Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 504
________________ प्रतिपत्ति: सर्व०, प्रतिपत्तिः ५ ५०१ अल्पबहुत्वचिन्तायां सर्वस्तोका मनःप्रयवज्ञानिनश्चारित्रिणामेव केषाञ्चत्तिद्भावात् 'तं संजयस्स सव्वप्यमायरहियस्सविविधरिद्धिमतो' इति वचनात्, तेभ्योऽवधिज्ञानिनोऽसङ्ख्यातगुणाः, देवनारकाणामप्यवधिज्ञानभावात्, तेभ्य आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च द्वयेऽपि विशेषाधिकाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, आभिनिबोधिक श्रुतज्ञानयोः परस्प राविनाभावात्, तेभ्यः केवलज्ञानिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात्, तेभ्योऽज्ञानिनोनन्तगुणाः, वनस्पतिकायानां सिद्धेभ्योऽप्यनन्तत्वात् । 'अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण षड्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - एकेन्द्रिया द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया अनिन्द्रियाः । एतेषां कार्यस्थितिरन्तरमल्पबहुत्वं प्रागेव भावितम् ॥ यू. (३९०) अहवा छव्विहा सव्वजीवा पन्नत्ता तंजहा - ओरालियसरीरी वेउव्वियसरीरी आहारगसरीरी तेयगसरीरी कम्मगसरीरी असरीरी । ओरालियसरीरी णं भंते! कालओ केयचिरं होइ ?, जहन्नेणं खुड्डागं भवगहणं दुसमऊणं, उक्कोसेणं असंखिज्जं कालं जाव अंगुलस्स असंखेजतिभागं, वेउव्वियसरीरी जह० एक समयं उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमब्महियाई, आहारगसरीरी जह० अंतो० उ अंतो० तेयगसरीरी दुविहें - अनादीए वा अपज्जवसिए अनादीए वा सपज्जवसिते, एवं कम्मगसरीरीवि, असरीरी सातीए अपज्जवसिते । " अंतरं ओरालियसरीरस्स जह० एक्कं समयं उक्को० तेत्तीसं सागरोवमाई अंतोमुहुत्तमब्भहियाई, वेउव्वियसरीरस्स जह० अंतो० उक्को० अनंतं कालं वणस्सतिकालो, आहारगस्स सरीरस्स जह० अंतो० उक्को० अनंत कालं जाव अवडुं पोग्गलपरियट्टं देसूणं, तेय० कम्मसरीरस्स य दुहवि नत्थि अंतरं ॥ अप्पा बहु० सव्वत्थोवा आहारगसरीरी वेउव्वियसरीरी असंखेज्जगुणा ओरालियसरीरी असंखेज्जगुणा असरीरी अनंतगुणा तेयाकम्मसरीरी दोवि तुल्ला अनंतगुणा । सेत्तं छव्विहा सव्वजीवा पन्नत्ता ॥ बृ. ‘अहवे' त्यादि, ‘अथवा' प्रकारान्तरेण षड्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथा - औदारिकशरीरिणः वैक्रियशरीरिणः आहारकश०: तैजसश० कार्मणशरीरिणः अशरीरिणश्च । अमीषां कायस्थितिमाह- 'ओरालियसरीरीणं भंते' इत्यादि, औदारिकशरीरी जघन्यतः क्षुल्लकभवग्रहणं द्विसमयोनं, विग्रहे आद्यरोर्द्वयोः समययोः कार्मणशरीरित्वात्, उत्कर्षतोऽसङ्घयेयं कालं तावन्तं कालमविग्रहेणोत्पादसम्भवात् । वैक्रियशरीरी जघन्येनैकं समयं, विकुर्वणासमयानन्तरसमये एव कस्यापि मरणसम्भवात्, उत्कर्षतस्त्रिंयस्त्रशत्सागरोपमाणि अन्तर्मुहूर्त्ताभ्यदिकानि तानि चैवं कश्चिच्चारित्रवान् वैक्र यशरीरं कृत्वाऽन्तर्मुहूर्तं जीवित्वा स्थितिक्षयादविग्रहेणानुत्तरसुरेषूपजायते, आहारकशरीरी जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्षतोऽप्यन्तर्मुहूर्त्तं, तैजसशरीरी कार्मणशरीरी च प्रत्येकं द्विविधःअनाद्यपर्यवसितो यो न मुक्ति गन्ता, अनादिसपर्यवसितो मुक्तिगामी, अशरीरी साद्यपर्यवसितः अन्तरचिन्तायामौदारिकशरीरिणोऽन्तरं जघन्यत एकः समयः, स च द्विसामयिक्यामपान्तरालगतौ भावनीयः, प्रथमे समये कार्मणशरीरोपेतत्वात्, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, उत्कृष्टो वैक्रियकाल इति भावः, वैक्रियशरीरिणोऽन्तरं जघन्यतोऽन्तर्मुहूर्तं For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532