Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 455
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-/ ३४८ तावन्तमनन्तकालमित्यर्थः, तमेव पुद्गलपरावर्त्तेन निरूपयति- असङ्घयेयाः पुद्गलपरावर्त्ताः, पुद्गलपरावर्त्तस्वरूपं पञ्चसङ्ग्रहटीकातो भावनीयं, पुद्गलपरावर्त्तगतमेवासङ्घयेयत्वं निर्द्धारयति'ते ण' मित्यादि, ते पुद्गलपरावर्त्ता आवलिकाया असङ्घयेयो भागः, आवलिकाया असङ्ख्येये भागे यावन्तः समयास्तावन्त इत्यर्थः, अयं चार्थोऽन्यत्रापिसङ्क्षेपेणोक्तः"अस्संखोसप्पिणीसप्पिणीउ एगिंदियाण य चउण्हं । ॥१॥ ४५२ ता चेव ऊ अनंता वणस्सईए उ बोद्धव्वा ॥" सकायसूत्रे द्वे सागरोपमसहस्र सङ्घयेयवर्षाभ्यधिके, एतावत एवाव्यवधानेन त्रसकायत्वकालस्य केवलवेदसोपलब्धत्वात् । अपर्याप्तविषयायां षट्सूत्र्यां सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्तम्, अपर्याप्तलब्धेरुत्कर्षतोऽप्येतावत्कालप्रमाणत्वात । वाससहस्सा संखा पुढविदगानिलतरूण पजत्ता । तेऊ राइदिसंखा तससागरसतपुहुत्ताई ॥ मू. (३४९) वृ. पृथिवीकायिकपर्याप्तसूत्रे उत्कर्षतः सङ्घयेयानि वर्षसहस्राणि, पृथिवीकायिकस्य हि भवस्थितिरुत्कर्षतोऽपि वक्तव्यं, तेजस्कायिकसूत्रे सङ्घयेयानि रात्रिन्दिवानि, तेजस्कायिकस्य हि भवस्थितिरुत्कर्षतोऽपि त्रीणि रात्रिन्दिवानि, ततो निरन्तरकतिपयर्याप्तभवसङ्कलनायामपि सङ्घयेयानि रात्रिन्दिवानि लभ्यन्ते न सुमासा वर्षाणि वर्षसहस्राणि वा । वायुकायिकसूत्रं वनस्पतिकायिकसूत्रं पृथिवीकायिकसूत्रवत् । त्रसकायसूत्रे सागरोपमशतपृथक्त्वं सातिरेकम् । मू. (३५०) पज्जत्तगाणवि सव्वेसिं एवं ।। पुढविकाइयस्स णं भंते! केवतियं कालं अंतरं होति ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं वणप्फतिकालो। एवं आउतेउवाउकाइयाणं वणस्सइकालो, तसकाइयाणवि, वणस्सइकाइयस्स पुढविकाइयकालो । एवं अपजत्तगाणवि वमस्सइकालो, वणरसईणं पुढविकालो, पञ्जत्तगाणवि एवं चेव वणस्सइकाली, पज्जत्तवणस्सईणं पुढविकालो ॥ बृ. सम्प्रत्यन्तरनिरूपणार्थमाह- 'पुढविकाइयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्तं पृथिवीकायादृद्धृत्यान्यत्रान्तर्मुहूरत्तं स्थित्वा भूयः पृथिवीकायिकत्वेन कस्यचिदुत्पादात्, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः प्रागुक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः, पृथिवीकायादुद्ध त्य तावन्तं कालं वनस्पतिष्वस्थानसम्भात् । एवतेजोवायुत्रससूत्राण्यपि भावनीयानि । वनस्पतिसूत्रे उत्कर्षतोऽसङ्घयेयं कालम् 'असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेज्जा लोगा' इति वक्तव्यं, वनस्पतिकायादुद्धृत्य पृथिव्यादिष्ववस्थानात् तेषु च सर्वेष्वप्युत्कर्षतोऽप्येतावत्कालभावात् ।। सम्प्रत्यल्पबहुत्वमाह मू. (३५१) अप्पाबहुयं - सव्वत्थोवा तसकाइया तेउक्काइया असंखेज्जगुणा पुढविकाइया विसेसाहिया आउकाइया विसेसाहिया वाउक्काइया विसेसाहिया वमस्सतिकाइया अनंतगुणा एवं अपजत्तगावि पजत्तगावि । एतेसि णं भंते! पुढविकाइयाणं पजत्तगाण अपजत्तगाण य कयरे २ हिंतो अप्पा वा एवं जाव विसेसाहिया ?, गोयमा ! सव्वत्थोवा पुढविकाइया अपजत्तगा पुढविकाइया पजत्तगा संखेजगुणा, एतेसिणं० सव्वत्थोवा आउकाइया अपजत्तगा संखेज्जगुणा जाव वणरसतिकाइयावि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532