SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ 2 आवश्यक हारिभद्रीया इत्यर्थः, तथाहि - किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायस्तीर्थस्य चोन्नतिकरणं दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुद्धयन्त इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षमिति चेतसि निधाय 'द्रव्यस्तवो बहुगुण' इत्यस्यासारताख्यापनायाऽऽह–‘अनिपुणमतिवचनमिदमिति, अनिपुणमतेर्वचनं अनिपुणमतिवचनम्, 'इदमिति यद् द्रव्यस्तवो बहुगुण इति, किमित्यत आह-'षड्जीवहितं जिना ब्रुवते' पण्णां - पृथिवीकायादीनां हितं जिना:- तीर्थकरा ब्रुवते, प्रधानं मोक्षसाधनमिति गम्यते ॥ किं च षड्जीवहितमित्यत आह छज्जीवकायसंजमु दव्वधए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ पुष्फाईअं न इच्छंति ॥ १९३॥ (भा०) व्याख्या - 'पड्रजीवकायसंयम' इति पण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः -सङ्घट्टनादिपरित्यागः पड्जीवकायसंयमः, असौ हितं यदि नामैवं ततः किमित्यत आह- 'द्रव्यस्तवे' पुष्पादिसमभ्यर्चनलक्षणे 'स' पड्जीवकायसं• यमः, किं ?–'विरुध्यते' न सम्यक् संपद्यते, 'कृत्स्तः' सम्पूर्ण इति, पुष्पादिसंलुञ्चनसङ्घट्टनादिना कृत्स्न संयमानुपपत्तेः, यतश्चैवं 'ततः' तस्मात् 'कृत्स्नसंयमविद्वांस' इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थं, ते किम् ?, अत आह- 'पुष्पादिकं' द्रव्यस्तवं 'नेच्छन्ति' न बहु मन्यन्ते, यश्च्चो- 'द्रव्यस्त वे क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसाय' इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीर्त्याद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति शुभाध्यवसायभावेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, 'फलप्रधानास्समारम्भा' इति न्यायात्, भावस्तव एव च सति तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तव एव तस्य सम्यगमरादिभिरपि पूज्यत्वमे नं (स्वात्तमेव च दृष्ट्वा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते शिष्टा इति खपरानुग्रहोऽपी हैवेति गाथार्थः ॥ १९३ ॥ आह-ययेवं किमयं द्रव्यस्तव एकान्तत एव यो वर्तते ? आहोस्विदुपादेयोऽपि १, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि तथा चाह भाष्यकारःअकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दव्वथए कृवदिहंतो ॥ १९४ ॥ ( भा० ) व्याख्या - अकृत्स्नं प्रवर्तयंतीति संयममिति सामर्थ्याद्गम्यते अकृत्स्नप्रवर्तकास्तेषां 'विरताविरतानाम्' इति श्रावकाणाम् 'एष खलु युक्तः' एप - द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव, किम्भूतोऽयमित्याह - 'संसारप्रतनुकरणः' संसारक्षयकारक इत्यर्थः, द्रव्यस्तवः, आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्त इत्यत्र कूपदृष्टान्त इति, जाणवणाराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थं कूपं खणंति, तेसिं च जइवि तहादिया वति मट्टिकाकद्दमाईहि य मलिणिज्जन्ति तहावि तदुग्भवेणं चैव पाणिएणं तेसिं ते तण्हाइया सोय मलो पुवओ य फिटइ, सेसकालं च ते तदण्णे य लोगा सुहभागिणो हवंति । एवं दबथए जइवि असंजमो तहात्रि तओ चैव सा परिणामसुद्धी हवइ जाए असंजमोवज्जियं अण्णं च णिरवसेसं खवेइत्ति । तम्हा विरयाविरएहिं एस दबत्थओ कायवो, १ यथा नवनगरादिसन्निवेशे केचित्प्रभूतजलाभावात् तृष्णादिपरिगतास्तदपनोदार्थं कूपं खनन्ति तेषां च यद्यपि तृष्णादिका वर्धन्ते मृत्तिकाकर्दमादिभिश्च मलिनीयन्ते ( वखादीनि ) तथापि तदुद्भवेनैव पानीयेन तेषां ते तृष्णादिकाः स च मलः पूर्वकश्च स्फिटति, शेपकालं च ते तदन्ये च लोकाः सुखभागिनो भवन्ति । एवं द्रव्यस्तवे यद्यपि असंयमस्तथापि तत एव सा परिणामशुद्धिर्भवति ययाऽसंयमोपार्जितं अन्यश्च निरवशेषं क्षपयति । तस्माद्विरताविरतैरेप द्रव्यस्तवः कर्त्तव्यः * भावस्तववत एव सुभाणुबंधी पभूयतरणिजराफलो यत्ति काऊणमिति गाथार्थः ॥ १९४ ॥ उक्तः स्तवः, अत्रान्तरे अध्ययनशब्दार्थो निरू पणीयः, स चानुयोगद्वारेपु न्यक्षेण निरूपित एवेति नेह प्रतन्यते । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिपन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा - सूत्रानुगमो निर्युक्त्यनुगमश्च तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा - निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिक नियुक्त्यनुगमश्चेति, तत्र निक्षेपनि - युक्त्यनुगमोऽनुगतो वक्ष्यति च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा- 'उद्देसे निद्देसे' इत्यादि, 'किं कहि' मित्यादि । सूत्रस्पर्शिक नियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति स चावसर प्राप्त एव, rava सूत्रादयो ब्रजन्ति, तथा चोक्तम्- "सुतं सुप्तानुगमो सुन्तालापयकओ य णिक्खेयो । सुत्तष्फासियणिज्जुत्ति गया समगं तु वच्चति ॥ १ ॥” विषयविभागः पुनरमीपामयं वेदितव्यः- “होई कयस्थो वोतुं सपयच्छेयं सुयं सुयागमो । सुत्तालावयणासो णामाइण्णास विणिओगं ॥ १ ॥ सुत्तफासिय णिज्जुत्तिणिओगो सेसओ पयत्थाई । पाये सोच्चिय णेगमयाइमयगोयरो भणिओ || २ ||" अत्राssक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरूपिता एव नेह वितन्यत इत्यलं विस्तरेण तावद् यावत्सूत्रानुगमेऽरखलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रम् १ शुभपरिणामानुबन्धी प्रभूततरनिर्जराफलश्चेतिकृत्वा । २ सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनिर्युक्तिः नयाश्च युगपदेव व्रजन्ति ॥ १ ॥ ३ भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥ १ ॥ सूत्रस्पर्शिक निर्युक्तिनियोगः शेषः पदार्यादिः । - प्रायः स एव नैगमनयादिमतगोचरो भणितः ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy