Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 477
________________ ४७४ जीवाजीवाभिगमउपागसूत्रम् ८/-३६७ नन्ताउत्सर्पिण्यवसर्पिण्यःकालतः क्षेत्रतोऽनन्तालोकाःअसद्ध्येयाः पुद्गलपरावर्ताःआवलिकाया असङ्खयेयो भागः, द्वीन्द्रियस्य सङ्ख्येयंकालं, एवं त्रीन्द्रियस्य चतुरिन्द्रियस्य पञ्चेन्द्रियस्य च सागरोपमसहस्रं सातिरेकम्। साम्प्रतमन्तरप्रतिपादनार्थमाह-'पुढविक्काइयस्सण'मित्यादि,पृथ्वीकायिकस्य भदन्त! अनन्तरं कालतः कियचिरं भवत?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तम्, अन्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकत्वेन कस्याप्युत्पादात्, उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोकाः असङ्ख्येयाः पुद्गलपरावर्तीः, ते च पुद्गलपरावर्ता आवलिकायाअसङ्ख्येयो भागः, पृथिवीकायादुद्ध त्य वनस्पतिष्वेतावन्तं कालं कस्याप्यवस्थानसम्भवात्, एवमप्तेजोवायुद्वित्रिचतुष्पञ्चेन्द्रियाणामपि वक्तव्यं, वनस्पतिकायिकस्य जघन्यतोऽन्तर्मुहूर्त, तद्भावना प्रागिव, उत्कर्षतोऽसङ्खयेयंकालमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्ररतोऽसङ्खयेया लोकाः, शेषकायेषूत्कर्षतोऽप्येतावन्तं कालमवस्थानसम्भवात्। साम्प्रतमेतेषामल्पबहुत्वमाह-एएसिण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम सर्वस्तोकाः पञ्चेन्द्रियाः सङ्खयेययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमित प्रतरासङ्खयेयभागवर्त्यसङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्मसूच्यास्तेषां प्रभूतसङ्खयेययोजनकोटीकोटीप्रमाणत्वात्,तेभ्योऽपित्रीन्द्रिया विशेषाधिकाः,तेषां विष्कम्भसूच्याःप्रभूततरसहखयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्यो द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततमसङ्खयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्यस्तेजस्कायिका असङ्घयेयगुणाः, असङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात, तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योऽष्कायिका विशेषाधिकाः, प्रभूततरासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासङ्ख्येयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशप्रमाणत्वात् उपसंहारमाह-'सेत्त'मित्यादि सुगमम्॥ प्रतिपत्तिः-८ समाप्ता प्रतिपत्तिः-९ "दसविधा") वृ. उक्ता नवविधप्रतिपत्ति, सम्प्रति क्रमप्राप्तां दशविधप्रतिपत्तिं प्रतिपादयति मू. (३६८) तत्थ णं जे ते एवमाहंसु दसविधा संसारसमावन्नगा जीवा ते एवमासु तंजहा-पढमसमयएगिदिया अपढमसमयएगिंदिया पढमसमयबेइंदिया अपढमसमयबेइंदिया जाव पढमसमयपंचिंदिया अपढमसमयपंचिंदिया, पढमसमयएगिदियस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता?। गोयमा! जहन्नेणं एवं समयं उक्को० एक, अपढमसमयएगिदियस्स जहन्नेणं खुड्डागं भवग्गहणं समऊणं उक्को० बावीसं वाससहस्साई समऊणाई, एवं सव्वेसिं पढमसमयिकाणं जहण्णेणं एक्को समओ उक्कोसेणं एको समओ, अपढम० जहन्नेणं खुड्डागं भवग्गहणं समऊणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532