Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
आवश्यकहारिभद्रीया लोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । अरिहन्ते कित्तइस्सं, चउवीसंपि केवली ॥१॥ (सूत्रम्) व्याख्या अस्य, तल्लक्षणं चेदं-'संहिता चेत्यादि पूर्ववत् , तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिक इति. सा चेयं-'लोगस्सुजोयगरे'इत्यादि पाठः । अधुना पदानि, लोकस्य उद्योतकरान् धर्मतीर्थकरान जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिनः । अधुना पदार्थः-लोक्यत इति लोकः, लोक्यते-प्रमाणेन. दृश्यत इति भावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं ?-उद्योतकरणशीला उद्योतकरास्तान् , केवलालोकेन तत्पूर्वकप्रवचनदीपेन या सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-"दुर्गतिप्रसृतान् जीवा" नित्यादि, तथा तीर्यतेऽनेनेति तीर्थ धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ तत्करणशीलाः धर्मतीर्थकरास्तान्, तथा रागद्वेषकपायेन्द्रियपरीपहोपसर्गाप्टप्रकारकर्मजेतृत्वाजिनास्तान्, तथा अशोकाद्यष्टमहापातिहार्यादिरूपां पूजामहन्तीत्यहन्तस्तानहतः, कीर्तयिष्यामीति स्वनामभिः स्तोप्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्य. समुच्चयार्थः, केवल ज्ञानमेषां विद्यत इति केवलिनस्तान् केवलिन इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाञ्जि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सूत्रस्पर्शिका नियुक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तं च-"अक्ख लियसंहियाई वक्खाणचउक्कए दरिसियंमि । सुत्तप्फासियणिज्जुत्तिचित्थरत्थो इमो होइ ॥१॥'चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह१ अस्खलितसंहितादी व्याख्यानचतुष्के दर्शिते । सूत्रस्पर्शिकनियुक्तिविस्तरार्थोऽरा भवति ॥ १॥
णामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ नवे अ६ भावे अ ७।
पज्जवलोगे अ ८ तहा अट्ठविहो लोगणिक्खेवो॥ १०५७॥ . व्याख्या-नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः॥ व्यासार्थ तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराहजीवमजीवे रूवमरूवी सपएसमप्पएसे अ । जाणाहि दवलोगं णिचमणिचं च जं व्वं ॥ १९५॥ (भा०) ___ व्याख्या-जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ-रूप्यरूपिभेदाद्, आह च-रूप्यरूपिणाविति, तत्रानादिकर्मसन्तानपरिगता रूपिणः-संसारिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकायाः रूपिणस्तु परमाण्वादय इति, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह-'सप्रदेशाप्रदेशाविति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयं, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षते-जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि विष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यं, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा-द्रव्यतः परमाणुरप्रदेशो व्यणुकादयः सप्रदेशाः, क्षत्रत एकप्रदेशावगाढोऽप्रदेशो व्यादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकानेकसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते-इदमेवम्भूतं जीवाजीवनातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यदू द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः॥१९५॥ साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाह
गह १ सिद्धा २ भविआया ३ अभविअ४-१ पागल १ अणायदा य२॥
तीअद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ हिई चउहा ॥१९६ ॥ (भाष्यम् ) व्याख्या-अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साबपर्यवसानाः अनादिसपर्यवसाना अनाधपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । द्वारम् ॥ अधुना क्षेत्रलोका प्रतिपाहाते, तत्रआगासस्स पएसा उ8 च अहे अतिरियलोए अ । जाणाहि खित्तलोगंअणंत जिणदेसि सम्म॥१९७॥(भा०) ___ व्याख्या-आकाशस्य प्रदेशाः-प्रकृष्टा देशाः प्रदेशास्तान 'ऊर्ध्वं च' इत्यू लोके च 'अधश्च' इत्यधोलोके च तिर्यग्लोके च, किं ?-जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यक' शोभनेन विधिनेति गाथार्थः॥ १९७ ॥ साम्प्रतं काललोकप्रतिपादनायाह
लिअमहत्ता दिवसमहोरत्तपक्षमासाय।संवच्छरजगपलिआसागरओसप्पिपरिअडा॥१९८॥(भा०) व्याख्या-इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्येयसमयमाना त्वावलिका द्विघटिको मुहूर्तः षोडश मुहूर्ता दिवसः द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षी मासः द्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्यो
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 260