Book Title: Adhyatma Tattvaloka
Author(s): Nyayavijay
Publisher: Surendra Lilabhai Zaveri

View full book text
Previous | Next

Page 298
________________ अध्यात्मतत्त्वालोकः । [अष्टम न निश्चितं किञ्चन कर्मकाण्ड न निश्चितः कश्चन सम्प्रदायः । मोक्षस्य लामाय वदन्ति सन्तस्तत्प्राप्तिमूलं तु समत्व एव ।। २२ कषायनिर्घातनकर्मशीला श्चारित्रसंशोधनदत्तचित्ताः। महाशयाः क्वापि हि मम्प्रदाये निःसशयं मोक्षमवाप्नुवन्ति ।। धर्मस्य तवं परमार्थभूत वदन्ति सर्वे समभाववृत्तिम् । यतेत यस्तत्र शिवं स गामी युक्तं न धर्मान्तरवैमनस्यम् ॥ ज्ञानस्य शाखा भुवि मिन्नमिन्ना _श्चारित्रतत्वं पुनरेकमेव । तदेव च ज्ञानफल विधेय न धर्मभेदे विषमाशयः स्यात् ॥

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306