Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२१२
उत्तराध्ययन-मूलसूत्रम्-२-३२/१३४५ वार्थं निगमयितुमाह-रूपानुरक्तस्य नरस्य एवम्' अनन्तरसूत्रकदम्बकोक्तप्रकारेण कुतः सुखं भवेत् ? कदाचित्किञ्चित्, सर्वदा दुःखमेवेति भावः, किमित्येवं?, यतः 'तत्र' रूपानुरागे 'उपभोगेऽपि' उपभोगावस्थायामपि 'क्लेशदुःखम्' अतृप्तलाभतालक्षणबाधाजनितमसातम् उपभोगमेव विशिष्टि-निवर्तयति' उत्पादयति यस्य-इत्युपभोगस्य कृते यदर्थं 'न' इति वाक्यालङ्कारे 'दुःखं' कृच्छ्रमात्मन इति गम्यते, उपोभगार्थं हि जन्तुः क्लिश्यति-तत्र सुखं स्यादिति यदा च तदाऽपि दुःखं तदा कुतोऽन्यदा सुखसम्भवः ? इति भावः।
इत्थं रागस्यानर्थहेतुतामभिधाय द्वेयस्यापि तामतिदेष्टमाह-'एवमेव' यथाऽनुरक्तस्थैव रूपे गतः प्रदोपं-द्वेपम् 'उपैति' प्राप्नोति इहैवेति शेष: 'दु:खौधपरम्पराः' उत्तरोत्तरदुःखसमूहरूपाः, तथा प्रदुष्ट-प्रकर्षेण द्विष्टं चित्तं यस्य तथाविधः, चस्य भिन्नक्रमत्वात् 'चिनोति वा' बन्धाति कर्म, तत् शुभमपि संभवत्यत आह-यत् ‘से' तस्य पुनर्भवति 'दुःखं दुःखहेतुः 'विपाके' अनुभवकाले इह परत्र चेति भावः, पुनर्ग्रहणमैहिकदु:खापेक्षम्, अशुभकर्मोपचयश्च हिंसाद्याश्रवाविनाभावीति तद्धेतुत्वमनेनाक्षिप्यते। ___ इत्थं रागद्वेपयोरुद्धरणार्हतां ख्यापयितुं तदनुद्धरणे दोषमभिधाय तदुद्धरणे गुणमाह-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च 'मनुजः' मनुष्यः 'विशोकः' शोकरहितः संस्तनिबन्धनयो रागद्वेषयोरभावात् 'एतेन' अनन्तरमुपदशितेन 'दुक्खोहरपंपरेणं'ति दुःखानाम्-असातानामोधाः-सङ्घातास्तेषां परम्परा-सन्ततिर्दुःखौधपरम्परा तया 'नलिप्यते' नस्पृश्यते भवमध्येऽपि 'सन्' भवन्, संसारवय॑पीत्यर्थः ।। दृष्टान्तमाह-जलेनेव वाशब्दस्योपमार्थत्वात् 'पुष्करिणीपलास' पद्मिनीपत्रं जलमध्येऽपि सदिति शेषः ।
इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि, एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च स्वविषयप्रवृत्तौ रागद्वेषानुद्धरणदोपाभिधायकानि त्रयोदश सूत्राणि व्याख्येयानि, नवरं श्रोत्रस्ये'ति श्रोत्रेन्द्रियस्य शब्द्यत इति शब्दो-ध्वनिस्तं 'मनोझं' काकलीगीतादि अमनोज़' खरकर्कशादि, तथा 'हरिणमियब्व मुद्धे'त्ति, मृगः सर्वोऽपि पशुरुच्यते, यदुक्तम्-"मृगशीर्षु हस्तिजाती, मृगः पशुकुङ्गयोः" इति, हरिणस्तु कुरङ्ग एवेति तेन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगः 'मुग्धः' अनभिज्ञः सन् ‘शब्दे' गौरिगीतात्मके ऽतृप्तः-तदाकृष्टचित्ततया तत्रातृप्तिमान् । ___'घ्राणस्य' इति घ्राणेन्द्रियस्य गन्ध्यते-घ्रायत इति गन्धस्तं 'मनोज्ञं सूरभिम् 'अमनोज्ञम्' असुरभि, तथौषधयो-नागदमन्यादिकास्तासां गन्धस्तत्र गृद्धो-गृद्धिमानौषधिगन्धगृद्धः सन् 'सप्पबिलाओ विव'त्ति इवशब्दस्य भिन्नक्रमत्वात्सर्प इव बिलानिष्क्रमन्, स ह्यत्यन्तप्रि(तत्प्रि)यतया तद्गन्धं सोढुमशक्नुवन् बिलान्निष्कामति ३ ।
"जिह्वयाः' जिह्वेन्द्रियस्य रस्यते-आस्वाद्यत इति रसस्तं 'मनोज्ञ' मधुरादि 'अमनोज्ञं' कटुकादि तथा बडिशं-प्रान्तन्यस्तामिषो लोहकीलकस्तेन विभिन्नकायो-विदारितशरीरो बडिशविभिनकायः 'मत्स्यः' मीनो यथाऽऽमिषस्य-मांसादेर्भोग:-अभ्यवहारस्तत्र गृद्ध आमिषभोगगद्धः ४ । काय इहस्पर्शनेन्द्रियं सर्वशरीरगतत्वख्यापनार्थं चास्यैवमुक्तं, तस्य स्पृश्यत इति स्पर्शस्तं 'मनोज्ञं' मृदुप्रभृति 'अमनोज्ञं' कर्कशादि शीतं-शीतस्पर्शवज्जलं - पानीयं तत्रावसन्न:-अवमग्न: शीतजलासन्नो ग्राहै:-जलचरविशेषैर्गृहीत:-क्रोडीकृतो ग्राह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704