Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 334
________________ प्रतिपत्तिः-३, दीव० ३३१ जगत्युपरिभाविन्येतिगम्यते, एकेन वनखण्डेनसर्वतः समन्तात्संपरिक्षिप्तः, साच पद्मवरवेदिकाऽर्द्धयोजनमूर्द्धमुच्चैस्त्वेन पञ्चधनुःशतानि विष्कम्भतः परिक्षेपतो लवणसमुद्रपरिक्षेपप्रमाणा, वनखण्डो देशोने द्वे योजने, अभ्यन्तरोऽपिपद्मवरवेदिकाया वनषण्ड एवंप्रमाण एव, उभयोरपि वर्णनंजम्बूद्वीपपद्मवरवेदिकावनषण्डवत् सम्प्रतिद्वारवक्तव्यतामभिधित्सुरिदमाह-'लवणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि?, भगवानाह-गौतम! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयवैजयन्तजयन्तापराजिताख्यानि। 'कहि णमित्यादि, कत्र भदन्त ! लवणसमुद्रस्य विजयनाम द्वारं प्रज्ञप्तं ?, भगवानाहगौतम !, लवणसमुद्रस्य पूर्वपर्यन्ते धातकीखण्डद्वीपपूर्वार्द्धस्य 'पञ्चस्थिमेण न्ति पश्चिमभागे शीतोदायामहानद्या उपर्यत्रान्तरेलवणसमुद्रस्य विजयनामद्वारंप्रज्ञप्तं, अष्टी योजनान्यर्द्धमुच्चैस्त्वेन एवं जम्बूद्वीपगतविजयद्वारसद्दशमेतदपि वक्तव्यं यावद्बहून्यष्टावष्टौ मङ्गलकानि यावद्बहवः सहस्रपत्रहस्तका इति ॥ सम्प्रति विजयद्वारनामनिबन्धनं प्रतिपिपादविषुरिदमाह से केणटेणं भंते' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-विजयद्वारं विजयद्वारम् ? इति, भगवानाह-गौतम ! विजये द्वारे विजयो नाम देवो महर्द्धिको यावद् विजयाया राजधान्याअन्येषांचबहूनां विजयाराजधानीवास्तव्यानां दानमन्तराणां देवानां देवीनांचाधिपत्यं यावत्परिवसति, ततो विजयदेवस्वामिकत्वा विजयमिति, तथा-'से एएणठेणमित्यादि सुगम। 'कहिणं भंते!' इत्यादि, कवभदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता?, भगवानाह-गौतम! विजयद्वारस्यपूर्वस्यादिशितिर्यगसङ्ख्येयान्द्वीपसमुद्रान्व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे द्वादश योजनसहस्राण्यवगाह्यात्रान्तरे विजयस्यदेवस्यविजयानामराजधानीप्रज्ञप्ता, साच जम्बूद्वीपविजयद्वाराधिपतिविजयाराजधानीवद्वक्तव्या। सम्प्रति वैजयन्तद्वारप्रतिपादनार्थमाह-'कहिणं भंते!' इत्यादि, कत्र भदन्त! लवणस्य समुद्रस्य वैजयन्तंनाम द्वारं प्रज्ञप्तं?, भगवानाह-गौतम! लवणसमुद्रस्य दक्षिणपर्यन्तेधातकीखण्डद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तं, एतद्वक्तव्यता सर्वाऽपि विजयद्वारवदवसेया, नवरं राजधानी वैजयन्तद्वारस्य दक्षिणतो वेदितव्या। जयन्तद्वारप्रतिपादनार्थमाह-'कहिणं भंते!' इत्यादि, कव भदन्त! लवसमुद्रस्य जयन्तं द्वारंप्रज्ञप्तं?, भगवानाह-गौतम! लवणसमुद्रस्य पश्चिमपर्यन्तेधातकीखण्डपश्चिमार्द्धस्यपूर्वतः सीताया महानद्या उपरिलवणस्य समुद्रस्यजयन्तंनामद्वारंप्रज्ञप्तं, तद्वक्तव्यताऽपि विजयद्वारवद् वक्तव्या, नवरं राजधानी जयन्तद्वारस्य पश्चिमभागे वक्तव्या। अपराजितद्वारप्रतिपादनार्थमाह-'कहि णं भंते !' इत्यादि, कव भदन्त ! लवणस्य समुद्रस्यापरिजितं नाम द्वारंप्रज्ञप्तं ?, भगवानाह-गौतम! लवणलसमुद्रस्योत्तरपर्यन्ते धातकीखण्डद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र लवणस्य समुद्रस्यापराजितं नाम द्वारंप्रज्ञप्तं । एतद्वक्तव्यताऽपि विजयद्वारवन्निरवशेषा वक्तव्या, नवरं राजधानी अपराजितद्वार-स्योत्तरतोऽवसातव्या । सम्प्रतिद्वारस्यद्वारस्यान्तरं प्रतिपादयितुकाम आह-लवणस्सणंभंते!' इत्यादि, लवणस्य भदन्त! समुद्रस्य द्वारस्य २ एसणमिति एतद् अन्तरं कियत्या अबाधया' अन्तरालत्वाव्याघातरूपया प्रज्ञप्त। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532