Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२४२
उत्तराध्ययन-मूलसूत्रम्-२-३५/१४४३ (अध्ययनं-३५-अनगारमार्गगतिः । वृ. व्याख्यातं लेश्याध्ययननामकं चतुस्त्रिंशमध्ययनम, अधुना पञ्चत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः- अनन्तराध्ययने लेश्या अभिहिताः, तदभिधाने चायमाशयः- अशुभानुभावलेश्यात्यागतः शुभानुभावा एव लेश्या अधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग्विधातुं शक्यं, तद्यवस्थानं च तत्परिज्ञानत इति तदर्थमिदमारभ्यते, एतत्सम्बन्धागतस्य चास्यानुयोगद्वारचतुष्टयं प्राग्ववर्णनीयं यावत्रामनिप्पन्ननिक्षेपे अनगारमार्गतिरिति नाम, अतोऽनगारमार्गगतीनां त्रयाणामपि पदानां निक्षेपायाह नियुक्तिकृत् नि. [५४९] अनगारे निक्खेवो चउव्विहो दुविहे होइ नायव्वो। नि. [५५०] जाणगभवियसरीरे तव्वइरिते अनिण्हगाईसु।
भावे सम्मद्दिट्टी अगारवासा विनिम्मुक्को। नि. [५५१] मग्गगईणं दुण्हवि पुवुद्दिट्टो चउक्कनिक्खेवो।
__ अहिगारो भावमग्गे सिद्धिगईए उ नायव्यो । वृ. गाथात्रयं स्पष्टमेव, नवरंतद्यतिरिक्तश्च निह्नवादिपु, आदिशब्दादन्येष्वपि चरित्रपरिणामं विना गृहाभाववत्सु, निर्धारणे सप्तमी, ततश्च यस्तेषु मध्ये ऽनगारत्वेन लोके रूढ इत्युपस्कारः, स तद्यतिरिक्तो द्रव्यानगारो, भावे 'सम्यग्दृष्टिः' सम्यग्दर्शनवान्निश्चयतो यत्सम्यक्त्वं तन्मौनमिति चरित्री अगारवासेनागारपाशेन वा प्राकृतत्त्वात्तृतीयार्थे पञ्चमी विशेपेण-तत्प्रतिबन्धपरित्यागरूपेण निर्मुक्तः-त्यक्तो विनिर्मुक्तोऽनगारइति प्रक्रमः, तथा मार्गगत्योर्द्वयोरपि, पूर्वत्रमोक्षमार्गगतिनामन्यध्ययने उद्दिष्ट:-कथित: पूर्वोद्दिष्टः, इत्थमेपां चतुर्विधत्वेन केनेह प्रकृतमित्याहअधिकार: 'भावमग्गि'त्ति सुब्ब्यत्ययाद् 'भावमार्गेण' सम्यग्दर्शनज्ञानचारित्रलक्षणेन सिद्धिगत्या चार्थाद्भावगत्या उपलक्षणत्वाद्भावानगारेण च ज्ञातव्य इति गाथात्रयावयवार्थः।
गतो नामनिष्पनो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्मू. (१४४४) सुणेह मे एगमना, मगं सव्वन्नु (बुद्धेहि) देसियं।
जमायरंतो भिक्खू, दुक्खानंतकरो भवे ॥ वृ. 'शृणुत' आकर्णयत 'मे' मम कथयत इति शेपः, एकाग्रमनसः, कोऽर्थ ? -अनन्यगतचित्ताः सन्तः शिष्या इति शेष, किं तत् ? इत्याह-'मार्गम्' उक्तरूपं प्रक्रमान्मुक्तेर्बुधैःअवगतयथास्थितवस्तुतत्त्वैरुत्पन्न केवलैरर्हद्भिः श्रुतकेवलिभिर्गणधरादिभिर्वेत्युक्तं भवति, देशितं-प्रतिपादितमर्थतः सूत्रतश्च, तमेव विशेषयितुमाह-'यम्' इति मार्गम् 'आचरन्' आसेवमानः 'भिक्षुः' अनगार: 'दुःखानां' शारीरमानसानामन्तः-पर्यन्तस्तत्करणशीलोऽन्तकर: 'भवेत्' स्यात्, सकलकर्मनिर्मूलनत इति भावः, तदनेनासेव्यासेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं च मुक्तिगतिरिति दर्शितं, ततश्चानगारमार्गं तद्गति च शृणुतेत्य(र्थत) उक्तं भवतीति सूत्रार्थः ॥ यथाप्रतिज्ञातमेवाहमू. (१४४५) गिहवासं परिखज्जा, पन्चज्जामस्सिए मुनी।
इमे संगे वियाणिज्जा, जेहि सज्जंति मानवा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704