Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
श्रीमदावश्यकसूत्रस्योत्तरार्ध अथ चतुर्विंशतिस्तवाख्यं द्वितीयमध्ययनम्.
साम्प्रतं सामायिकाध्ययनानन्तरं चतुर्विंशतिस्तवाध्ययनमारभ्यते, इह चाध्ययनोद्देशसूत्रारम्भेषु सर्वेष्वेव कारणाऽभिसम्बन्धौ वाच्याविति वृद्धवादः, यतश्चैवमतः कारणमुच्यते, तच्चेदम् -जात्यादिगुणसम्पत्समन्वितेभ्यो विनेयेभ्यो गुरुरावश्यकश्रुतस्कन्धं प्रयच्छति सूत्रतोऽर्थतश्च, स च अध्ययनसमुदायरूपो वर्तते, यत उक्तम्-'एत्तो एफेकं पुण, अज्झयणं कित्तइस्सामि' प्रथमाध्ययनं च सामायिकमुपदर्शितम् , इदानी द्वितीयावयवत्वाद् द्वितीयावयवत्वस्य चाधिकारोपन्यासेन सिद्धिः आचार्यवचनप्रामाण्याद्, उक्तं च-'सावजजोगविरई उकित्तणे' त्यादि, अतो द्वितीयमुपदर्यते, यथा हि किल युगपदशक्योपलम्भपुरुषस्य दिदृक्षोः क्रमेणाङ्गावयवानि दश्यन्ते एवमत्रापि श्रुतस्कन्धपुरुषस्येति कारणम्, इदमेव चोद्देशसूत्रेष्वपि योजनीयम् , इदमेव साध्ययनेष्वपि कारणं द्रष्टव्यं, न पुनर्भेदेन वक्ष्याम इत्यलं विस्तरेण । सम्बन्ध उच्यते-अस्य चायमभिसम्बन्ध:-इहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टम् , इह तु तदुपदेष्टणामहतामुत्कीर्तनं कर्तव्यमिति प्रतिपाद्यते, यद्वा सामायिकाध्ययने तदासेवनात्कर्मक्षय उक्तः, यत उक्तं निरुक्तिद्वारे'सम्महिदि अमोहो सोही सब्भाव दंसणं बोही । अविवजओ सुदिठित्ति एवमाई निरुत्ताई॥१॥'ति, इहापि चतुर्विंशतिस्तवेऽहंद्राणोत्कीर्तनरूपाया भक्तेस्तत्त्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च-भत्तीऍ जिणवराणं खिज्जती पुवसंचिया
अतोऽनन्तरमेककं पुनरध्ययन कीर्तयिष्यामि । २ उपदर्यते इत्यनेन संबन्धः ३ सावद्ययोगविरतिरुत्कीर्तनं ४ अवान्तरावयवभूतेषु ५ सम्यग्दृष्टिरमोहः शोधिः सद्भावो दर्शनं बोधिः । अविपर्ययः सुदृष्टिरिति एवमादीनि निरुक्तानि ॥३॥६ कर्मक्षयः, . भक्तेजिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि कम्मत्तीत्यादि, एवमनेन सम्बन्धेनाऽऽयातस्य सतोऽस्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्ययनमिति । इह चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररूप्याः, तथा चाहचउचीसइत्ययस्स उणिवेवो होइ णामणिप्फण्णो । चउवीसइस्स छक्कोथयस्स उ चउविहो होइ ॥१०५६॥ ___ व्याख्या-चतुर्विंशतिस्तवस्य तु निक्षेपो भवति नामनिष्पन्नः, क इत्यन्यस्याश्रुतत्वादयमेव यदुत-चतुर्विंशतिस्तव इति, तुशब्दस्य विशेषणार्थत्वादिदमित्थमवसेयं, तत्रापि चतुर्विशतेः षट्कः स्तवस्य चतुर्विधो भवति, तुशब्दादध्ययनस्य चेति गाथासमासार्थः ॥१०५६॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राऽऽद्यावयवमधिकृत्य निक्षेपोपदर्शनायाहनाम ठवणा दविए खित्ते काले तहेव भावे अ। चउचीसइस्स एसो निक्खेवो छविहो होइ ॥१९०॥ (भा०) - व्याख्या-तत्र नामचतुर्विंशतिर्जीवादेश्चतुर्विंशतिरिति नाम चतुर्विंशतिशब्दो वा, स्थापनाचतुर्विंशति चतुर्विंशतीनां केषाश्चिरस्थापनेति, द्रव्यचतुर्विंशति चतुर्विशतिर्द्रव्याणि सचित्ताचित्तमिश्रभेदभिन्नानि, सचित्तानि द्विपदचतुष्प(दाप)दभेदभिनानि,अचित्तानि कार्षापणादीनि, मिश्राणि द्विपदादीन्येव कटकाद्यलङ्कृतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि क्षेत्रप्रदेशावाचतुर्विशतिप्रदेशावगाढं वा द्रव्यमिति,कालचतुविशतिःचतुर्विशतिसमयादय इति एतावत्कालस्थिति वा द्रव्यमिति, भावचतुर्विंशतिः चतुर्विंशतिभावसंयोगाश्चतुर्विंशतिगुणकृष्णं वा द्रव्यमिति, चतुर्विंशतेरेष निक्षेपः षड्विधो भवति' पत्प्रकारो भवति, इह च सचित्तद्विपदमनुष्यचतुर्विंशत्याऽधिकार इति गाथार्थः ॥ १९० ॥ उक्का चतुर्विंशतिरिति, साम्प्रतं स्तवः प्रतिपाद्यते. तत्रनाम ठवणा दविए भावे अथयस्स होइ निक्खेवो । वथओ पुप्फाई संतगुणुकित्तणा भावे ॥१९१॥(भा०)
व्याख्या-तत्र 'नामेति नामस्तवः 'स्थापनेति स्थापनास्तवः 'द्रव्य' इति द्रव्यविषयो द्रव्यस्तवः, 'भावे चेति भावविषयश्च भावस्तव इत्यर्थः, इत्थं स्तवस्य भवति 'निक्षेपो' न्यासः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यस्तवभावस्तवस्वरूपमेवाह-'द्रव्यस्तवः पुष्पादि'रिति, आदिशब्दाद् गन्धधूपादिपरिग्रहः, कारणे कार्योपचाराच्चैवमाह, अन्यथा द्रव्यस्तवः पुप्पादिभिः समभ्यर्चन मिति, तथा 'सद्गुणोत्कीर्तना भाव' इति सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासद्गुणोत्कीर्तनानिषेधमाह, करणे च मृपावाद इति, सद्गुणानामुरकीर्तना उत्-प्राबल्येन परया भक्त्या कीर्तना-संशब्दना यथा-"प्रकाशितं यथैकेन, त्वया सम्यग् जगत्रयम् । समग्रैरपि नो नाथ !, परतीर्थाधिपैस्तथा ॥१॥ विद्योतयति वा लोकं, यथैकोऽपि निशाकरः। समुद्गतः समग्रोऽपि, किं तथा तारकागणः १ ॥२॥" इत्यादिलक्षणो, 'भाव' इति द्वारपरामर्शो भावस्तव इति गाथार्थः॥ १९१ ॥ इह चालितप्रतिष्ठापितोऽर्थः सम्यग्ज्ञानायालमिति, चालनां च कदाचिद्विनेयः करोति कदाचित्स्वयमेव गुरुरिति, उक्तं च-कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा कहेंति आयरिया इत्यादि, यतश्चात्र वित्तपरित्यागादिना द्रव्यस्तव एव ज्यायान् भविष्यतीत्यल्पबुद्धीनामाशङ्कासम्भव इत्यतस्तव्यदासार्थ तदनुवादपुरस्सरमाहव्वथओभावथओ व्यथओबहुगुणत्ति बुद्धि सिआ।अनिउणमहवयणमिणं छज्जीवहिअंजिणाबिंति॥१९२|| व्याख्या-द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवो 'बहुगुण' प्रभूततरगुण 'इति' एवं बुद्धिः स्याद् , एवं चेत् मन्यसे
कचित्पृच्छति शिष्यः कुत्रचिराः कथयनस्याचार्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 260