Book Title: agam 38 Chhed 05 Jitkalpa Sutra
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
3-30. -10]
जीतकल्पचूर्णि - विषमपदव्याख्या
३३
संख्यातायुष्कगर्भज तिर्यङ्मनुष्यान् मुक्त्वा न शेषाणां क्षायोपशमिकावधिसम्भवो युगलधर्मिकाणाम् । अवधिर्मूतिमद्रव्यविषयः । अत्र यदा केवली प्राप्यते तदा तदग्रतो दीयते । तदभावे मनःपर्यायज्ञानिनः समीपे । तस्याप्य भावे अवधिज्ञानिन इत्यादि यथाक्रमं वाच्यम् ।
२ - 30. अवसेस - पुवीत्ति - अवशेष पूर्विणः - अष्ट - सप्तायेक तदर्द्धान्तं यावत् ।
२– 31. निशीथ कल्प-व्यवहार- दशाश्रुतस्कन्ध- पञ्चकल्प-प्रभृतिकं शेषं श्रुतं सर्वमपि श्रुतव्यवहारः । तदुक्तम्- 'आयारपकप्पाई सेसं सव्वं सुयं विणिद्दिन' मिति । चतुर्दशादिपूर्वाणां श्रुतत्वाविशेषेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वात् केवलादिवदागमत्वेनैव तानि व्यपदिष्टानि । यत आगम्यन्ते परिच्छिद्यन्ते अतीन्द्रियाः पदार्था अनेनेत्यागम उच्यते ।
२ - 32. तथा आज्ञायत आदिश्यत इत्याज्ञा । तद्रूपव्यवहारस्तु केनापि शिष्येण निजातिचारालोचकेन आलोचनाचार्यः सन्निहितोऽप्राप्तः, दूरे त्वसौ तिष्ठति । ततः केनचित्कारणेन स्वयं तावत्तत्र गन्तुं न शक्नोति । अगीतार्थस्तु कश्चित्तत्र गन्ता विद्यते । तस्य हस्ते आगमभाषया गूढानि अपराधपदानि लिखित्वा यदा शिष्यं प्रस्थापयति; गुरुरपि तथैव गूढपदौ (दैः) प्रायश्चित्तं लिखित्वा प्रेषयति तदासौ आज्ञालक्षणस्तृतीयो व्यवहारः । तद यु (दु) क्तं 'देसन्तरद्वियाणं गूढपयालोयणा आणा ।' गूढपदानि च दर्शयिष्यति चूर्णिकृत् । जहा - पढमस्स य कज्जस्सेत्यादिना ॥ आसेवियसत्थत्थ त्ति-अभ्यस्तशास्त्रार्थौ ।
२–33. दूरदेशान्तरनिवासिनी । मइधारणा-कुसलं ति - सन्दिष्टवस्तुनयनसमर्थम् ।
२ – 34. गूढार्थैर्वाक्यैः । दर्पासेवनापदमेकम् अपरं च कल्पासेवनरूपम् । ततः कल्पासेवन द्वितीयपदापेक्षया दर्पासेवनलक्षणं प्रथमं पदम् । तत्रापि दर्पासेवने दशपदानि दर्पाकल्प निरालम्बनादीनि । तेषु मध्ये प्रथमपदेन दर्पलक्षणेन षङ्कानि च त्रीणि । ततः प्रथमषङ्कं व्रतषङ्कलक्षणम् । अभ्यन्तरतन्मध्यवर्ति तत्र पठितमित्यर्थः । तत्रापि चप्राणातिपातादीनि षट् स्थानानि । तेषु मध्ये प्रथमं स्थानं प्राणातिपातरूपम्, आपन्नमित्येवं गूढपदेन प्राणातिपातातिचारं निर्द्दिष्टवान् । प्रथमषङ्के द्वितीयादिस्थानेष्वतिदिशन्नाह
२ - 35. पढमेत्यादि । सेसेसु वित्ति - द्वितीयादिषु मृषावादादिषु स्थानेषु इत्थं वाच्यम् । द्वितीयं षङ्कं कायषङ्कलक्षणम् । तत्र प्रथमं च स्थानं पृथिवीकायविषयम्, शेषाणि च पदानि अष्कायादीनि । तेषु तृतीयं षङ्कं अकल्पगृह भाजनादि-शोभावर्जनपर्यन्तलक्षणम् । तत्र पिण्ड- उपाश्रय-वस्त्र-पात्ररूपं चतुष्टयं यदनेषणीयं तदकल्प्यम् । करोटककंशपात्र्यादिकं च गृहभाजनम् । आसंदकमंचिकादिः पल्यङ्करूपम् । भिक्षां गतेन संयतेन गृहे नोपवेष्टव्यमित्येवं निषद्यावर्जनमुच्यते । स्नानवर्जनं पश्चमम् । शोभावर्जनं षष्ठमिति । स्वस्थाने न्यक्षेण व्याख्यास्यते गाथेयम् । तत्र प्रथमस्थानमकल्पलक्षणम् ।
२ - 36. सेसेसु वि परसु त्ति - शेषाणि पदानि गृहभाजनादीनि तेषु । इदानीमतिदेशमाह - प्रथमपदं दर्पलक्षणममुञ्चता तत्रैव यानि अकल्पनिरालम्बनादीनि द्वितीयतृतीयादीनि पदानि निःशङ्कपर्यन्तानि तेषु वाच्यम् । यथा पढमस्स य कज्ज़स्सा बिइएण पएण सेवियं जं च । शेषं पूर्ववत् । ततः तइएण पएण सेवियं जं चेत्यादि । यावद् दसमेण पएण सेवियं जं च त्ति । इत्येवं प्रथमषट्कमाश्रित्य चारणीयम् । भूयोऽपि द्वितीयकमाश्रित्य तृतीयषङ्कं चाश्रित्येत्थमेव चारणीयं यावद्दशमपदमिति । अत एवाह
३ – 5. पुढविकायाइसु त्ति । अपिशब्दोऽत्र दृश्यस्ततः पृथिवीकायादिष्वपीति दृश्यम् । द्वितीयं च कार्यं कल्पा सेवनरूपम् । तत्र चतुर्विंशति पदानि भवन्ति । तेषु मध्ये प्रथमं पदं दर्शनलक्षणं तदर्थमा से वितमित्यर्थः ॥ प्रथमादिपदव्याख्यामाह-पढमं ठाणमित्यादि - दर्प-कल्पासेवनेऽधिकृत्य प्रथमं स्थानं दर्पः, दर्पकल्पासेवनाश्रयणेन एतत्साध्यत्वादाकुट्टेरेतयोरेवान्तर्भावः । प्रमादस्य दर्प एवेति न तयोः पृथक् प्रायश्चित्तनिरूपणम् । ३ - १. परिग्गहो चेव त्ति - च शब्दाद्रात्रिभोजनग्रहः । इत्येवं प्रथमषङ्कविषयः ।
३- 10.. एवमकप्पाईसु वित्ति-नवसु पदेषु ।
५ जी० क० चु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/edb00cef8c47fd3e399080d0f81c89b9233e0f6e9a08dd067555dcb0a20f5597.jpg)
Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92