________________
अध्ययनं - ३५ [ नि. ५५१]
'प्रासुके' अचित्तीभूतभूभागरूपं, तथाऽविद्यमाना वाधाऽऽत्मनः परेषां वाऽऽगन्तुकसत्त्वानां गृहस्थानां च यस्मिंस्तत्तथा ‘स्त्रीभि:' अङ्गनाभिरुपलक्षणत्वात्पण्डकादिभिश्च 'अनभिदुते' अनुपद्रुतं तदुपद्रवविरहित इत्यर्थः, एतानि हि मुक्तिपथप्रतिपन्थित्वेन तत्प्रवृत्तानामुपद्रव हेतुभूतानीत्येवमभिधानं 'तत्रे 'ति प्रागक्तविशेषणे श्मशानादौ सम्यक्कल्पयेत् कुर्यात्सङ्कल्पयेत्, कं ? - वासं, भिक्षणशीलो भिक्षुः, स च शाक्यादिरपि स्यादत आह- परमः -प्रधानः स चेह मोक्षस्तदर्थं सम्यग् यतते परमसंयतः, जिनमार्गप्रपन्न इत्युक्तं भवति, तस्यैव मुक्तिमार्ग प्रति वस्तुतः सम्यग्यत्नसम्भवात् प्राग्वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव कश्चितुष्येदिति तत्र सङ्कल्पयेद्वासमित्यभिधानम् । ननु किमिह परकृत इति विशेषणमुक्तमित्याशङ्कयाह
न 'स्वयम्' आत्मना 'गृहाणि' उपाश्रयरूपाणि 'कुर्वीत' विदधीत नैव 'अन्यैः' गृहस्थादिभिः 'कारयेत्' विधापयेदुपलक्षणत्वान्नापि कुर्वन्तमनुमन्येत, किमिति ?, यतो गृहनिष्पत्त्यर्थं कर्मं गृहकर्म-इष्टकामृदानयनादि तदेव समारम्भः - प्राणिनां परितापकरत्वात् उक्तं हि-“परितावकरो भवे समारंभो "त्ति, यद्वा तस्य समारम्भः प्रवर्त्तनं गृहकर्मसमारम्भस्तस्मिन् 'भूतानाम्' एकेन्द्रियादिप्राणिनां 'दृश्यते' प्रत्यक्षत एवोपलभ्यते, कोऽसौ ? - 'वधः ' विनाशः ।
भूतानां वध इत्युक्तं तन्त्र मा भूत्केषाञ्चिदेवासाक्त्यिशङ्क्याह- 'त्रसानां' द्वीन्द्रियादीनां 'स्थावराणां' पृथिव्याद्येकेन्द्रियाणां 'च: ' समुच्चये तेषामपि 'सूक्ष्माणाम्' अतिश्लक्ष्णानां शरीरापेक्षया न जीवप्रदेशापेक्षया, तस्यामृर्त्ततयैवं प्रागव्यवहारायोगात्, 'बादराणां च' एवमेव स्थूलानां यद्वा सूक्ष्मनामकर्मोदयात्सूक्ष्माणां तेषामपि प्रमादतो भावहिंसासम्भवाद्वादस्नामकर्मोदयाच्च बादराणाम्, । उपसंहर्तुमाह-'तम्ह' त्ति यस्मादेवं भूतवधस्तस्माद्गृहसमारम्भ 'सयत:' सम्यहिंसादिभ्य उपरतो ऽनगार इत्यर्थः 'परिवर्जयेत्' परिहरेत्, इत्थमाश्रयचिन्तां विधायाहारचिन्तामाह-'तथैव' तेनैव प्रकारेण भक्तानि च - शाल्योदनादीनि पीयन्त इति पानानि - पयःप्रभृतीनि तानि च भक्तपानानि तेषु, पचनानि च - स्वयं विक्लेदापादनक्वथनानि पाचनानि च-तान्येवान्यैः पचनपाचनानि तेषु च भुतवधो दृश्यत इति प्रक्रमः, ततः किमित्याह-प्राणाद्वीन्द्रियादयो भूतानि पृथिव्यादीनि तेषां दया रक्षणं प्राणभूतदया तदर्थं तद्धेतोः, किमुक्तं भवति?-पचनपाचनप्रवृत्तानां यः संभवी जीवोपधातः स मा भूदिति न पचेत्खतो भक्तादीति प्रक्रमो नापि पाचयेत्तदेवान्यैः ।
अमुमेवार्थं स्पष्टतरमाह-जलं च-पानीयं धान्यं च - शाल्यादि तत्रिश्रिताः- तत्रान्यत्र चोत्पद्य ये तन्निया स्थिता दूतरकभुजगेलिकापिपीलिकाप्रभृतय उपलक्षणत्वात्तद्रूपाश्च 'जीवाः' प्राणिन:, एवं पृथ्वीकाष्ठनिश्रिता एकेन्द्रियादयो हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानादिषु, यत एवं तस्माद्भिक्षुर्न पाचयेत्, अवेर्गस्यमानत्वात्पाचयेदपि न किं पुनः स्वयं पचेत्, अनुमतिनिषेधोपलक्षणं चैतत् ।
२४५
अमरं च विसर्पतीति विसर्प- स्वल्पमपि बहु भवति, यत उक्तम्- " अण थोवं वन थोवं अग्गी थोव" मित्यादि, सर्वतः सर्वासु दिक्षु धारेव धारा - जीवविनाशिका शक्तिरस्येति सर्वतो धारं सर्वदिगवस्थितजन्तूपघातकत्वात्, उक्तं च- "पाईणं पडीणं वावी" त्यादि, अत एव 'बहुप्राणविनाशनम्' अनेकजीवजीवितव्यपरोपकं 'नास्ति' न विद्यते 'ज्योति:
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org