________________
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
'न श्रीः प्रसन्ना प्रविकासिहग्भ्यां
' न भारती दत्तवती वर च । महत्त्वपूर्ण च कृतं न किञ्चित्
तथाप्यहो ! दर्पसमुद्धतत्वम् । ।
४२ न धोरिमा वा न गभीरिमा वा
न सासहित्व न परोपकारः । गुणे कलायां न समुन्नतत्व
तथापि गर्वः किमतः प्रहास्यम् ।।
रूपेण शक्रप्रतिमोऽपि मर्त्यः
कालान्तरे म्लानिमुपैति रोगैः । राज्ञोऽपि रङ्कीभवन स्फुट च
कस्तहि मानाचरणे मतोऽर्थः । ॥
सामान्यवर्गः खलु लक्षनाथ
___ मसौ च कोटीशमसौ च भूपम् । असौ च सम्राजमसौ च देव
मसौ च देवेन्द्रमसौ मुनीन्द्रम् ॥