Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 772
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू. २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७५९ त्रीणि तीर्थानि प्रज्ञतानि तद्यथा-मागधं वरदाम प्रभासम्, एवमेव जम्बूद्वीपे खलु भदन्त ! द्वीपे महाविदेहे वर्षे एकैकस्मिन् चक्रवर्तिविजये कति तीर्थानि प्रज्ञप्तानि ? गौतम ! त्रीणि तीर्थानि प्रज्ञप्तानि तद्यथा-मागधं वरदाम प्रभासम् ? एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे एकं द्वयुत्तरं तीर्थशतं भवतीत्याख्यातं ? जम्बूद्वीपे खल्लु भदन्त ! द्वीपे कियत्यो विद्याधरश्रेणयः कियत्य अभियोगिकश्रेणयः प्रज्ञप्ताः ? गौतम ! जम्बूद्वीपे द्वीपे अष्टषष्टि विद्याधरश्रेणयोऽष्टपष्टि राभियोगिकश्रेणयः प्रज्ञप्ताः । एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे षट्त्रिंशत् श्रेणयो भवन्तीत्याख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तश्चक्रवर्तिविजयाः कियत्यो राजधान्यः कियत्यस्तमिस्रागुहाः कियत्यः खण्डप्रपातगुहाः कियन्तः कृतमालका देवाः कियन्तो नक्तमालका देवाः कियन्तः ऋषभकूटपर्वताः प्रज्ञप्ता ? गौतम ! जम्बूद्वीपे द्वीपे चतुर्विंशत् चक्रवर्ति विजयाश्चतुर्विंश द्राजधान्यः चतु स्त्रिंशत्तमिस्रागुहाः चतुस्त्रिशत्खण्डप्रपातगुहा:-चतुस्त्रिंशत्कृतमालका देवाः चतुस्त्रिंशन्नक्तमालका देवाः चतुस्त्रिंशत-ऋषभकूटपर्वताः प्रज्ञप्ताः । जम्बूद्वीपे खलु भदन्त ! द्वीपे कियन्तो महाहूदाः प्रज्ञप्ताः ? गौतम ! षोडश महाहदाः प्रज्ञप्ताः जम्बूद्वीपे खल भदन्त ! द्वीपे कियत्यो महानद्यो वर्षधरप्रवहाः कियत्यो महानद्यः कुण्डप्रवहाः प्रज्ञप्ताः ? गौतम ! जम्बूद्वीपे द्वीपे चतुर्दश महानद्यो वर्षधरप्रवहाः, षट्सप्ततिमहानद्यः कुण्डप्रवहाः एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे नवतिर्महान यो भवन्तीत्याख्यातम् । जम्बूद्वीपे द्वीपे भरतैरवतयोः कति महानद्यः प्रज्ञप्ताः ? गौतम ! चतस्रो महानद्यः प्रज्ञप्ताः तद्यथा-गङ्गा सिन्धुः रक्ता रक्तवती, तत्र खलु एकैका महानदी चतुर्दश चतुर्दश सलिला सहौः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पयति, एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे भरतैरवतयो वर्षयोः पटपञ्चाशत् सलिला सहस्राणि भवन्तीत्यारख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे हैमवत हैरण्यवतयोर्वषयोः कतिमहानद्यः प्रज्ञप्ताः ? गौतम ! चतस्रो महानद्यः प्रज्ञप्ताः तद्यथा-रोहिता रोहितांशा सुवर्णक्टा रूप्यकूटा च, तत्र खलु एकैका महानदी अष्टाविंशत्याऽष्टाविंशत्या सलिलासहौः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समति एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे हेमवतहैरण्यवतवर्षयो दिशोत्तरसलिलासहस्रं भवतीत्याख्यातम् इति । जम्बूद्वीपे खलु भदन्त ! द्वीपे हरिवर्षरम्यकवर्षयोः कति महानद्यः प्रज्ञप्ताः ? गौतम ! चतस्रो महानद्यः प्रज्ञप्ता, हरि, हरिकान्ता, नरकान्ता, नारीकान्ता च, तत्र खलु एकैका महानदी षट्पञ्चाशता सलिलासहस्रैः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पति, एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे हरिवर्षरम्यकवर्षयोः द्वे चतुर्विंशति सलिला सहस्रे भवत इत्या. ख्यातम् । जम्बूद्वीपे खलु भदन्त ! द्वीपे महाविदेह वर्षे कति नहानद्यः प्रज्ञप्ता: ? गौतम ! द्वे महानद्यो प्रज्ञप्ते, तद्यथा-शीता च शीतोदा च तत्र खलु एकैका महानदी पञ्चभिः पञ्चभिः सलिला सहौः द्वात्रिंशता च सलिला सहस्रैः समग्रा पूर्वपश्चिमेन लवणसमुद्रं समर्पयति एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे महाविदेहवर्षे दशसलिलाशतसहस्राणि चतु:ष्टि सलिला જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806