________________
अध्ययनं-३५,[ नि. ५५१]
२४७ वालोनरोत्तरवस्तुविषयत्वेन भावनीया, पिण्ड्यत इति पिण्डो शिक्षा तस्य पातः पतनं प्रक्रमा... त्यात्रेऽस्मिन्निति पिण्डपातं भिक्षाऽटनं तत् 'चरेत्' आसेवेत 'मुनिः' इति तपस्वी, पाठान्तरतश्च पिण्डस्त पात: पिण्डपातस्तं गवपयेत्, उभयत्र च वाक्यान्तविपयत्वादपोनरुक्त्यम् ।
इत्थं च पिण्डगवाप्य यथा भुञ्जीत तथाऽऽह-'अलोलः' न सरसान्ने प्राप्ते लाम्पट्यवान्, न 'रसे' स्निग्धमधुरादौ 'गृद्धः' प्राप्ताभिकाङ्क्षावान्, कथं चैवंविधः?, यतः 'जिब्भादंते'त्ति प्राकृतत्वादान्ता-वशीकृता जिह्वा रसना येनासौदाग्तजिह्वोऽत एव 'अमूछितः' संनिधेरकरणेन तत्काले वाऽभिष्वङ्गाभावेन, उक्तं हि "नो वामाओ हणुयातो दाहिणं, दाहिणाओ वा वामं चालेइ" एवंविदश्च सन् 'न' नैव 'रसठ्ठाए'त्ति रसाई सरसमिदमहमास्वादयामीति धातुविशेपो वा रसः स चाशेषधातूपलक्षणं ततस्तुदुपचय: स्यादित्येतदर्थं 'न मुंजीत' नाभ्यवहरेत्, किमर्थ त_त्याह-यापना-निर्वाहः स चार्थात्संयमस्य तदर्थं 'महामुनिः' प्रधानतपस्वी, अनेन पिण्डविशुद्धिरुक्ता । तदेवमादौ मूलगुणान् विधेयतयाऽभिधाय तत्परिपालनार्थमाश्रयाहारचिन्ताद्वारेणोत्तरगुणांश्च सम्प्रति तदवस्थित एवात्मन्युत्पन्नबहुमानः कश्चिदर्चनादि प्रार्थयेदिति तनिषेधार्थमाह-'अर्चना' पुष्पादिभिः पूजां 'रचना' निपद्यादिविषयां स्वस्तिकादिन्यासात्मिकां वा'चः' समुच्चये 'एवः' अवधारणे नेत्यनैन संभन्स्यते 'वन्दनं' नमस्तुभ्यमित्यादि वाचा:भिष्टवनं 'पूजनं' विशिष्टवस्त्रादिभिः प्रतिलाभनं 'तथे ति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पदामपौपध्यादिरूपा वा सत्कारश्च-अर्धप्रदानादिः सन्मानश्च-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽप्यास्तां वाचा नैव 'प्रार्थयेत्' ममेदं स्यादित्यभिलषेत्।
किं पुनः कुर्याद्रित्याह-'शुक्लध्यानम्' उक्तरूपं यथा भवत्येवं 'ध्यायेत्' चिन्तयेत् 'अनिदानः' अविद्यमाननिदानोऽकिञ्चनः प्राग्वत्, व्युत्सृष्ट इव व्युत्सृष्टः कायः-शरीरं येन स तथा विदरेदप्रतिबद्धविहारितयेति गम्यते 'यावदिति मर्यादायां 'कालस्य' इति मृत्योः 'पज्जयत्ति' 'पर्यायः' परिपाटी प्रस्ताव इतियावत्, यावन्मरणसमय: क्रमप्राप्तो भवतीति । __ एवंविधानगारगुणस्थश्च यावदायुधिहत्य मृत्युसमये यत्कृत्वायत्फलमवाप्नोति तदाह'निज्जूहिऊण'त्ति परित्वज्य ‘आहारम्' अशनादि, तत्परित्यागश्च संलेखनाक्रमेणैव, झगिति तत्करणे बहुतरदोषसम्भवात्, तथा चागमः
"देहम्मि असंलिहिए सहसा झाऊहि खिज्जमाणाहि ।
जायइ अट्टज्झाणं सरीरिणो चरमकालंमि ।। कदा ? -'कालधर्मे' आयुःक्षयलक्षणे मृत्युस्वभावे 'उपस्थिते' प्रत्यासन्नीभूते, तथा 'त्यक्त्वा' अपहाय 'मानुसं'ति मानुपी-मनुष्यसम्बन्धिनी बुन्दि' शरीरं'प्रभुः' वीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् 'दुक्खे'त्ति 'दुःखैः' शारीरमानसैः "विमुच्यते' विशेषेण त्यज्यते, तन्निबन्धनकर्मापगमत इति भावः ।
कीदृशः सन् ? इत्याह-निर्ममः' अपगतममीकारः 'निरहङ्कारः' अहममुकजातीय इत्याग्रहङ्काररहितः, ईदृशः कुतः?, यतो वीतरागः प्राग्वद् विगतरागद्वेषः, तथा 'अनाश्रवः' का श्रवरहितो मिथ्यात्वादितद्धत्वभावात् संप्राप्तः 'केवलज्ञानम्' उक्तरूपं 'शाश्वतं' कदाचिदव्यवच्छेदात परिनिर्वृतः' अस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूत इति विंशतिसूत्रFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International