तच्चोञ्छमिव उञ्छम्-अन्यान्यवेश्मतः स्वल्पं स्वल्पमामीलनात्, मधुकरवृत्त्या हि भ्रमत ईदगेव भवतीत्येवमुक्तम्, 'एषयेत्' गवेषवेत्, एतच्चोत्सूत्रमषि . स्यादित्याह-सूत्रम्-आगमस्तदनतिक्रमेण यथासूत्रम्-आगमाभिहितोद्गमैषणाद्यबाधात इत्युक्तं भवति, तत एव 'अनिन्दितं' शिष्टनिन्द्येन स्वपरप्रशंसादिहेतुनाऽनुत्पादित जात्यादिजुगुप्सितजनसम्बन्धि वा न भवति, तथा लाभश्चालाभश्च लाभालाभं तस्मिन् संतुष्टःओदनादेः प्राप्तावप्राप्तौ च सन्तोषवान् न तु वाञ्छाविधुरितचित्त इति भावः, इह च लाभेऽपि For Private & Personal Use Only
www.jainelibrary.org
Jain Education International