Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami, 
Publisher: Bherulal Kanhiyalal Kothari Religious Trust

View full book text
Previous | Next

Page 13
________________ भावश्यकहारिभद्रीया पममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयं, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसपिण्यपि द्रष्टव्या, 'परावर्तः' पुद्गलपरावर्तः, स चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवेप्यन्निति गाथाथेः॥ १९८॥ उक्तः काललोका, लोकयोजना पूर्ववद । अधुना भावलोकमभिधित्सराहणेरइअदेवमणुआ तिरिक्खजोणीगया य जे सत्ता । तंमि भवे वहता भवलोगं तं विआणाहि॥१९९॥ (भा०) व्याख्या-नारकदेवमनुष्यास्तथा तियग्योनिगताश्च ये 'सत्त्वाः' प्राणिनः 'तमित्ति तस्मिन् भवे वर्तमाना यदनभा. वमनुभवन्ति भवलोकं तं विजानीहि, लोक योजना पूर्ववदिति गाथार्थः ॥ १९९ ॥ साम्प्रतं भावल [म्प्रतं भावलोकमुपदर्शयतिओदइए १ ओवसमिए २ खइए अ ३ तहा खओवसमिए अ४। परिणामि ५ सन्निवाए अ६ छविहो भावलोगो उ ॥ २०० ॥ (भाष्यम् ) व्याख्या-उदयेन निवृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निवृत्त औपशमिकः, क्षयेण निवृत्तः क्षायिकः, एवं शेपेष्वपि वाच्यं, ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च, एवं षड्विधो भावलोकस्तु, तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति,उक्तं च-“ओदइअखओवसमे परिणामेक्केको (क) गइचउकेऽवि । खयजोगेणवि चउरो तदभावे उवसमेणंपि ॥१॥ उवसमसेढी एको केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसशिवाइयभेया एमेव पण्णरस ॥२॥"त्ति गाथार्थः ॥ २०॥ 1 भादगिका क्षायोपशमिकः पारिणामिक एकैको गति चतुष्केऽपि । क्षययोगेनापि चत्वारः तदभावे उपशमेनापि ॥ १॥ उपशमश्रेणावेकः केवलिनोऽपि च तथै, सिद्धस्य । अविरुद्ध सान्निपातिकभेदा एवमेव पञ्चदश ॥ २ ॥ तिव्यो रागो अदोसो अ, उइन्ना जस्स जंतुणो । जाणा हि भावलोअं, अणंतजिणदेसिअंसम्म ॥२०१॥ (भा०) __ व्याख्या-'तीव्र' उत्कटः रागश्च द्वेषश्च, तत्राभिध्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेप इति, एतावुदीणों 'यस्य जन्तोः' यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाजानीहि भावलोकमनन्तजिनदेशितम्-एकवाक्यतया:नन्तजिनकथितं 'सम्यग्' इति क्रियाविशेषणम् , अयं गाथार्थः ॥ २०१॥ द्वारं, साम्प्रतं पर्यायलोक उच्यते, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह वगुण १ खित्तपजव २ भवाणुभावे अभावपरिणामे ४।जाण चउव्विहमेअं, पजवलोगं समासेणं २०२ (भा०) ___ व्याख्या-द्रव्यस्य गुणाः-रूपादयः, तथा क्षेत्रस्य पर्यायाः-अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः-तीव्रतमदुःखादिः, यथोक्तम्-"अच्छिणिमिलीयमेत्तं णस्थि सुहं दुक्खमेव अणुबंधं । णरए गेरइआणं अहोणिसिं पच्चमाणाणं ॥१॥ असुभा उबियणिज्जा सहरसा रूवगंधफासा य । णरए णेरइआणं दुक्कयकम्मोवलित्ताणं ॥२॥” इत्यादि, एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलाल्लोहितमित्यादिप्रकारेण भवनमित्यर्थः, 'जानीहि अववुध्यस्व चतुर्विधमेनमोघतः पर्यायलोक 'समासेन' संक्षेपेणेति गाथार्थः ॥ २०२ ॥ तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन निगमयन्नाह भक्षिनिमीलनमानं नास्ति सुखं दुःखमेवानुबद्धम् । नरके नैरयिकाणामहनिशं पच्यमानानाम् ॥ ॥ अशुभा उद्वेजनीयाः शब्दरसा रूपगन्धस्स. शांश्च । नरके नैरयिकाणा दुष्कृतकर्मोपलिप्लाना । । ॥ वन्नरसगंधसंठाणकासद्वाणगइवनभए अ । परिणामे अ वहुविहे पजवलोगं विआणाहि ॥ २०३ ॥ (भा०) व्याख्या-वर्णरसगन्धसंस्थानपर्शस्थानगतिवर्णभेदाश्च, चशब्दाद रसादिभेदपरिग्रहः, अयमत्र भावार्थ:-वर्णादयः सभेदा गृह्यन्ते, तत्र वर्णः कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पञ्चधा, गन्धः सुरभिरित्यादिभेदाद् द्विधा, संस्थानं परिमण्डलादिभेदात्पञ्चधैव, स्पर्शः कर्कशादिभेदादष्टधा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्शधगतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाधनेकभेदोपसत्रहार्थ इति, अनेन फिल द्रव्यगुणा इत्येतद्व्याख्यातं । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारं, शेषं द्वारद्वयं स्वयमेव भावनीयं, तच्च भावितमेवेत्यक्षरगमनिका । भावार्थस्त्वयम्-परिणामांश्च बहुविधान जीवाजीवभावगोचरान् , किं ?-पर्यायलोकं विजानीहि इति गाथार्थः ॥ २०३ ॥ अक्षरयोजना पूर्ववदिति द्वारं, साम्प्रतं लोकपर्यायशब्दान्निरूपयन्नाहआलुकइ अ पलुकह लुकइ संलुकई अ एगट्ठा । लोगो अढविहो खलु तेणेसो वुचई लोगो ॥ १.०५८ ॥ व्याख्या-आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलोक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोकः अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम् , अत एवाऽऽह-तेनैष उच्यते लोको येनाऽऽलोक्यत इत्यादि भावनीयं, गाथार्थः॥ १०५८॥ व्याख्यातो लोकः, इदानीमुद्योत उच्यते, तत्राहदुविहो ग्वलु उजोओ नायव्यो व्वभावसंजुत्तो । अग्गी वुजोओ चंदो सूरो मणी विजू ॥ १०५९ ॥ व्याख्या-'द्विविधः' द्विप्रकारः खलूद्योतः, खलुशब्दो मूलभेदापेक्षया न तु व्यक्त्यपेक्षयेति विशेषणार्थः, उद्योत्यते. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 260