Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 466
________________ ४६३ प्रतिपत्तिः-५, पर्याप्ताविशेषाधिकाः, बादरतेजस्कायिकादीनामपिपर्याप्तानां तत्रप्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ता असङ्खयेयगुणाः, बादरनिगोदपयप्तिभ्यः सूक्ष्मनिगोदपर्याप्तानामसङ्घयेयगुणत्वात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, सूक्ष्मतेजस्कायिकादीनामपि पर्याप्तानांतत्र प्रक्षेपात्। गतं तृतीयमल्पबहुत्वमिदानीमेतेषामेव सूक्ष्मबादरादीनां प्रत्येकं पर्याप्तापर्याप्तानां पृथक पृथगल्पबहुत्वमाह-'एएसि णं भंते ! सुहुमाणं बायराण य पज्जत्तापज्जत्ताण मित्यादि, सर्वत्रेयं भावना-सर्वस्तोका बादराः पर्याप्ताः परिमितक्षेत्रवर्त्तित्वात, तेभ्योबादराअपर्याप्ता असङ्खयेयगुणाः, एकैकबादरपर्याप्तनिश्रयऽसङ्ख्येयानां बादरापर्याप्तानामुत्पादात्, तेभ्यः सूक्ष्मापर्याप्ताअसङ्खयेयगुणाः, सर्वलोकापन्नतया तेषां क्षेत्रस्यासङ्ख्येयगुणात्वात्, तेभ्यः सूक्ष्मपर्याप्तकाः सङ्ख्येयगुणाः, चिरकालावस्थायितया तेषां सदैव सङ्खयेयगुणतयाप्राप्यमानत्वात्, सर्वसङ्ख्यया चात्रसप्त सूत्राणि, तद्यथा-प्रथमंसामान्यतः सूक्ष्मबादरपर्याप्तापर्याप्त-विषयंद्वितीयं सूक्ष्मबादर-पृथिवीकायिकपयप्तिापर्याप्तविषय, तृतीयं सूक्ष्मबादराप्कायिकपर्याप्ता-पर्याप्तविषयं, चतुर्थसूक्ष्मबादरतेजस्कायिकप पञ्चमं सूक्ष्मबादरवायुकायिक-प० षष्ठं सूक्ष्मबादरवनस्पुतिकायिकपर्याप्ताप०सप्तमं सूक्ष्मबादरनिगोदपर्याप्यापर्याप्तविषयमि। गतंचतुर्थमल्पबहुत्वमिदानीमेतेषामेव सूक्ष्मपृथिवीकायिकादीनां प्रत्येकंपर्याप्तापर्याप्तानां समुदायेन पञ्चममल्पबहुत्वमाह-एएसिणंभंते! सुहुमाणंसुहमपुढविक्कइयाण'मित्यादि, सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः,आवलिकासमयवर्गकतिपयसमयन्यनैरावलिकासमयैर्गुणितेयावान् समयराशिस्तावप्रमाणत्वात्तेषां, तेभ्यो बादरत्रसकायिकाः पर्यापता असङ्ख्येयगुणाः, प्रतरे यावन्त्यमुलासङ्ख्येयभागमात्राणिखण्डानि तावप्रमाणत्वात्तेषां, तेभ्यो बादरवसकायिका अपर्याप्ता असङ्घयेयगुणाः, प्रतेरयावन्त्यङ्गुलासङ्घयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषां, ततः प्रत्येकशरीरबादरवनस्पतिकायिकबादरनिगोदवादरपृथिवीकायिकबादराप्कायिकबादरवायुकायिकाः पर्याप्ता यथोत्तरमसङ्घयेयगुणाः, यद्यप्येते प्रत्येकंप्रतर यावन्त्यमुलासङ्खयेयभागमात्राणि खण्डानि तावठामाणास्तथाऽप्यङ्गुलासङ्घयेयभागस्यासङ्घयेयभेदभिन्नत्वादित्थं यथोत्तरमसङ्घयेयगुणत्वमभिधीयमानं यन विरुध्यते, तेभ्यो बादरतेजस्कायिका अपर्याप्तका असङ्खयेयगुणाः, असङ्घयेयलोकाकाशप्रदेशप्रमाणत्वात् । ततः प्रत्येकशरीरबादरवनस्पतिकायिकबादरनिगोदबादरपृथिवीकायिकबादराकायिकबादरवायुकायिका अपर्याप्ता यथोत्तरमसद्धयेयगुणाः, ततो बादरवायुकायिकेभ्योऽपर्याप्तकेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असद्धयेयगुणाः, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माकायिकसूक्ष्मवायुकायिका अपर्याप्ता यथोत्तरंविशेषाधिकाः, ततः सूक्ष्मतेजस्कायिकाः पर्याप्ताः सङ्ख्येयगुणाः, सूक्ष्भेष्वपर्याप्तेभ्यः पर्याप्तानामोघतः सङ्खयेयगुणत्वात्, ततः सूक्ष्मपृथिवीकायिकसूक्ष्माप्कायिकसूक्ष्मवायकायिकाः पर्याप्ता यथोत्तरंविशेषाधिकाः, तेभ्यः सूक्ष्मनिगोदाअपर्याप्तका असङ्खयेयगुणाः, तेषामतिप्राभूत्येन सर्वलोकेषु भावात्, तेभ्यः सूक्ष्मनिगोदा असङ्घयेयगुणाः, सूक्ष्मेष्वपर्याप्तानांसदैवोघतः सद्ध्येयगुणत्वात्, एतेचबादरपर्याप्ततेजस्कायिकादयः पर्याप्तानिगोदपर्यवसानाः षोडश पदार्था यद्यप्यन्यत्राविशेषेणासङ्खयेयलोकाकाशप्रदेशप्रमाणतया संगीयन्ये तथाऽप्यसङ्ख्यातस्यासङ्ख्यातभेदभिन्नत्वादित्थमसङ्घयेयगुणत्वं विशेषाधिकत्वं सङ्खयेयगुणत्वंच Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532