________________
१८२
उत्तराध्ययन- मूलसूत्रम् - २ - ३० / १२०४
खेडे कब्बडदोणमुहपट्टणमडंबसं बाहे ॥
वृ.क्षेत्रामौदर्यमाह प्रसति गुणान् गम्यो वाऽष्टादशानां करणामिति ग्रामस्तस्मिन्, नामत्र करोऽस्तीति नकरं तस्मिन्, तथा राजाऽनया धीयत इति राजधानि - राज्ञः पीटिकास्थानमित्यर्थः, निगमयन्ति तस्मिन्नेकविधभाण्डानीति निगमः प्रभूततरवणिजां निवासोऽनयो: समाहारस्तस्मिंश्च, आकुर्वन्ति तस्मिन्नित्याकरो - हिरण्याद्युत्पत्तिस्थानं तस्मिन्, 'पल्लि'त्ति सुब्व्यत्ययात् पाल्यन्तेऽनया दुष्कृतविधायिनो जना इति पल्ली, नैरुक्ता विधिः, वृक्षगहनाद्याश्रितः प्रान्तजननिवासस्तस्यां खेट्यन्ते - उत्रास्यन्तेऽस्मिन्नैव स्थितैः शत्रव इति खेटं--पांशुप्राकारपरिक्षितम्, उक्तं हि - " खेडं पुण होइ धूलिपायारं" तस्मिन् कर्बटं - कर्बटजनावास:, कुनगरमित्यर्थः, द्रोण्योनावो मुखमस्येति द्रोणमुखं-जलस्थलनिर्गमप्रवेशं यथा भृगुकच्छं ताम्रलिप्तिर्वा, पतन्ति तस्मिन् समस्तदिग्भ्यो जनाइति पत्तनं, तच्च जलपत्तनं यज्जलमध्यमवर्त्ती, यथा काननद्वी,: स्थलपत्तनं च निर्जल भूभागभावि यथा मथुरा, 'मडंब 'त्ति देशीपदं यस्य सर्वदिवर्द्धतृतीययोजनान्तर्ग्रामो नास्ति, समिति - भृशं बाध्यन्तेऽस्मिन् जना इति संबाधः - प्रभूतचातुर्वर्ण्यनिवास:, कर्बटादीनां चात्र समाहारद्वन्द्वस्तस्मिन् ।
मू. ( १२०५ )
आसमपए विहारे संनिवेसे समायघोसे य । थलिसेणाखंधारे सत्थे संवट्ट कोट्टे य ॥
वृ. आ - सन्मात् श्राम्यन्ति तपः कुर्वन्त्यस्मिन्नित्याश्रमः - तापसावसथादिस्तदुपलक्षितं पदं - स्थानमा श्रमपदं तस्मिन्, विहारो - भिक्षुनिवासो देवगृहं वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन्, 'संनिवेशे' यातप्दिसमायातजनावासे, समाज : -- पथिकसमूहः घोषो-गोकुलमनयोः समाहारे समाजघोषं तस्मिन्, 'च: ' समुच्चये, स्थल्याम् उच्च भूभागे सेना-चातुरङ्गबलसमूहः स्कन्धावारः स एवाशेपखेडाद्युतलक्षितोऽनयोः समाहारे सेनास्कन्धावारं तस्मिन, 'सार्थे' गणिमधरिमादिभृतवृषभादिसङ्घाते संवर्त्तन्ते-पिण्डीभवन्तस्मिन् भयत्रस्ता जना इति संवर्त्तस्तस्मिन् कोट्टं - प्राकारो ऽनयोः समाहारे संवर्त्तकोट्टं तस्मिन् 'च: ' समुच्चये, क्षेत्र प्रस्तावादिह समाजिकादिषु च क्षेत्रमेवोपलक्ष्यते ।
मू. ( १२०६ )
Jain Education International
वाडेसु य रत्थासु य घरेसु वा एवमित्तियं खित्तं ।
कप्पइ उ एवमाई एवं खित्तेण ऊ भवे ॥
वृ. 'वाडेसु' त्ति वाटेषु पाटेषु वा वृत्तिवण्डिकादिपरिक्षिप्तगृहसमूहात्मकेषु' रथ्यासु' सेरिकासु 'गृहेषु' प्रतीतेषु, सर्वत्र वा विकल्पे, 'एवमित्यनेन हृदयस्थप्रकारेण 'एत्तिय 'न्ति 'एतावत् विवक्षातो नियतपरिमाणं क्षेत्रं 'कल्पते' उपयोगं याति पर्यटितुमिति शेषः, 'तुः ' पूरणे, एवमादि, आदिशब्दाद्गृहशालादिपरिग्रहः, 'एव' मित्यमुना क्षेत्रप्राधान्यादभिग्रहग्रहणलक्षणेन प्रकारेणेति 'क्षेत्रेण' इति क्षेत्रहेतुकं 'तुः ' पूरणे भवेदममौदार्यमिति प्रक्रमः ।।
पू. ( १२०७ )
पेडा य अद्धषेडा गोमुत्ति पयंगवीहिया चेव । संबुकावट्टाययगंतुं पच्छागया छट्टा ॥
वृ. पुनरन्यथा क्षेत्रावौदार्यमाह - 'पेड'त्यादि, अत्र च सम्प्रदाय: - "पेडा पेडिका इव चउकोणा अद्धपेडा इमीए चेव अद्धसंठिया घरपडिवाडी गोमुत्तिया वंकावलिया पयंगविही अणियया
For Private & Personal Use Only
www.jainelibrary.org