Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 501
________________ ४९८ जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/३/३८५ पुहुत्त'मित्यादि वचनात्, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनं, संयतासंयतो जघन्येनान्तर्मुहूर्त, संयतासंयतत्वप्रतिपत्तेः भगबहुलतया जघन्यतोऽप्येतावन्मात्रकालप्रमाणत्वात्, उत्कर्षतो देशोनापूर्वकोटी, वालकाले तदभावात्, त्रितयप्रतिषेधवर्ती सिद्धः, सच साद्यपर्यवसित एव।। ___अन्तरमाह-संजयस्स णमित्यादि, संयतस्य जघन्येनान्तरमन्तर्मुहूर्त, तावता कालेन पुनः कस्यापि संयतत्वलाभात्, उत्कर्षतोऽनन्तरं कालं, अनन्ता उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्ट्स पुद्गलपरावर्त देशोनम्, एतावतः कालादूर्द्ध पूर्वमवाप्तसंयमस्य नियमतः संयमलामात्, अनाद्यपर्यवसितस्यासंयतस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं, तस्य प्रतिपातासम्भवात्, सादिसपर्यवसितस्य जघन्यत एक समयं, स चैकसमयः प्राग्व्यावर्णितः संयतमसमयः, एवमुत्क्षतो देशोनापूर्वकोटी, असंयतत्वव्यवधायकस्य संयतकालस्य संयतासंयतकालस्य वा उत्कर्षतोऽप्येतावप्रमाणत्वात्, संयतासंयतस्य जघन्यतोऽन्तर्मुहूर्त, तद्भावपाते एतावता कालेन तल्लाभसिद्धेः, उत्कर्षतः संयतवत, त्रितयप्रतिषेधवर्तिनः सिद्धस्य साधपर्यवसितस्य नास्त्यन्तरं अपर्यवसिततया सदा तद्भावापरित्यागात्। अल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका जीवाः संयताः, सङ्ख्येयकोटीकोटीप्रमाणत्वात्, संयतासंयता असङ्ख्येयगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् । उपसंहारमाह-'सेत्त'मित्यादि । उक्ताश्चतुर्विधाः सर्वजीवाः, सम्प्रति पञ्चविधानाह तृतीया सर्वजीवाप्रतिपत्तिः समाप्ता -चतुर्थी सर्वजीवा प्रतिपत्तिः:मू. (१८६) तत्य जे ते एवमाहंसु पंचविधा सव्वजीवा पन्नत्ता ते एवमाहंसु, तंजहा-कोहकसायी मानकसायी मायाकसायी लोभकसायी अकसायी। कोहकसाई मानकसाई मायाकसाई णं जह० अंतो० उक्को० अंतोमु०, लोभकसाइस्स जह० एकंस० उक्को० अंतो०, अकसाईदुविहे जहा हेतु।।कोहकसाईमानकसाईमायाकसाईणं अंतरं जह० एको० स० उक्को० अंतो० लोहकसाइस्स अंतरं जह० अंतो० उक्को० अंतो०, अकसाई तहा जहा हेट्ठा । अप्पाबहु वृ. 'तत्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः पञ्चविधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तघया धकषायिणोमानकषायिणोमायाकषयिणो लोमकषायिणोऽकषायिणश्च। अमीषां कायस्थितिमाह-'कोहकसाईगंभंते' इत्यादि, क्रोधकषायी जघन्येनैकं संमयं, स चोपशमश्रेणेः प्रतिपतन् लोभकषायोदयप्रथमसमयानन्तरं मृतः प्रतिपत्तव्यो, मरणसमये कस्यापि क्रोधाधुदयसम्भवात्, क्रमेण प्रतिपतनं हि मरणाभावे न तु मरणेऽपीति, उत्कर्षतोऽन्तर्मुहूर्त, अकषायी द्विविधः-साद्यपर्यवसितः केवली, सादिसप्यवसित उपशान्तकषायः, स च जघन्येनैकं समयं द्वितीये समये मरणतः क्रोधाधुदयेन सकषायत्वप्राप्तेः, उत्कर्षतोऽन्तर्मुहूर्तमुपशान्त- मोहगुणस्थानककालस्यैतावत्प्रमाणत्वादित्येके, अन्ये . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532