________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-/ ३४८
तावन्तमनन्तकालमित्यर्थः, तमेव पुद्गलपरावर्त्तेन निरूपयति- असङ्घयेयाः पुद्गलपरावर्त्ताः, पुद्गलपरावर्त्तस्वरूपं पञ्चसङ्ग्रहटीकातो भावनीयं, पुद्गलपरावर्त्तगतमेवासङ्घयेयत्वं निर्द्धारयति'ते ण' मित्यादि, ते पुद्गलपरावर्त्ता आवलिकाया असङ्घयेयो भागः, आवलिकाया असङ्ख्येये भागे यावन्तः समयास्तावन्त इत्यर्थः, अयं चार्थोऽन्यत्रापिसङ्क्षेपेणोक्तः"अस्संखोसप्पिणीसप्पिणीउ एगिंदियाण य चउण्हं ।
॥१॥
४५२
ता चेव ऊ अनंता वणस्सईए उ बोद्धव्वा ॥"
सकायसूत्रे द्वे सागरोपमसहस्र सङ्घयेयवर्षाभ्यधिके, एतावत एवाव्यवधानेन त्रसकायत्वकालस्य केवलवेदसोपलब्धत्वात् । अपर्याप्तविषयायां षट्सूत्र्यां सर्वत्रापि जघन्यत उत्कर्षतश्चान्तर्मुहूर्तम्, अपर्याप्तलब्धेरुत्कर्षतोऽप्येतावत्कालप्रमाणत्वात । वाससहस्सा संखा पुढविदगानिलतरूण पजत्ता । तेऊ राइदिसंखा तससागरसतपुहुत्ताई ॥
मू. (३४९)
वृ. पृथिवीकायिकपर्याप्तसूत्रे उत्कर्षतः सङ्घयेयानि वर्षसहस्राणि, पृथिवीकायिकस्य हि भवस्थितिरुत्कर्षतोऽपि वक्तव्यं, तेजस्कायिकसूत्रे सङ्घयेयानि रात्रिन्दिवानि, तेजस्कायिकस्य हि भवस्थितिरुत्कर्षतोऽपि त्रीणि रात्रिन्दिवानि, ततो निरन्तरकतिपयर्याप्तभवसङ्कलनायामपि सङ्घयेयानि रात्रिन्दिवानि लभ्यन्ते न सुमासा वर्षाणि वर्षसहस्राणि वा । वायुकायिकसूत्रं वनस्पतिकायिकसूत्रं पृथिवीकायिकसूत्रवत् । त्रसकायसूत्रे सागरोपमशतपृथक्त्वं सातिरेकम् ।
मू. (३५०) पज्जत्तगाणवि सव्वेसिं एवं ।। पुढविकाइयस्स णं भंते! केवतियं कालं अंतरं होति ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं वणप्फतिकालो। एवं आउतेउवाउकाइयाणं वणस्सइकालो, तसकाइयाणवि, वणस्सइकाइयस्स पुढविकाइयकालो । एवं अपजत्तगाणवि वमस्सइकालो, वणरसईणं पुढविकालो, पञ्जत्तगाणवि एवं चेव वणस्सइकाली, पज्जत्तवणस्सईणं पुढविकालो ॥
बृ. सम्प्रत्यन्तरनिरूपणार्थमाह- 'पुढविकाइयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्तं पृथिवीकायादृद्धृत्यान्यत्रान्तर्मुहूरत्तं स्थित्वा भूयः पृथिवीकायिकत्वेन कस्यचिदुत्पादात्, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालः प्रागुक्तस्वरूपो वनस्पतिकालः प्रतिपत्तव्यः, पृथिवीकायादुद्ध त्य तावन्तं कालं वनस्पतिष्वस्थानसम्भात् । एवतेजोवायुत्रससूत्राण्यपि भावनीयानि । वनस्पतिसूत्रे उत्कर्षतोऽसङ्घयेयं कालम् 'असंखेज्जाओ उस्सप्पिणीओसप्पिणीओ कालतो खेत्ततो असंखेज्जा लोगा' इति वक्तव्यं, वनस्पतिकायादुद्धृत्य पृथिव्यादिष्ववस्थानात् तेषु च सर्वेष्वप्युत्कर्षतोऽप्येतावत्कालभावात् ।। सम्प्रत्यल्पबहुत्वमाह
मू. (३५१) अप्पाबहुयं - सव्वत्थोवा तसकाइया तेउक्काइया असंखेज्जगुणा पुढविकाइया विसेसाहिया आउकाइया विसेसाहिया वाउक्काइया विसेसाहिया वमस्सतिकाइया अनंतगुणा एवं अपजत्तगावि पजत्तगावि ।
एतेसि णं भंते! पुढविकाइयाणं पजत्तगाण अपजत्तगाण य कयरे २ हिंतो अप्पा वा एवं जाव विसेसाहिया ?, गोयमा ! सव्वत्थोवा पुढविकाइया अपजत्तगा पुढविकाइया पजत्तगा संखेजगुणा, एतेसिणं० सव्वत्थोवा आउकाइया अपजत्तगा संखेज्जगुणा जाव वणरसतिकाइयावि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org