________________
२४४
उत्तराध्ययन-मूलसूत्रम्-२-३५/१४६३ मू.(१४६३) निज्जूहिऊण आहारं, कालधम्मे उवहिए।
चइऊण मानुस बुदि, पहू दुक्खा विमुच्चई। म.(१४६४) निम्ममो निरहंकारी, वीयराओ अनासवो।
संपत्तो केवलं नाणं, सासयं परिनिब्बुडे। तिबेमि॥ वृ. 'गृहवासं गृहावस्थानं यदिवा गृहमेव वा पारवश्यहेतुतया पाशो गृहपाशस्तं 'परित्यज्य' परिहत्य प्रव्रज्यां' सर्वसङ्गपरित्यागलक्षणां भागवती दीक्षाम् 'आश्रितः' प्रतिपन्नो मुनिः 'इमान्' प्रतिप्राणि प्रतीततया प्रत्यक्षान् ‘सङ्गान्' पुत्रकलत्रादीस्तत्प्रतिबन्धान् वा 'विजानीयात्' भवहेतवोऽमोति विशेषणावबुध्येत, निश्चयतो निष्लस्यासत्त्वाज्ज्ञानस्य च विरतिफलत्वात्प्रत्याचक्षीतेत्युक्तं भवति, सङ्गशब्दव्युत्पत्तिमाह-'जेहिं'ति सुब्ब्यत्ययात् येषु 'सज्यन्ते प्रतिबध्यन्ते, अथवा यैः सङ्गैः 'सज्यन्ते' संबध्यन्ते ज्ञानावरणादिकर्मणेति गम्यते, के ते?'मानवाः' मनुष्या उपलक्षणत्वादन्येऽपि जन्तवः ।
'तथा' इति समुच्चये 'एवे'ति पूरणे हिंसां' प्राणव्यपरोपणम् 'अलीकम्' अनृतभाषणं 'चौर्यम्' अदत्तादानम् 'अब्रह्मसेवनं' मैथुनाचरणमिच्छारूप: काम इच्छाकामस्तं वा-अप्राप्तवस्तुकाङ्क्षारूपं 'लोहं च' लब्धवस्तुविषयगृद्धात्मकम्, अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः' यति: 'परिवर्जयेत्' परिहरेत्। अनेन मूलगुणा उक्ताः , एतद्यवस्थितस्यापि च शरीरिणोऽवश्यमाश्रयाहाराभ्यां प्रयोजनं, तयोश्च तदतीचारहेतुत्वमपि कदाचित्स्यादिति मन्वानस्तत्परिहाराय सूत्रपट्केन तावदाश्रयचिन्तां प्रति यतते-'मनोहर' चित्ताक्षेपकं, किं तत् ?-चित्रप्रधानं गृहं चित्रगृहं, तदपि कीदृशं?- माल्यैः-ग्रन्थितपुष्पैधूपनैश्च-कालागुरुतुरुप्कादिसम्बन्धिभिर्वासितं-सुरभीकृतं माल्यधूपनवासितं, सह कपाटेन प्रतीतेन वर्तत इति सकपाटं तदपि 'पाण्डुरोल्लोचं' श्वेतवस्त्रविभूषितं मनसाऽप्यास्तां वचसा 'न प्रार्थयेत्' नाभिलपेत्, किं पुनस्तत्र तिष्ठेदिति भावः । ___ कि पुनरेवमुपदिश्यते ? इत्याह-'इन्द्रियाणि' चक्षुरादीनि 'तुः' इति यस्मात् 'भिक्षोः' अनगारस्य तादृशे' तथाभूते 'उपाश्रये' आश्रये दुःखेन क्रियन्तेकरोते: सर्वधात्वर्थत्वाच्छक्यन्ते दुष्कराणि-दुःशकानीत्यर्थः 'तुः एवकारार्थो दुष्कराण्येव धारयितुम्' उन्मार्गप्रवृत्तिनिषेधतो मार्ग एव व्यवस्थापयितुं, पठ्यते-दुष्कराणि 'निवारेतु'ति, तत्रापि 'निवारयितुम्' इति नियन्त्रितुं स्वस्वविषयप्रवृत्तेरिति गम्यते, कीशि?- काम्यमानत्वात्कामा-मनोज्ञा इन्द्रियविषयास्तेषु राग:-अभिष्वङ्गस्तस्य विवर्द्धने विशेषेण वृद्धिहेतौ कामरागविवद्धने, तथा च तथाविधचित्तव्याक्षेपसम्भवात्कस्यचिन्मूलगुणस्य कथञ्चिदतीचारसम्भवो दोष इत्येवमुपदिश्यत इति भावः ।
एवं तहि क्व कीशि स्थातव्यमित्याह-'श्मशाने' प्रेतभूमौ 'शून्यागारे' उद्वसितगृहे 'वा' विकल्पे वृक्षमूले वा' पादपसमीपे 'एकदा' इत्येकस्मिंस्तथाविधाकाले, पठ्यतेच-'एक्कतो'त्ति 'एककः' रागद्वेषवियुतोऽसहायो वा तथाविधयोग्यतया पराक्ये' परसम्बन्धिनि तथाविधप्रतिबन्धेनास्वीकृते पाठान्तरतः पतिरिक्के' देशीभाषया एकान्ते' स्याद्यसङ्कले 'परकृते' परैःअन्यैर्निष्पादिते स्वार्थमिति गम्यते 'वा' समुच्चये 'वासम्' अवस्थानं 'तत्र' श्मशानादौ 'अभिरोच्येत्' प्रतिभासवेदादात्मने भिक्षुरित्युत्तरेइण योगः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org