________________
प्रतिपत्तिः
- ५,
४५१
से किं तं पुढवि० ?, पुढवी० दुविहा पन्नत्ता तं०- सुहुमपुढविक्काइया बादरपुढविकाइया, सुहुमपुढविकाइया दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगा य। एवं बायरपुढविकाइयावि, एवं चउक्कएणं भेएणं आउतेउवाउवमस्सतिकाइयाणं चतु० नेयव्वा ।
से किं तं तसकाइया ?, २ दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगा य ।। बृ. 'तत्थ ण 'मित्यादि, तत्र ये ते एवमुक्तवन्तः षड्विघाः संसारसमापन्नका जीवास्ते ' एवं ' वक्ष्यमाणप्रकारेणोक्तवन्तः, तमेव प्रकारमाह, तद्यथा - पृथ्वी कायिका इत्यादि प्राग् व्याख्यातं 'से किं तं पुढविक्काइया' इत्यादीनि पृथिव्यप्तेजोवायुवनस्पतिविषयाणि त्रीणि सकायविषयमेकमिति सर्वसङ्ख्या षोडश सूत्राणि पाठसिद्धानि ।
मू. (३४७) पुढविकाइयस्स णं भंते! केवतियं कालं ठिती पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई, एवं सव्वेसिं ठिती नेयव्वा ।
तसकाइयस्स जहन्त्रेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई, अपजत्तगाणं सव्वेसिं जहत्रेणवि उक्कोसेणवि अंतोमुहुत्तं, पज्जत्तगाणं सव्वेसिं उक्कोसेसया ठिती अंतोमुहुत्तऊणा कायव्या
बृ. 'पुढविकाइयस्स णं भंते!' इत्यादि स्थितिविषयं सूत्रषट्कं सुप्रतीतं, तत्र जघन्यं सर्वत्राप्यन्तर्मुहूर्त्तमुत्कर्षतः पृथिवीकायिकत्स्यं द्वाविंशतिर्वर्षसहस्राणि अकायिकस्य सप्त तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि वातकायस्य त्रीणि वर्षसहस्राणि वनस्पतिकायस्य दशवर्षसहस्राणि त्रसकायस्य त्रयस्त्रिंशत्सागरोपमाणि । अपर्याप्तविषयाण्यपि षट् सूत्राणि पाठसिद्धानि, सर्वत्र जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्ताभिधानात्, नवरमुत्कृष्टमन्तर्मुहूर्त बृहत्तरं वेदितव्यं पर्याप्तविषया षट्सूत्री पाठसिद्धा, नवरमन्तर्मुहूर्तानत्वं अपर्याप्तकालभाविनाऽऽन्तर्मुहूर्तेन हीनत्वात्
मू. (३४८) पुढविकाइए णं भंते! पुढविकाइयत्तिकालती केवचिरं होइ ?, गोयमा ! जहनेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं जाव असंखेज्जा लोया । एवं जाब आउ० तेउ० वाउक्काइयाणं वणस्सइकाइयाणं अनंतं कालं जाव आवलियाए असंखेज्जा लोया । एवं जाव आउ० तेउ वाउक्काइयाणं वणस्सइकाइयाणं अनंतं कालं जाव आवलियाए असंखेज्जतिभागो ।। तसकाइए णं भंते! ० जहन्त्रेणं अंतोमु० उक्कोस्सेणं दो सागरोवमसहस्साइं संखेजवासमब्भहियाई अपजत्तगाणं छण्हवि जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, पचत्तगाणं
वृ. सम्प्रति कायस्थितिमाह - 'पुढविक्कइए णं भंते! पुढविकाइय'त्ति इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! जघन्येनान्तर्मुहूर्त, पृथ्वीकायादुद्ध त्यान्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायत्वेन कस्याप्युत्पादात्, उत्कर्षतोऽसङ्घयेयं कालं, तमेव कालक्षेत्राभ्यां निरूपयतिअसङ्घयेया उतसर्पिम्यवसर्पिण्यः, एषा कालतो मार्गणा, क्षेत्रतोऽसङ्घयेया लोकाः किमुक्तं भवति ? - असङ्घयेयेषु लोकप्रमाणेष्वाकाशखण्डेषु प्रतिसमय मेकैकप्रदेशापहारे यावता कालेन तान्यसङ्घयेयान्यपि लोकाकाशखण्डानि निर्लेपितानि भवन्ति तावन्तमसङ्ख्येयं कालं यावदिति । एवमप्तेजोवायुसूत्राण्यपि वक्तव्यानि ।
वनस्पतिसूत्रे जघन्यं तथैव, उत्कर्षतोऽनन्तं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-अनन्ता उत्सर्पिण्यवसर्पिण्यः, कालत एषामार्गणा, क्षेत्रतोऽनन्ता लोकाः - अनन्तानन्तेषु लोकालोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे यावता कालेन तान्यपि लोकालोकाकाशखण्डानि निर्लेपानि भवन्ति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International