Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 476
________________ प्रतिपत्तिः - ७, वनस्पतिजीवानामनन्तत्वात् । साम्प्रतमेषामेव नैरयिकादीनां प्रथमाप्रथमसमयानां समुदायेन परस्परमल्पबहुत्वमाह'एएसिण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोकाः प्रथमसमयमनुष्याः, एकस्मिन् समये सङ्क्रयातीतानामपि स्तोकानामेवोत्पादात्, तेभ्योऽप्रथमसमयमनुष्या असङ्घयेयगुणाः, चिरकालावस्थायितयाऽतिप्राभूत्येन लभ्यमानत्वात्, तेभ्यः प्रथमसमयनैरयिका असङ्घयेयगुणाः, अतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यः प्रथमसमयदेवा असङ्घयेयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादात् तेभ्यः प्रथमसमयतिर्यग्योनिका असङ्घयेयगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवात्, तेभ्योऽप्रथमसमयनैरयिका असङ्घयेय गुणाः, अङ्गुलमात्र क्षेत्र प्रदेशराशेः प्रथमवर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्ता वटप्रमाणत्वात्, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् । उपसंहारमाह-प्रतिपतिः - ७ - समाप्ताः 'सेत्त' मित्यादि ॥ ४७३ प्रतिपत्तिः-८ "नवविधा" वृ. तदेवमुक्ताऽष्टविधप्रतिपत्तिरधुना क्रमप्राप्ता नवविधप्रतिपत्तिमाह मू. (३६७) तत्थ णंजे ते एवमाहंसु नवविधा संसारसमावण्णगा ते एवमाहंसु-पुढविक्काइया आउकाइया उक्काइया वाउक्काइया वणस्सइकाइया बेइंदिया तेइंदिया चउरिदिया पंचेदिया ।। ठिती सव्वेसिं भा०पुढविक्वाइयाणं संचिठ्ठणा पुढविकालो जाव वाउक्काइयाणं, वणस्सईणं वणस्सतिकालो, बेइंदिया तेइंदिया चउरिदिया संखेजं कालं, पंचेदियाणं सागरोवमसहस्सं सातिरेगं ॥ अंतरं सव्वेसिं अनतं कालं, वणस्सतिकाइयाणं असंखेज्रं कालं । अप्पाबहुगं, सव्वत्थोवा पंचिंदिया चउरिंदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया उक्काइया असंखे० पुढविका० आउ० वाउ० विसेसाहिया वणस्सतिकाइया अनतगुणा । सेत्तं णवविधा संसारसमावण्णगा जीवा पन्नत्ता ॥ बृ. 'तत्थे' त्यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- पृथिवीकायिका अप्कायिकास्तेजस्कायिका वायुकायिका वनस्पिकायिका द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, अमीषां शब्दार्थभावना प्राग्वत् ॥ साम्प्रतमेतेषां स्थितिनिरूपणार्थं सूत्रनवकमाह- 'पुढविक्काइयस्स णं भंते!' इत्यादि, एष सङक्षेपार्थ- सर्वत्रापि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि, अप्कायिकस्य सप्तवर्षसहस्राणि तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि, वायुकायिकस्य त्रीणि वर्षसहस्राणि, वनस्पतिकायिकस्य दशवर्षसहस्राणि द्वीन्द्रियस्य द्वादश संवत्सराणि त्रीन्द्रियस्यैकोनपञ्चाशद् रात्रिंदिवानि, चतुरिन्द्रियस्य षण्मासाः, पञ्चेन्द्रियस्य त्रयस्त्रिंशत्सागरोपमाणि । सम्प्रति कार्यस्थितिप्रतिपादनार्थं सूत्रनवकमाह- 'पुढविक्काइए णं भंते!' इत्यादि, सर्वत्र जघन्येनान्तर्मुहूर्तमुत्कर्षतः पृथिवीकायस्यासत्येयं कालमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्घयेया लोकाः, एवमप्तेजोवायुकायिकानामपि द्रष्टव्यं, नवस्पतिकायिकस्यानन्तं कालम Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532