Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - ३४, [ नि. ५४९ ]
मिथ्यादृष्टिरनार्यश्च प्राग्वत्, मू. ( १४०८ )
उप्फालगदुदुवाई य, तेने अविय मच्छरी । एयजोगसमाउतो, काउलेसं तु परिणमे ।।
वृ. ' उप्फालग' त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोपवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी'च: 'समुच्चये 'स्तेनः 'चौर: 'च' प्राग्वत्' अपिच' इति पूरणे 'मत्सरः' परसम्पदसहनं सति वा वित्ते त्यागाभाव:, तथा चाहुः शाब्दिकाः - "परसम्पदामसहनं वित्ता-त्यागश्च मत्सरो ज्ञेयः " इति, तद्वान् मत्सरी, एतद्योगसमायुक्तः कापोतलेश्यां 'तुः' इति पुनः परिणमेत् ॥ नीआवित्ती अचवले, अमाई अकुऊहले ।
मू. ( १४०९ )
विनीयविनए दंते, जोगवं उवहाणवं ॥
२३५
+
वृ. 'नीयावित्ति'त्ति नीचैर्वृत्ति:- कायमनोवाग्भिरनुत्सिक्तः 'अचपलः' चापलानुपेतः 'अमायी' शाठ्यनन्वितः 'अकुतूहल: ' कुहकादिष्वकौतुकवानत एव 'विनीतविनयः ' स्वभ्यस्तगुर्वाधुचितप्रतिपत्तिः, तथा 'दान्तः' इन्द्रियदमेन योगः - स्वाद्यायादिव्यापारस्तद्वान्, 'उपधानवान्' विहितशास्त्रोपचारः, ।
मू. ( १४१० )
पियधम्मे दढधम्मे, वज्जभीरू हिएसए । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥
वृ. 'प्रियधर्मा' अभिरुचितधर्मानुष्ठान: 'दृढधर्मा' अङ्गीकृतव्रतादिनिर्वाहकः, , किमित्येवम् ?, यतः 'वज्ज'त्ति वर्ज्यं प्राकृतत्वादकारलोपे अवद्यं चोभयत्र पापं तद्भीरुः 'हितैषक: ' मुक्तिगवेषकः, पाठान्तरतो हिताशयो वा परोपकारचेताः, पठ्यते च- 'अनासवे 'ति तत्र च न विद्यन्ते आश्रवा - हिंसादयो यस्यासावना श्रवः, एतद्योगसमायुक्तस्तेजोलेश्यां तु परिणमेत् ॥ मू. (१४११ ) पयणुक्कोमानो य, मायालोभे य पयणुए।
पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥
वृ. प्रतनू - अतीवाल्पौ क्रोधमानौ यस्य स तथा, चः पूरणे, माया लोभश्च उक्तरूपः प्रतनुको यस्येति शेष:, अत एव प्रशान्तं -- प्रकर्, गोपशमवच्चित्तमस्येति प्रशान्तचितः, दान्त:-३ - अहितप्रवृत्तिनिवारणतो वशीकृत आत्मा येन स तथा, योगावानुपधानवानिति च प्राग्वत्, ।
.मू. (१४१२ )
तहा य पयणुवाई य, उवसंते जिइंदिए । एयजोगसमाउतो, पम्हलेसं त परिणमे ॥
वृ. तथा 'प्रतनुवादी' स्वल्पभापकश्चशब्दो भिन्नक्रमो योक्ष्यते, 'उपशान्तः' अनुद्भटतयोपशान्ताकृतिः 'जितेन्द्रियश्च' वशीकृताक्षः, एतद्योगसमायुक्तः पद्मलेश्यां तु परिणमेत् ॥ अवरुद्दाणि वज्जित्ता, धम्मसुक्काणि साहए। पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तेसु ॥
मू. ( १४१३)
वृ. 'आर्त्तरौद्रे' उक्तरूपे ध्याने 'वर्जयित्वा' परिहृत्य 'धर्मशुक्ले' प्रागुक्ते एव शुभध्याने 'साधयेत' सतताभ्यासतो निष्पादयेत्, यः कीदृशः सन् ? इत्याह- प्रशान्तचित्तो दान्तात्मेति च प्राग्वत्, पाठान्तरतश्च ध्यायति यो विनीतविनयो दान्तः 'समित: ' समितिमान् 'गुप्तश्च' निरुद्धसमस्तव्यापारः 'गुप्तिभि:' मनोगुप्त्यादिभिः, तृतीयार्थे सप्तमी,
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org
Loading... Page Navigation 1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704