Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - ३२, [ नि. ५३० ]
गृहीतो महिष इवारण्ये, वसति हि कदाचित्केनचिदन्मोच्येत्तापीत्यरण्यग्रहणम् ५।
'मनसः ' चेतसो भावः - अभिप्रायः स चेह स्मृतिगोचरस्तं 'ग्रहणं' ग्राह्यं वदन्तीन्द्रियाविषयत्वात्तस्य, 'मनोज्ञं' मनोज्ञरूपादिविपयम् 'अमनोज्ञं' तद्विपरीतविषयम्, एवमुत्तरग्रन्थोऽपि भावविपयरूपाद्यपेक्षया व्याख्येयः, यद्वा स्वप्नाकामदशादिषुभावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः, स्वप्नकामदशादिपु हि मनस एव केवलस्य व्यापार इति, 'कामगुणेषु' मनोज्ञरूपादिषु 'गृद्धः' आसक्तः 'करेणुमग्गावहिए व नागे' इति इवार्थस्य ग्यभिन्नवान्वात् करेण्वाकरिण्या मार्गेण निजपथेनापहृतः - आकृष्टः करेणुमार्गापहतः 'नाग इव' हस्तीव स हि मदान्धोऽप्यदूरवर्तिनीकरेणुमुपदर्श्य तद्रूपादिमोहितस्तन्मार्गानुगामितया च गृह्यते संग्रामादिषु च प्रवेश्यते तथा च विनाशमाप्नोतीति दृष्टान्तत्वेनोक्तः, आह
२१३
एव चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्यात्र दृष्टान्तत्वेनाभीधानम् ?, उच्यते, एवमेतत्, मनः प्राधान्यविवक्षया त्वेतत्रेयं, यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावे मनसः प्रवृत्तिरिति न दोष:, इह चानानुपूर्व्यापि निर्देशाङ्गमितीन्द्रियाणामित्थमुपन्यास इत्यष्टसप्ततिसूत्रावयवार्थः ॥ उक्तमेवार्थं सङ्क्षेपत उपसंहारव्याजेनाह
मू. (१३४६ ) एवंदियत्था य मनस्स अत्था, दुक्खस्स हेडं मनुयस्स रागिणो । ते चेव थेवंपि कयाइ दुक्खं, न वीयरागस्स करिति किंचि ॥
वृ. 'एवम्' उक्तन्यायेन 'इन्द्रियार्थाः ' चक्षुरादिविषया रूपादयः चशब्दो भिन्नक्रमस्ततो मनसोऽर्थाश्च--उक्तरूपा उपलक्षणत्वादिन्द्रियमनांसि च दुःखस्य 'हेउं' त्ति हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च विपर्यये गुणमाह-'ते चेव' इन्द्रियमनोऽर्थाः 'स्तोकमपि ' स्वल्पमपि कदाचिद् दुःखं 'न' चैव वीतरागस्य उपलक्षणत्वाद्वीतद्वेषस्य कुर्वन्ति 'किञ्चिदि 'ति शारीरं मानसं चेति सूत्रार्थः ॥
ननु कश्चन कामभोगेषु सत्सु (न) वीतरागः संभवति, तत्कथमस्य दुःखाभाव ?, उच्यतेमू. (१३४७ ) न कामभोगा समयं उर्विति, न यावि भोगा विगई उर्विति ।
Jain Education International
-
जेतप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेइ ॥
वृ. 'न' नैव 'कामभोगाः' उक्तरूपाः 'समतां' रागद्वेषाभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत्, न चापि 'भोगाः ' भुज्यमानतया सामान्येन शब्दादयः 'विकृति' क्रोधादिरूपाम्, इहापि हेतुत्वेनोपयन्तीत्यन्यथा न कश्चन रागद्वेषरहितः स्यात्, कोऽनयोस्तर्हि हेतुः ?, इत्याह-य: 'तत्प्रदोषी च' तेषु विषयेषु प्रद्वेषवान् 'परिग्रही च' परिग्रहबुद्धिमान्, तेष्वेव रागीत्युक्तं भवति, स 'तेषु' विषयेषु 'मोहात्' रागद्वेषात्मकात् मोहनीयात् विकृतिमुपैति, रागद्वेषरहितस्तु समतामित्यर्थादुक्तम्, उक्तं हि पूर्व - 'सतोरेव रागद्वेषयोरुदीरकत्वेन शब्दादयो हेतव' इति, आह- "समो य जो तेसु स वीयरागो" इत्यनेन गतार्थमेतत् सत्यं तस्यैव त्वयं प्रपञ्चः, उक्तं हि 'त एव विधयः सुसंगृहीता भवन्ती येषां लक्षणं प्रपञ्चश्चोच्यते' इति सूत्रार्थ: ॥ किंस्वरूपाः पुनरसौ विकृतिय रागद्वेषाशादुपैतीत्वाहमू. ( १३४८ ) कोहं च मानं च तहेव मायं, लोभं दुर्गुछं अरई रई च । हासं भयं सोगपुमित्थिवेयं, नपुंसवेयं विविहे य भावे ॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704