Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
________________
४९०
जीवाजीवाभिगमउपागसूत्रम् सर्व०/२/३७६ संसारपरीत्तोऽपार्द्धपुद्गलपरावन्तिःसंसारः, तत्र कायपरीत्तविषयं प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, सचसाधारणेभ्यः परीत्तेष्वन्तर्मुहूर्तस्थित्वापुनः साधारणेषु गच्छतो वेदितव्यः, उत्कर्षतोऽसङ्ख्येयं कालं, असङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसत्येया लोकाः, तथा चाह-पृथिवीकालः, किमुक्तं भवति ?-पृथिव्यादिप्रत्येकशरीरकालः, तत ऊर्ध्वं नियमतः संसारिणः साधारणभावात्।।
संसारपरीत्तविषयं प्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तावता कालेनान्तकृत्केवलत्वेन सिद्धिगमनात्, उत्कर्षेणानन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतो देशोनमपार्द्धपुद्गलपरावर्त यावत्, ततऊर्द्धनियमतः सिद्धिगमनाद्, अन्यथा संसारपरीत्तत्वायोगात्। 'अपरीत्तेणंभंते!' इत्यादिप्रश्नसूत्रसुगमं, भगवानाह-गौतम! अपरीत्तो द्विविधःप्रज्ञप्तस्तद्यथा-कायापरीत्तः संसारापरीत्तश्च, कायापरीत्तः-साधारणः, संसारापरीत्तःकृष्ण-पाक्षिकः,तत्रकायापरीत्तविषयंप्रश्नसूत्रंसुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तत ऊर्ध्वं कस्यापि प्रत्येकशरीरेषु गमनात्, उत्कर्षतोऽनन्तं कालं, स च वनस्पतिकालः, अनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽनन्ता लोका असत्येयाः पुद्गलपरावर्ताः, ते च पुद्गलपरावर्ताआवलिकायाअसङ्ख्येयोभागः।संसारापरीत्तप्रश्नसूत्रप्रतीतं, भगवानाह-गौतम संसारापरीत्तो द्विविधः प्रज्ञप्तस्तद्यथा-अनादिकोऽपर्यवसितो, यो नजातुचिदपि सिद्धिं गन्ता, अनादिको वा सपर्यवसितो भव्यविशेषः । नोपरीतनोअपरीत्तविषयंप्रश्नसूत्रप्रतीतं, नोपरीत्तनोअपरीत्तो हि सिद्धः, स च साधपर्यवसित एव प्रतिपाताभावात् ।
साम्प्रतमन्तरमाह-कायापरीत्तस्स णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त, साधारणेष्वन्तर्मुहूर्त स्थित्वा भूयः प्रत्येकशरीरेष्वागमनात, उत्कर्षतोऽनन्तं कालं, सचानन्तः काल-प्रागुक्तस्वरूपो वनस्पतिकालः, तावन्तं कालं साधारणेष्ववस्थानात्।
संसारपरित्तविषयंप्रश्नसूत्रसुगम, भगवानाह-गौतम!नास्त्यन्तरं, संसारपरीतत्वापगमे पुनः संसारपरीतत्वाभावात्, मुक्तस्य प्रतिपातासम्भवात्। कायापरीत्तसूत्रेजघन्यतोऽन्तर्मुहूर्त, प्रत्येकशरीरेष्वन्तर्मुहूर्तस्थित्वा भूयः कायापरीत्तेषु कस्याप्यागमनसम्भवात, उत्कर्षतोऽसङ्खयेयं कालंयावद्, असङ्ख्येयाउत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसद्ध्येयालोकाः, पथिव्यादिप्रत्येकशरीरभवभ्रमणकालस्योत्कर्षतोऽप्येतावन्मात्रत्वात्, तथा चाह-पृथिवीकालः पृथिव्यादिप्रत्येकशरीरकाल इत्यर्थः । संसारापरीत्तसूत्रेऽनाद्यपर्यवसितदस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसपर्यवसितस्य नास्त्यन्तरं, संसारापरीतत्वापगमे पुनः संसारापरीतत्वस्यासम्भवात, नोपरीत्तनोअपरीत्तस्यापि साधपर्यवसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोकाः परीत्ताः, कायपरीत्तानांसंसारपरीत्तानांचाल्पत्वात्, नोपरीत्तानोअपरीत्ताअनन्तगुणाः सिद्धानामनन्तत्वात्, अपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणामतिप्रभूतत्वात्॥
मू.(३७७) अहवा तिविहा सव्वजीवा पं० तं०-पजत्तगा अपजत्तगा नोपजत्तगानो अपजत्तगा, पजत्तकेणं भंते!०, जह० अंतो० उको० सागरोवमसतपुहत्तं साइरेग। अपजत्तगे गंभंते !, जह० अंतो० उको० अंतो० नोपजत्तनोअपजत्तए सातीए अपज्जवसिते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532