SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया लोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । अरिहन्ते कित्तइस्सं, चउवीसंपि केवली ॥१॥ (सूत्रम्) व्याख्या अस्य, तल्लक्षणं चेदं-'संहिता चेत्यादि पूर्ववत् , तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिक इति. सा चेयं-'लोगस्सुजोयगरे'इत्यादि पाठः । अधुना पदानि, लोकस्य उद्योतकरान् धर्मतीर्थकरान जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिनः । अधुना पदार्थः-लोक्यत इति लोकः, लोक्यते-प्रमाणेन. दृश्यत इति भावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं ?-उद्योतकरणशीला उद्योतकरास्तान् , केवलालोकेन तत्पूर्वकप्रवचनदीपेन या सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-"दुर्गतिप्रसृतान् जीवा" नित्यादि, तथा तीर्यतेऽनेनेति तीर्थ धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ तत्करणशीलाः धर्मतीर्थकरास्तान्, तथा रागद्वेषकपायेन्द्रियपरीपहोपसर्गाप्टप्रकारकर्मजेतृत्वाजिनास्तान्, तथा अशोकाद्यष्टमहापातिहार्यादिरूपां पूजामहन्तीत्यहन्तस्तानहतः, कीर्तयिष्यामीति स्वनामभिः स्तोप्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्य. समुच्चयार्थः, केवल ज्ञानमेषां विद्यत इति केवलिनस्तान् केवलिन इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाञ्जि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सूत्रस्पर्शिका नियुक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तं च-"अक्ख लियसंहियाई वक्खाणचउक्कए दरिसियंमि । सुत्तप्फासियणिज्जुत्तिचित्थरत्थो इमो होइ ॥१॥'चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह१ अस्खलितसंहितादी व्याख्यानचतुष्के दर्शिते । सूत्रस्पर्शिकनियुक्तिविस्तरार्थोऽरा भवति ॥ १॥ णामं १ ठवणा २ दविए ३ खित्ते ४ काले ५ नवे अ६ भावे अ ७। पज्जवलोगे अ ८ तहा अट्ठविहो लोगणिक्खेवो॥ १०५७॥ . व्याख्या-नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः॥ व्यासार्थ तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराहजीवमजीवे रूवमरूवी सपएसमप्पएसे अ । जाणाहि दवलोगं णिचमणिचं च जं व्वं ॥ १९५॥ (भा०) ___ व्याख्या-जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ-रूप्यरूपिभेदाद्, आह च-रूप्यरूपिणाविति, तत्रानादिकर्मसन्तानपरिगता रूपिणः-संसारिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकायाः रूपिणस्तु परमाण्वादय इति, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह-'सप्रदेशाप्रदेशाविति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयं, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षते-जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि विष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यं, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा-द्रव्यतः परमाणुरप्रदेशो व्यणुकादयः सप्रदेशाः, क्षत्रत एकप्रदेशावगाढोऽप्रदेशो व्यादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकानेकसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते-इदमेवम्भूतं जीवाजीवनातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यदू द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः॥१९५॥ साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाह गह १ सिद्धा २ भविआया ३ अभविअ४-१ पागल १ अणायदा य२॥ तीअद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ हिई चउहा ॥१९६ ॥ (भाष्यम् ) व्याख्या-अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साबपर्यवसानाः अनादिसपर्यवसाना अनाधपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । द्वारम् ॥ अधुना क्षेत्रलोका प्रतिपाहाते, तत्रआगासस्स पएसा उ8 च अहे अतिरियलोए अ । जाणाहि खित्तलोगंअणंत जिणदेसि सम्म॥१९७॥(भा०) ___ व्याख्या-आकाशस्य प्रदेशाः-प्रकृष्टा देशाः प्रदेशास्तान 'ऊर्ध्वं च' इत्यू लोके च 'अधश्च' इत्यधोलोके च तिर्यग्लोके च, किं ?-जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यक' शोभनेन विधिनेति गाथार्थः॥ १९७ ॥ साम्प्रतं काललोकप्रतिपादनायाह लिअमहत्ता दिवसमहोरत्तपक्षमासाय।संवच्छरजगपलिआसागरओसप्पिपरिअडा॥१९८॥(भा०) व्याख्या-इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्येयसमयमाना त्वावलिका द्विघटिको मुहूर्तः षोडश मुहूर्ता दिवसः द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षी मासः द्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्यो Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy