Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 481
________________ ४७८ जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/१/३६९ प्रथमा सर्वजीवाप्रतिपत्तिः वृ. तदेवमुक्तः संसारसमापन्नजीवाभिगमः, साम्प्रतं संसारासंसारसमापन्नजीवाभिगममभिधित्सुराह मू. (३६९) से किं तं सव्वजीवाभिगमे ?, सव्वजीवेसु णं इमाओ नव पडिवत्तीओ एवमाहिंजंति एगे एवमाहंसु-दुविहा सबजीवा पन्नत्ता जाव दसविहा सव्वजीवा पन्ता ।। तत्थ जे ते एवमाहंसु दुविहा सव्वजीवा पन्ता ते एवमाहंसु, तंजहा-सिद्धाय असिद्धा य इति सिद्धे गंभंते! सिद्धेत्ति कालतो केवचिरं होति?, गोयमा !सातीअपज्जवसिए । असिद्धे णं भंते ! असिद्धेति० ?, गोयमा ! असिद्धे दुविहे पण्णत्ते, तंजहा-अनाइए वा अपजविए अनातीए वा सपञ्जवसिए। सिद्धस्स णं भंते ! केवतिकालं अंतर होति?, गोयमा ! सातियस्स अपजव सियस्स नस्थि अंतरं ।। असिद्धस्स णं भंते! केवइयंअंतरं होइ?, गोयमा ! अनातियस्स अपज्जवसियस्स नथि अंतरं, अणातियस्स सपज्जवसियस्स नथि अंतरं । एएसिणं भंते ! सिद्धाणं असिद्धाण य कयरे २?, गोयमा! सव्वत्थोवा सिद्धा असिद्धा अनंतगुणा। वृ. ‘से किंत'मित्यादि, अथ कोऽसौ सर्वजीवाभिगमः?, सर्वजीवाः संसारिमुक्तभेदाः, गुरुराह-सव्वजीवेसु णमित्यादि, सर्वजीवेषुसामान्येन एताः' अनन्तरंवक्ष्यमाणानवप्रतिपत्तयः 'एवम् अनन्तरमुपदय॑मानेन प्रकारेणाख्यायन्ते, ता एवाह-एके एवमुक्तवन्तो-द्विविधाः सर्वजीवाः प्रज्ञप्ताः, एक एवमुक्तवन्तस्त्रवधाः सर्वजीवाः प्रज्ञप्ताः, एवं यावदेके एवमुक्तवन्तो दशविधाः सर्वजीवाः प्रज्ञप्ताः । तत्थे त्यादि, तत्रयेतेएवमुक्तवन्तोद्विविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-सिद्धाश्चासिद्धाश्च, सितंबद्धमष्टप्रकारकर्ममातं-भस्मीकृतंयैस्तेसिद्धाः, पृषोदरादित्वादिष्ट-रूपनिष्पत्ति, निर्दग्धकर्मेन्धनामुक्ता इत्यर्थ, 'असिद्धाः संसारिणः, चशब्दो स्वगतानेकभेद-संदर्शनार्थी। सम्प्रति सिद्धस्य कायस्थितिमाह-'सिद्धेण मित्यादि, सिद्धोभदन्त! सिद्धइति-सिद्धत्वेन कालतः कियचिरं भवति?, भगवानाह-गौतम ! सिद्धः सादिकोऽपर्यवसितः, तत्र सादिता संसारिवप्रमुक्तिसमये सिद्धत्वभावात्, अपर्यवसितता सिद्धत्वच्युतेरसम्भवात् ।। असिद्धविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम! असिद्धो द्विविधः प्रज्ञप्तस्तद्यथा-अनादिकोऽपर्यवसितः अनादिकः सपर्यवसितः, तत्रयो न जातुचिदपि सेत्स्यति अभव्यत्वात्तथाविधसामग्रयभावाद्वा सोऽनाद्यपर्यवसितः, यस्तु सिद्धिं गतः सोऽनादिसपर्यवसितः। ____साम्प्रतमन्तरं चिचिन्तयिषुराह-'सिद्धस्स गं भंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सिद्धस्य सादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात् हेतौ षष्ठी, ततोऽयमर्थः-यस्मात्सिद्धः सादिरपर्यवसितस्तस्मानास्त्यन्तरम्, अन्यथाऽपर्यवसितत्वायोगात्॥असिद्धसूत्रे असिद्धस्यानादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वादेवासिद्धत्वाप्रच्युतेः, अनादिकसपर्यवसितस्यापि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532