Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 638
________________ अध्ययनं-३५,[ नि. ५५१] २४७ वालोनरोत्तरवस्तुविषयत्वेन भावनीया, पिण्ड्यत इति पिण्डो शिक्षा तस्य पातः पतनं प्रक्रमा... त्यात्रेऽस्मिन्निति पिण्डपातं भिक्षाऽटनं तत् 'चरेत्' आसेवेत 'मुनिः' इति तपस्वी, पाठान्तरतश्च पिण्डस्त पात: पिण्डपातस्तं गवपयेत्, उभयत्र च वाक्यान्तविपयत्वादपोनरुक्त्यम् । इत्थं च पिण्डगवाप्य यथा भुञ्जीत तथाऽऽह-'अलोलः' न सरसान्ने प्राप्ते लाम्पट्यवान्, न 'रसे' स्निग्धमधुरादौ 'गृद्धः' प्राप्ताभिकाङ्क्षावान्, कथं चैवंविधः?, यतः 'जिब्भादंते'त्ति प्राकृतत्वादान्ता-वशीकृता जिह्वा रसना येनासौदाग्तजिह्वोऽत एव 'अमूछितः' संनिधेरकरणेन तत्काले वाऽभिष्वङ्गाभावेन, उक्तं हि "नो वामाओ हणुयातो दाहिणं, दाहिणाओ वा वामं चालेइ" एवंविदश्च सन् 'न' नैव 'रसठ्ठाए'त्ति रसाई सरसमिदमहमास्वादयामीति धातुविशेपो वा रसः स चाशेषधातूपलक्षणं ततस्तुदुपचय: स्यादित्येतदर्थं 'न मुंजीत' नाभ्यवहरेत्, किमर्थ त_त्याह-यापना-निर्वाहः स चार्थात्संयमस्य तदर्थं 'महामुनिः' प्रधानतपस्वी, अनेन पिण्डविशुद्धिरुक्ता । तदेवमादौ मूलगुणान् विधेयतयाऽभिधाय तत्परिपालनार्थमाश्रयाहारचिन्ताद्वारेणोत्तरगुणांश्च सम्प्रति तदवस्थित एवात्मन्युत्पन्नबहुमानः कश्चिदर्चनादि प्रार्थयेदिति तनिषेधार्थमाह-'अर्चना' पुष्पादिभिः पूजां 'रचना' निपद्यादिविषयां स्वस्तिकादिन्यासात्मिकां वा'चः' समुच्चये 'एवः' अवधारणे नेत्यनैन संभन्स्यते 'वन्दनं' नमस्तुभ्यमित्यादि वाचा:भिष्टवनं 'पूजनं' विशिष्टवस्त्रादिभिः प्रतिलाभनं 'तथे ति समुच्चये, ऋद्धिश्च-श्रावकोपकरणादिसम्पदामपौपध्यादिरूपा वा सत्कारश्च-अर्धप्रदानादिः सन्मानश्च-अभ्युत्थानादिः ऋद्धिसत्कारसन्मानं तन्मनसाऽप्यास्तां वाचा नैव 'प्रार्थयेत्' ममेदं स्यादित्यभिलषेत्। किं पुनः कुर्याद्रित्याह-'शुक्लध्यानम्' उक्तरूपं यथा भवत्येवं 'ध्यायेत्' चिन्तयेत् 'अनिदानः' अविद्यमाननिदानोऽकिञ्चनः प्राग्वत्, व्युत्सृष्ट इव व्युत्सृष्टः कायः-शरीरं येन स तथा विदरेदप्रतिबद्धविहारितयेति गम्यते 'यावदिति मर्यादायां 'कालस्य' इति मृत्योः 'पज्जयत्ति' 'पर्यायः' परिपाटी प्रस्ताव इतियावत्, यावन्मरणसमय: क्रमप्राप्तो भवतीति । __ एवंविधानगारगुणस्थश्च यावदायुधिहत्य मृत्युसमये यत्कृत्वायत्फलमवाप्नोति तदाह'निज्जूहिऊण'त्ति परित्वज्य ‘आहारम्' अशनादि, तत्परित्यागश्च संलेखनाक्रमेणैव, झगिति तत्करणे बहुतरदोषसम्भवात्, तथा चागमः "देहम्मि असंलिहिए सहसा झाऊहि खिज्जमाणाहि । जायइ अट्टज्झाणं सरीरिणो चरमकालंमि ।। कदा ? -'कालधर्मे' आयुःक्षयलक्षणे मृत्युस्वभावे 'उपस्थिते' प्रत्यासन्नीभूते, तथा 'त्यक्त्वा' अपहाय 'मानुसं'ति मानुपी-मनुष्यसम्बन्धिनी बुन्दि' शरीरं'प्रभुः' वीर्यान्तरायक्षयतो विशिष्टसामर्थ्यवान् 'दुक्खे'त्ति 'दुःखैः' शारीरमानसैः "विमुच्यते' विशेषेण त्यज्यते, तन्निबन्धनकर्मापगमत इति भावः । कीदृशः सन् ? इत्याह-निर्ममः' अपगतममीकारः 'निरहङ्कारः' अहममुकजातीय इत्याग्रहङ्काररहितः, ईदृशः कुतः?, यतो वीतरागः प्राग्वद् विगतरागद्वेषः, तथा 'अनाश्रवः' का श्रवरहितो मिथ्यात्वादितद्धत्वभावात् संप्राप्तः 'केवलज्ञानम्' उक्तरूपं 'शाश्वतं' कदाचिदव्यवच्छेदात परिनिर्वृतः' अस्वास्थ्यहेतुकर्माभावतः सर्वथा स्वस्थीभूत इति विंशतिसूत्रFor Private & Personal Use Only www.jainelibrary.org Jain Education International


Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704