Book Title: Agam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Author(s): Haribhadrasuri, Bhadrabahuswami,
Publisher: Bherulal Kanhiyalal Kothari Religious Trust
View full book text ________________
2
आवश्यक हारिभद्रीया
इत्यर्थः, तथाहि - किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायस्तीर्थस्य चोन्नतिकरणं दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुद्धयन्त इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षमिति चेतसि निधाय 'द्रव्यस्तवो बहुगुण' इत्यस्यासारताख्यापनायाऽऽह–‘अनिपुणमतिवचनमिदमिति, अनिपुणमतेर्वचनं अनिपुणमतिवचनम्, 'इदमिति यद् द्रव्यस्तवो बहुगुण इति, किमित्यत आह-'षड्जीवहितं जिना ब्रुवते' पण्णां - पृथिवीकायादीनां हितं जिना:- तीर्थकरा ब्रुवते, प्रधानं मोक्षसाधनमिति गम्यते ॥ किं च षड्जीवहितमित्यत आह
छज्जीवकायसंजमु दव्वधए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ पुष्फाईअं न इच्छंति ॥ १९३॥ (भा०) व्याख्या - 'पड्रजीवकायसंयम' इति पण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः -सङ्घट्टनादिपरित्यागः पड्जीवकायसंयमः, असौ हितं यदि नामैवं ततः किमित्यत आह- 'द्रव्यस्तवे' पुष्पादिसमभ्यर्चनलक्षणे 'स' पड्जीवकायसं• यमः, किं ?–'विरुध्यते' न सम्यक् संपद्यते, 'कृत्स्तः' सम्पूर्ण इति, पुष्पादिसंलुञ्चनसङ्घट्टनादिना कृत्स्न संयमानुपपत्तेः, यतश्चैवं 'ततः' तस्मात् 'कृत्स्नसंयमविद्वांस' इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थं, ते किम् ?, अत आह- 'पुष्पादिकं' द्रव्यस्तवं 'नेच्छन्ति' न बहु मन्यन्ते, यश्च्चो- 'द्रव्यस्त वे क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसाय' इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीर्त्याद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति शुभाध्यवसायभावेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, 'फलप्रधानास्समारम्भा' इति न्यायात्, भावस्तव एव च सति तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तव एव तस्य सम्यगमरादिभिरपि पूज्यत्वमे नं (स्वात्तमेव च दृष्ट्वा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते शिष्टा इति खपरानुग्रहोऽपी हैवेति गाथार्थः ॥ १९३ ॥ आह-ययेवं किमयं द्रव्यस्तव एकान्तत एव यो वर्तते ? आहोस्विदुपादेयोऽपि १, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि तथा चाह भाष्यकारःअकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दव्वथए कृवदिहंतो ॥ १९४ ॥ ( भा० )
व्याख्या - अकृत्स्नं प्रवर्तयंतीति संयममिति सामर्थ्याद्गम्यते अकृत्स्नप्रवर्तकास्तेषां 'विरताविरतानाम्' इति श्रावकाणाम् 'एष खलु युक्तः' एप - द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव, किम्भूतोऽयमित्याह - 'संसारप्रतनुकरणः' संसारक्षयकारक इत्यर्थः, द्रव्यस्तवः, आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्त इत्यत्र कूपदृष्टान्त इति, जाणवणाराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थं कूपं खणंति, तेसिं च जइवि तहादिया वति मट्टिकाकद्दमाईहि य मलिणिज्जन्ति तहावि तदुग्भवेणं चैव पाणिएणं तेसिं ते तण्हाइया सोय मलो पुवओ य फिटइ, सेसकालं च ते तदण्णे य लोगा सुहभागिणो हवंति । एवं दबथए जइवि असंजमो तहात्रि तओ चैव सा परिणामसुद्धी हवइ जाए असंजमोवज्जियं अण्णं च णिरवसेसं खवेइत्ति । तम्हा विरयाविरएहिं एस दबत्थओ कायवो,
१ यथा नवनगरादिसन्निवेशे केचित्प्रभूतजलाभावात् तृष्णादिपरिगतास्तदपनोदार्थं कूपं खनन्ति तेषां च यद्यपि तृष्णादिका वर्धन्ते मृत्तिकाकर्दमादिभिश्च मलिनीयन्ते ( वखादीनि ) तथापि तदुद्भवेनैव पानीयेन तेषां ते तृष्णादिकाः स च मलः पूर्वकश्च स्फिटति, शेपकालं च ते तदन्ये च लोकाः सुखभागिनो भवन्ति । एवं द्रव्यस्तवे यद्यपि असंयमस्तथापि तत एव सा परिणामशुद्धिर्भवति ययाऽसंयमोपार्जितं अन्यश्च निरवशेषं क्षपयति । तस्माद्विरताविरतैरेप द्रव्यस्तवः कर्त्तव्यः * भावस्तववत एव
सुभाणुबंधी पभूयतरणिजराफलो यत्ति काऊणमिति गाथार्थः ॥ १९४ ॥ उक्तः स्तवः, अत्रान्तरे अध्ययनशब्दार्थो निरू पणीयः, स चानुयोगद्वारेपु न्यक्षेण निरूपित एवेति नेह प्रतन्यते । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिपन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा - सूत्रानुगमो निर्युक्त्यनुगमश्च तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा - निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिक नियुक्त्यनुगमश्चेति, तत्र निक्षेपनि - युक्त्यनुगमोऽनुगतो वक्ष्यति च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा- 'उद्देसे निद्देसे' इत्यादि, 'किं कहि' मित्यादि । सूत्रस्पर्शिक नियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति स चावसर प्राप्त एव, rava सूत्रादयो ब्रजन्ति, तथा चोक्तम्- "सुतं सुप्तानुगमो सुन्तालापयकओ य णिक्खेयो । सुत्तष्फासियणिज्जुत्ति गया समगं तु वच्चति ॥ १ ॥” विषयविभागः पुनरमीपामयं वेदितव्यः- “होई कयस्थो वोतुं सपयच्छेयं सुयं सुयागमो । सुत्तालावयणासो णामाइण्णास विणिओगं ॥ १ ॥ सुत्तफासिय णिज्जुत्तिणिओगो सेसओ पयत्थाई । पाये सोच्चिय णेगमयाइमयगोयरो भणिओ || २ ||" अत्राssक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरूपिता एव नेह वितन्यत इत्यलं विस्तरेण तावद् यावत्सूत्रानुगमेऽरखलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रम्
१ शुभपरिणामानुबन्धी प्रभूततरनिर्जराफलश्चेतिकृत्वा । २ सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनिर्युक्तिः नयाश्च युगपदेव व्रजन्ति ॥ १ ॥ ३ भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥ १ ॥ सूत्रस्पर्शिक निर्युक्तिनियोगः शेषः पदार्यादिः । - प्रायः स एव नैगमनयादिमतगोचरो भणितः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 260