Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 596
________________ अध्ययनं-३२,[ नि.५३०] २०५ हितमेतदिति ज्ञात्वा, किमक्तं भवति?-संभवन्ति हि केचिदभ्यस्तयोगिनोऽपि ये तत्सङ्गतः क्षुभ्यन्ति, येऽपि न क्षुभ्यन्ति तेऽपि स्त्रीसंसक्तवसतिवासे "साहु तवो वणवासो" इत्याद्यवर्णादिदोपभाजो भवेयुरिति परिभाव्य 'विविक्तवासो' विविक्तशय्यासनात्मको मुनीनां प्रशस्त इत्यन्त वितण्यर्थतया 'प्रशंसितः' गणधरादिभिः श्लाधित इत्यर्थः, अतः स एवाश्रयणीय इति भावः ।। एतत्समर्थनार्थमेव स्त्रीणां दुरतिक्रमत्वमाह_ 'मोक्षाभिकाङ्किणोऽपि' मुक्त्यभिलापिणोऽपि मानवस्य संसारात्-चतुर्गतिरूपाद्भयनशीलो भीरुः संसारभीरुः, अपेरिहापि सम्बन्धात्तस्यापितथास्थितस्यापि 'धर्मे' श्रुतधर्मादौ 'न' नैव एतादृशम्' ईदृशं दुस्तरं-दुरतिक्रमम् 'अस्ति' विद्यते 'लोके' जगति तथा 'स्त्रियः' युवतयः 'बालमनोहराः' निविवेकचित्ताक्षेपिण्यो दुस्तराः, दुस्तरत्वे च बालमनोहरत्वं हेतुः, अतश्चातिदुस्तरत्वादासां परिहार्यत्वेन विविक्तशय्यासनमेव श्रेय इति भावः ।। नन्वेवं स्त्रीसङ्गातिकमार्थमयमुपाय उपदिष्टस्तथा शेषसङ्गातिक्रमणार्थमति किं न कश्चनोपाय उपदिश्यते? इत्याह-'यदिवा स्त्रीसाङ्गतिक्रमे गुणमाह-एतांश्च 'सङ्गान्' सम्बन्धान् प्रक्रमात्स्त्रीविषयान् ‘समतिक्रम्य' उल्लङ्घय सुखोत्तरश्चैव' अकृच्छोल्लङ्घयाश्चैव भवन्ति शेषाः' द्रव्यादिसङ्गाः सर्वसङ्गानां रागरूपत्वे समानेऽपि स्त्रीसङ्गानामेवैतेषु प्रधानत्वादिति भावः, दृष्टान्तमाहयथा 'महासागरं' स्वयम्भूरमणमुत्तीर्य 'नदी' सरित् 'भवेत्' स्यात्सुखोत्तरैवेति प्रक्रमो वीर्यातिशययोगत इति भावः, अवि गंगासमाने ति गङ्गा किलमहानदी तत्समानाऽपि-तत्सदृशाऽपी, आस्तामितरा शुद्रनदीत्यपिशब्दार्थः !! यदुक्तं "विवित्तसेज्जासणजत्तियाण" -मित्यत्र विविक्तावसथमर्थतो व्याख्याय "ओमासणाणं दमिइंदियाण" मित्यत्रावमाशनत्वमनन्तरमेव प्रक्रामभोजननिषेधेन समर्थितं, दमितेन्द्रियत्वं तूत्तरत्र वक्ष्यत इत्युभयमुपेक्ष्य 'न रागसत्तू धरिसेइ चित्त" मित्यत्र किमिति रागपराजयं प्रत्येवमुपदिश्यते? इत्याशङ्कय रागस्य दुःखहेतुत्वं दर्शयितुमाह-कामाः-विषयास्तेष्वनुगूद्धिःसतताभिकाङ्क्षा अनुभावानुबन्ध इत्यादिष्वनोः सातत्येऽपि दर्शनात्, तस्याः प्रभवो यस्य तत्कामानुगृद्धिप्रभवं 'खु'त्ति खुशब्दस्यावधारणार्थत्वात्कामानुगृद्धिप्रभवमेव, कि तत्?-'दुःखम्' असातं सर्वस्य लोकस्य-प्राणिगणस्य, कदाचिद्देवानां विशिष्टानुभाववत्तयैवं न स्यादत आह-'सदेवकस्य' देवैः समन्वितस्य, कतरत्तद् दुःखमित्याह-यत् 'कायिक' रोगादि 'मानसिकं च' इष्टवियोगादिजन्यं किञ्चित्' स्वल्पमपि, कदाचिदेतदभावेऽप्येतत्स्याद् अत आहतस्य द्विविधस्यापि दुःखस्यान्तमेव अन्तकं- पर्यन्तं गच्छति वीतरागः' विगतकामानुगृद्धिरित्यर्थः ।। ननु कामाः सुखरूपतयैवानुभूयन्ते तत्कथं कामानुगृद्धिप्रभवं दुःखम् ?, उच्यते, 'यथा च' इति यथैव किम्पाको-वृक्षविशेषस्तत्फलानि, अपेर्गम्यमानत्वात्, 'मनोरमाण्यपि' हृदयङ्गमान्यपि रसेन' आस्वादेन 'वर्णेन च' रुचिररक्तादिना चशब्दाद् गन्धादिना च भुज्यमानानि' उपभुज्यमानानि 'ते' इति 'तानि' लोकप्रतीतानि क्षोदयितुम्-अध्यवसनादिभिरुपक्रमकारणैर्विनाशयितुं शक्यत इति क्षुद्रं तदेवानुकम्प्यतया क्षुद्रकं सोपक्रमित्यर्थस्तस्मिन् जीविते-आयुषि पच्यमानानि-विपाकावस्थाप्राप्तानि मरणान्तदुःखदायीनीति शेषः, प्राग्वच्च लिङ्गव्यत्ययः, पठ्यते च-'ते जीवियं खुंदति पच्चमाणे 'त्ति तानिकिम्पाकफलानि जीवितम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704