Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 472
________________ प्रतिपत्तिः-६, उक्को० तिन्त्रिपलिओवमाइं पुवकोडिपुहुत्तमभहियाई। एवं मणुस्सस्स मणुस्सीएवि।नेरइयस्स अंतरं जह० अंतोमुं० उक्कोसेणं वणस्सतिकालो । एवं सव्वाणं तिरिक्खजोणियवजाणं, तिरिक्खजोणियाणं जहण्णेणं अंतोमु० उको० सागरोवमसतपुहुत्तं सातिरेगं। __अप्पाबहुयं-सव्वत्थोवाओ मणुस्सीओ मणुस्सा असंखेजगुणा नेरइया असंखेजगुणा तिरिक्खजोणिणीओ असंखेजगुणाओ देवाअसंखेजगुणा देवीओ संखेजगुणाओतिरिक्खजोणिया अनंतगुणा । सेतं सत्तविहा संसारसमावन्नगा जीवा ।। वृ. 'तत्ये'त्यादि, तत्र ये ते एवमुक्तवन्तः सप्तविधाः संसारसमापना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिकास्तिर्यग्योनिक्यः मनुष्या मानुष्यः देवा देव्यः ॥ तत्रामीषां सप्तानामपि क्रमेण स्थितमाह-'नेइरयस्स णं भंते !' इत्यादि सप्तसूत्री, नैरयिकस्य जघन्येन दशवर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि।तिर्यग्योनिकस्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि । एवं तिर्यग्योनिकीमनुष्यमानुषीसूत्राण्यपि वक्तव्यानि । देवसूत्रं नैरयिकवत् । देवीसूत्रे जघन्येन दश वर्षसहस्राणि, उत्कर्षतः पञ्चपञ्चाशत् पल्योपमानि, ईशानदेवीनामपरिगृहीतानामुत्कर्षत एतावस्थितिकत्वात्। सम्प्रति कायस्थिति-यह-'नेरइयाणभंते!' इत्यादि, नैरयिकाणां यदेव भवस्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, नैरयिकस्य मृत्वा भूयोऽनन्तरं नैरयिकेषूत्पादाभावात् । तिर्यग्योनिकसूत्रे जघन्यतोऽन्तर्मुहूर्त, तदनन्तरमन्यत्रोत्पादात्, उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसपिण्यः कालतः क्षेत्रतोऽसङ्ख्येया लोकाःअसङ्खयेयाः पुद्गलपरावत्ताः,तेपुद्गलपरावर्ता आवलिकाया असङ्खयेयो भागः, अस्य भावार्थव्याख्या प्रागिव । तिर्यग्योनिकीसूत्रे जघन्यतोऽन्तर्मुहूर्त तत ऊर्ध्वं मृत्वाऽन्यत्रोत्पादात्, उत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानि, तानि निरन्तरंसप्तसुपूर्वकोटयायुष्केषुभवेष्वष्टमेच भवे देवकुर्वादिषूत्पन्नाया द्रष्टव्यानि । एवमेव मनुष्यसूत्रं मानुषीसूत्रं च, देवस्य देव्याश्च यैव भवस्थिति सैव कायस्थिति, देवस्य देव्याश्च मृत्वाऽनन्तरं तद्भावनोत्पादाभावात् । साम्प्रतमेषामन्तरं चिचिन्तयिषुराह-'नेरइयस्स णं भंते !' इत्यादि, नैरयिकस्य जघन्येनान्तरमन्तर्मुहूर्त, तच्च नरकादुद्ध तस्य तिर्यग्मनुष्यगर्भ एवाशुभाध्यवसायेन मरणतः परिभावनीयं, सानुबन्धकर्मफलमेतदिति तात्पर्यार्थः, उत्कर्षतोऽनन्तं कालं, सचानन्तः कालो वनस्पतिकालः, नरकादुद्धृत्तस्य पारम्पर्येणानन्तं कालं वनस्पतिष्ववस्थानात, तिर्यग्योनिकस्य जघन्येनान्तरमन्तमुहूर्त, तच्च तिर्यग्योनिकभवादुद्ध त्यान्त्रान्तर्मुहूर्त्तस्थित्वा भूयस्तिर्यग्योनित्वेनोत्पद्यमानस्य वेदितव्यम्, उत्कर्षतः सागरोपमशतपृथकत्वंसातिरेकम्। तिर्यग्योनिकीसूत्रे मनुष्यसूत्रे मानुषीसूत्रे देवीसूत्रे च जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः । सम्प्रत्येतेषामेव सप्तानां पदानामल्पबहुत्वमाह-एएसि म'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-सर्वस्तोको मानुष्यः, कतिपयकोटीकोटीप्रमाणत्वात्, ताभ्यो मनुष्याअसञ्जयेयगुणाः, संमूर्छिमनुष्याणां श्रेण्यसङ्खयेयप्रदेशराशिप्रमाणत्वात्, तेभ्यस्तिर्यग्योनिकाः स्त्रीयोऽसङ्ख्येयगुणाः, प्रतरासङ्खयेयभागवर्तिश्रेण्याकाशप्रदेशराशिप्रमाणत्वात्, ताभ्यो देवाः सङ्घयेयगुणाः, वानमन्तर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532